पैप्पलाद-संहिता · अध्याय 16.100
इन्द्राय भागं सविता कृणोत्व्
इमं यज्ञं यज्ञपतिश् च सूरिः ।
ये नो द्वेषन्त्य् अनु तान् रभस्व-
-अरिष्टा वीरा यजमानस्य सर्वे ॥
पञ्च लोकाः पञ्च र्तवः ।
पञ्चस्व् ऋतुष्व् ऋध्नोति
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥
एष वै निदाघो यज्ञो
यद् अजः पञ्चौदनः ।
निर् अप्रियं भ्रातृव्यं दहति
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
(…) ॥
यो वा आयन्तम् इत्य् ऋतुं वेद ।
आयतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते
भवत्य् आत्मना (…)
(…) ॥
(…) वै संयन्तम् इति (…) ।
संयतीम् एव (…) ॥
(…) वै भवन्तम् इति (…) ।
भवन्तीम् एव (…) ॥
(…) वा अभिभवन्तम् इति (…) ।
अभिभवन्तीम् एव (…) ॥
(…) वा उद्यन्तम् इति (…) ।
उद्यतीम् एव (…) ॥
(…) वै मूर्धानम् इति (…) ।
मूर्ध्नीम् एव (…) ॥
यो वै सर्वम् इत्य् ऋतुं वेद ।
सर्वाम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥
यावन्त्य् अस्य लोमानि
ब्रह्मास्तृणोति वेद्याम् ।
तावतीर् अस्य धाराः
समुद्रस्येवाक्षिताः ॥
दुहां क्षीरं भवतु सर्पिर् एभ्यः
सुरा भूत्वोप तिष्ठात् सुरापाम् ।
मधोर् धारा मधुपेभ्यो दुहानो
ऽजो नाके तिष्ठतु मोदमानः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0