पैप्पलाद-संहिता · अध्याय 1.71
अग्निष् टे विश आ नयाद्
इन्द्रो वायुर् बृहस्पतिः ।
स ते धर्मम् अदीधरद्
धातेव भुवनेभ्यः ॥
बृहस्पते पुरएता विशाम् इह्य्
अग्निः पश्चाद् अभि नुदात्य् आयतीः ।
वायुर् एना दक्षिणतः
पूषोत्तराद् उपानुदात् ॥
आ सहस्री शतरथ
आ रेवान्येतु नो विशम् ।
एन्द्रो वामेन विश्पतिर्
आ रूपेण बृहस्पतिः ॥
स्वर्जुष्टः कश्यपस्य
स राष्ट्रे जागरत् स्वे ।
ऋषभः शातमातुरः
श्वेतन्ताद् अविह्रुतो
देवान् यज्ञेन बोधयात् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0