पैप्पलाद-संहिता · अध्याय 1.100
उद् एहि देवि कन्य
आचिता वसुना सह ।
न त्वा तरन्त्य् ओषधयो
बाह्याः पर्वतीया उत ॥
यथा त्वा देव्य् ओषधे
सर्वः कामयते जनः ।
एवा भगस्य नो धेहि
देवेभ्य इवामृतं परि ॥
उत्सक्तपत्न्य् ओषध
आवतंकरणीद् असि ।
यद् एषि यन् निषीदसि
तत्र त्वाहं सम् अग्रभम्
अश्वम् इवाश्वाभिधान्या ॥
यथा कुमारस् तरुणो
मातरं प्रतिनन्दति ।
एवास्मान् प्रति नन्दतु
यां वयं कामयामहे ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0