पैप्पलाद-संहिता · अध्याय 16.117
स उपहूतः पृथिव्यां भक्षयत्य्
उपहूतस् तस्मिन् यत् पृथिव्यां विश्वरूपम् ।
पृथिव्यां तपति पृथिव्याम् आ भाति
स्वर्गलोको भवति य एवं वेद ॥
स उपहूतो अन्तरिक्षे भक्षयत्य्
उपहूतस् तस्मिन् यद् अन्तरिक्षे विश्वरूपम् ।
अन्तरिक्षे तपत्य् अन्तरिक्ष आ भाति
(…) ॥
स उपहूतो दिवि भक्षयत्य्
उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ।
दिवि तपति दिव्य् आ भाति
(…) ॥
स उपहूतो देवेषु भक्षयत्य्
उपहूतस् तस्मिन् यद् देवेषु विश्वरूपम् ।
देवेषु तपति देवेष्व् आ भाति
(…) ॥
स उपहूतो लोकेषु भक्षयत्य्
उपहूतस् तस्मिन् यल् लोकेषु विश्वरूपम् ।
लोकेषु तपति लोकेष्व् आ भाति
स्वर्गलोको भवति य एवं वेद ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0