भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.138

16.138.1

यौ त ऊरू अष्ठीवन्तौ
ये श्रोणी या च ते भसत् ।
(…) ॥

16.138.2

यत् ते पुच्छं ये ते बाला
यद् ऊधो ये च ते स्तनाः ।
(…) ॥

16.138.3

यास् ते जङ्घा याः कुष्ठिका
ऋत्सरा ये च ते शफाः ।
(…) ॥

16.138.4

यत् ते चर्म शतौदने
यानि लोमान्य् अघ्न्ये ।
आमिक्षां दुह्रतां दात्रे
क्षीरं सर्पिर् अथो मधु ॥

16.138.5

अयं ते स्तन आमिक्षाम्
अयं सर्पिर् अयं मधु ।
अयं ते सर्वान् कामान्
दुहां देवि शतौदने ॥

16.138.6

क्रोडौ ते स्तां पुरोडाशाव्
आज्येनाभिघारितौ ।
तौ पक्षौ देवि कृत्वा
सा दातारं दिवं वह ॥

16.138.7

उलूखले मुसले ये च चर्मणि
ये वा शूर्पे तण्डुलाः कणाः ।
यद् वा वातो मातरिश्वा ममाथ-
-अग्निष् टद् धोता सुहुतं कृणोतु ॥

16.138.8

अपो देवीर् मधुमतीर् घृतश्चुतो
ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
यत्काम इदम् अभिषिञ्चामि वो ऽहं
तन् नो अस्तु
वयं स्याम पतयो रयीणाम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc