पैप्पलाद-संहिता · अध्याय 15.21
नयामि वां पशुपती
घृतेनाज्येन वर्धयन् ।
यं द्विष्मो यश् च नो द्वेष्टि
तस्य वेशः करिष्यथः ॥
अधि ब्रूतं पशुपती
द्विपदे मे चतुष्पदे ।
प्रसूतौ यत्र जघ्नतुस्
ततो मे मातरं रिषत् ॥
या वां रुद्रः शिवा तनू
या वां सन्ति रोगणाः ।
या वाम् आयुष्मतीस् तनूस्
ताभिर् नो मृडतं युवम् ॥
न प्र मिनन्ति व्रतिनो व्रतानि
सत्यं जिन्वन्तो विदथा वदन्तः ।
यस्येमे रोदसी उभे
संयुक्ते मनसा हृदा ॥
स प्रजानां प्रजापतिः
साधु रक्षति वर्षति ।
स वेद रत्नभेषजं
देवेभ्यस् पर्य् आभृतं
तेन नो मृडतं युवम् ।
जीवातवे न मर्तवे
ऽथो अरिष्टतातये ॥
सगुणास आसते
संयुक्ता बलाय कम् ।
तेषां यद् इन्द्रियं वृह
चति रोचति रोचना ॥
ये ते रोचने बृहती
अन्तरिक्षे अथो दिवः ।
ताभ्याम् उप प्र याहि नः
सर्ववीराँ अरिष्यतः ॥
सर्ववीरा अरिष्यन्तो
रोचने अधि तस्थिम ।
यथा नस् तृष्णमद् वसु
दिवि क्षिपद्भ्यो अप्सु या ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0