पैप्पलाद-संहिता · अध्याय 12.1
अग्निस् तक्मानम् अप बाधताम् इतः
सोमो ग्रावा मरुतः पूतदक्षाः ।
वेदिर् बर्हिः समिधः शोशुचाना
अप रक्षांस्य् अमुया धमन्तु ॥
अयं यो रुरो अभिशोचयिष्णुर्
विश्वा रूपाणि हरिता कृणोति ।
तस्मै ते ऽरुणाय बभ्रवे तपुर्
मघाय नमो ऽस्तु तक्मने ॥
तक्मन् सार्थिनम् इच्छस्व
वशी सन् मृडयासि नः ।
अथेहि यत्र ते गृहा
अनिनूर्त्तेषु दस्युषु ॥
यः पुरुषः पारुषेयो
ऽवध्वंस इवारुणः ।
तक्मानं विश्वधावीर्य-
-अधराञ्चं परा सुव ॥
अधराञ्चं प्र हिणोमि
मनस् कृत्वा तक्मने ।
शकम्भरस्य मुष्टिहा
पुनर् गच्छ महावृषान् ॥
महावृषान् मूजवत
ओक एधि परेत्य ।
व्रतानि तक्मने ब्रूमो
अन्यक्षेत्राणि वा इमाः ॥
ओको अस्य मूजवन्त
ओको अस्य महावृषाः ।
याज् जातस् तक्मं ताद् असि
बलिहिकेषु न्योचरः ॥
तक्मन् व्याल विगद
व्यङ्ग भूरि यावय ।
दासीं निष्टक्वरीम् इच्छ
तां वज्रेण सम् अर्पय ॥
गिरिं गच्छ गिरिजासि
गिरौ ते माहिषो गृहः ।
दासीम् इच्छ प्रफर्व्यं
तां तक्मन् वीव धूनुहि ॥
यस् त्वं शीतो अथो रूरः
सह कासावीवियः ।
भिमास् ते तक्मन् हेतयस्
ताभि स्म परि वृङ्धि नः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0