भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.101

1.101.1

त्रीणि पात्राणि प्रथमान्य् आसन्
तानि सत्यम् उत भूतं ततक्ष ।
ऋतस्य माने अधि या ध्रुवाण्य्
एभिर् देवा अमृतं भक्षयन्ति ॥

1.101.2

स्वर् यद् देवा विभजन्त आयन्
त्रीणि पात्राणि प्रथमान्य् आसन् ।
आदित्या एकं वसवो द्वितीयं
तृतीयं रुद्रा अधि सं बभूवुः ॥

1.101.3

धाता वेद सवितैतानि सर्वा
बृहस्पतिः प्रथमो देवो अग्निः ।
एभिर् इन्द्रो जठरम् आपृणीते
त्रिभिः पात्रैर् उत विश्वे च देवाः ॥

1.101.4

ऊर्ध्वा तिष्ठन्ति न नु जिह्मा भवन्ति
नोनं बभूव कतमच् चनैषाम् ।
देवानां पात्राणि निहितानि यानि
तानि सं पाति य ऋतस्य गोपः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc