पद्मसंहिता · अध्याय 1.9
अज्ञानसागरं तीर्त्वा विद्यापारमुपेयिवान्।
उच्यतां सांप्रतं मह्यं भुवनानि चतुर्दश
रूपतो नामतश्चापि जिज्ञासा परमेश्वर।
यत्र प्रतिष्ठितं यच्च मानं रूपं च यादृशम्।
भुवनानां तदखिलं चतुर्मुखमुखै श्शतैः
वक्तुं निरवशेषेण कः क्षमेत प्रपञ्चतः।
बोद्धुं वा निखिलं शक्तः को वा धारयितुं क्षमः
तद्भ्रवीमि समासेन सर्वं त्वं बुध्यसे यथा।
चतुरश्रा भवति भूः पञ्चौशत्कोटि योजनैः
विस्तीर्णा सर्वतो दिक्षु घनं वैकोटियोजनम्।
द्वीपानि सप्त सन्त्यत्र तावस्तस्तोयराशयः
आङ्गुलीयकवत्सर्वे भूमेरुपरि विष्ठिताः।
द्वीपानि नामभिस्तावत्कथ्यन्ते क्रमशशृणु
जम्भूप्लक्ष कुश क्रौञ्चाश्शाकद्वीपस्तथा परः।
शाल्मली पुष्करो नाम सप्तमश्चतुरानन
आनुपूर्व्यात्समुद्रांश्च कथयामि यथातथम्॥
लवणेक्षुरसौ पश्चात् मैरेय स्तदनन्तरम्
सर्पिर्दधि पयस्त्वव्यत्ततश्शुद्धोदकं परम्।
भूभागे मध्यमे जुम्भूद्वीपमानं च कथ्यते
लक्षयोजनविस्तारस्सर्वतस्तदनन्तरम्।
विस्तारं वारिधिः क्षारस्तादृग्द्वीपमनन्तरम्
उत्तरोत्तरमेकैकं द्वीगुणायाम विस्तरः।
द्वीपानि षट्समुद्राश्च परिशिष्ठाश्चतुर्मुख
द्वीपं जम्भूसमाख्यातं विभजेन्नवदा पुनः।
भागेतु मध्यमे मेरोरुच्छायो लक्षसंमितः
योजनानां क्षितेरस्त र्मग्नष्षोडशकङ्ख्यया।
सहस्त्राणां योजनानां शिष्टोभागः प्रकाशते
क्षीते रूर्ध्वं रैमयश्च सर्वतो मूर्ध्निविस्तृतः।
द्वात्रिंशच्च सहप्राणां योजना नामयां पुनः
कर्णिकावच्च भूपद्ममध्ये सम्यगवस्थितः।
शृङ्गैश्शतसहस्रेण शतयोजन विस्तृतैः
तत्सङ्ख्यापरिणाहैश्च तस्य पार्श्वमहीधरान्।
वक्ष्यामि चानुपूर्व्येण यथा तदवधारय
हिमवान् हेमकूटस्च निषधश्छास्य दक्षिणे।
एते वर्षाचलाः प्रोक्ता स्त्रयः कमलसम्भव
वर्षं भारतमाख्यां प्रथमं तदन न्तरम्।
नाम्ना किंपुरुषं तस्माद्धरिवर्षमनन्तरम्
उत्तरे मेरुशैलस्य क्रमा द्वर्षमहीधराः।
नीलश्श्वेताह्वयश्शृङ्गी नाम्ना वर्षत्रयं पुनः
रम्यं हिरण्मयं वर्षमुत्तराः कुरव स्तथा।
उक्तानि षट्च वर्षणि प्रत्येकं परिमाणतः
योजनानां सहस्राणि नव वर्षंतु मध्यमम्।
इलावृतं समाख्यातं तन्मध्ये मेरुरीरितः
मेरोश्चतुर्दशं तत्र विस्तीर्णं योजनानि षट्।
त्रिणी चैव सहस्राणि चत्वारस्तत्रपर्वताः
विष्कम्भरूपै रचिता योजनायुतमुच्भ्रिताः।
मन्धरो दिशि पुर्वस्यां याम्यायां गन्धमादनः
प्रतीच्यां विपुलो नाम्ना...............
.................... कौभेरीमधितिष्ठति॥
दिशानु तानु चत्वारो पृक्षाः केतुवदुन्नताः
कदम्भभूरुहो जम्भूः पिप्पलो विटपी वटः।
शतानि दश चैकं च तेषां प्रत्येकमायतिः
जम्भ्वूतया समाख्या स्यात् द्वीपस्य कमलासन।
फलानि गजमानानि पतितानि शिलातले
श्रीर्यन्ते शतधा तेषां रसवाह स्सरिद्वरा।
जाम्भूनदीति कथिता तत्तटोर्वीनिवासिनः
पीत्वा रसं जरामृत्युवलीपलितवर्जिताः।
न स्वेदो न च दौर्गन्ध्यं नेन्द्रियाणामपि क्षयः
भवन्ति तेषां तीरोर्वी मृदस्तद्रसरञ्जिताः।
जाम्भानदाख्यां कल्पन्ते सौवर्णा कल्पसम्पदः
भद्राश्ववर्षमाख्यातं मेरोः प्राच्यां चतुर्मुख।
पश्चिमं केतुमालाख्यमेतयोर्वर्षयोः पुनः
इलापृतं समाख्यातं मध्यमं तत्पुरोदितम्॥
वनं चैत्ररथं पूर्वं दक्षिणं गन्धमादनम्
वै भ्राजां पश्चीमं मेरोर्वनं नन्दन मुत्तरम्।
अरुणोदं सरः पूर्वं महाभद्रं ततः परम्
शीतोदकं प्रतीचीनमुदीचीनं तु मानसम्।
देवोपभोगयोग्यानि सरांसि कथितानि ते
शतातश्च मुकुन्दश्च कुररी माल्यवानथ।
वैकङ्को नामपञैते पौरस्त्याः केसराचलाः
त्रिकूटोङ्गिरसश्चो भौ पन्नगः कूटलाह्ययः।
निषदो दक्षिणे तस्य तावन्तः केसराचलाः
शिखिवासो थ वै दूर्यः कपिलो गन्धमादनः।
जारुधिः पञ्चमो ब्रह्मन् केसराः पञ्चभूधरा
शङ्खकूटस्समाख्यात स्समाख्यात स्तथर्षभः।
हंसस्समाख्यया नागस्तथा कालाञ्जनप्रभः
उदीच्यां केसराः पञ्च विंशतिः केसराचलाः।
योजनानां सहस्राणां द्वात्रिंशन्मानसम्मिते
विस्तारे मूर्ध्ना शैलस्य मेरोर्भागेऽथ मध्यमे।
चतुर्भीर्दशभिश्चैव सहस्रैर्निर्मिता पुरी
योजनैस्संमितो धातुः कर्णि केवाचलाम्भुजे।
विदिक्षु दिक्षु चाष्टासु परितो ब्रह्मणः पुरी
इन्द्रादिलोकपालानां पुरः पूर्वादिषु स्थिताः।
विस्तारायाममानेन शतयोजनसंमिताः
पुरी भवति माघौनी नाम्ना चै वामरावती।
सहस्रगोपुरद्वार प्राकार परिघाकुला
तेजोवती पुर्याग्नेयी याम्या संयमनी पुरी।
रक्षोवती राक्षसी पूश्सुद्ध वत्यथ वारुणी
वायोर्गन्धवती ख्याता नाम्ना सौम्या महोदया।
यशस्पिनी भवस्योक्ता केसराचलभूमिषु
भगवस्मूर्ती भेदानां पुरस्सन्ति परिष्कृताः।
भित्वेन्दुमण्डलं गङ्गा भगवत्पाद जन्मभूः
दिवः पतन्ती प्रत्याशमभ्याशं भ्रह्मणः पुरः।
चतुर्तिक्षु वहन्ती सा चतुर्धाभवतिस्वयम्
सिता चालकनन्दा च सुचक्षुर्भद्रया सह।
चतस्रो नाम भेदाश्च दिग्भेदाश्च चतुर्मुख
स्तीता न्तरिक्षगा पूर्व शैलान्निष्क्रम्य निम्नगा।
याति पूर्वेण वर्षेण भद्राश्वेन च संज्ञया
प्रविष्टा सागरमुखं दक्षिणेन तथा ध्वना।
भारतं वर्षमभ्येति शैलात्सप्तमुखा ततः
प्रविष्टालकनन्धा सा नदी त्रैलोक्यपावनी।
सुचक्षुः पश्चिमाच्छैला त्केतुमालात् स्वयं पुनः
अतीत्य वर्षमम्भोधिमेति योषिद्यथा पतिम्।
भद्रा गिरेरुधीचिना देशा नुत्तरतः कुरून्
अतीत्य वारिधिं याति निम्नगा सरितां पतिम्।
आनीन विषदायामौ माल्यवान् गन्दमादनः
मध्ये तयोर्मेरुशैलः कर्णका पङ्कजे यथा।
भारतं केतुमालं च भद्राश्वं कुरुसंज्ञकम्
पत्राणि लोकपद्मस्य मर्यादा शैलतो बहि।
हेमकूटश्च निषधो दक्षीणोत्तरमाय तौ
मर्यादापर्वतौ ज्ञेयौ कैलासो गन्धमादनः।
अशीतियोजनामामौ पूर्वापरमहोदधी
संस्पृशन्तौ पारियात्र निषधावधिभूभृतौ।
मेरोः पश्चिमभूभागे पूर्रोत्तर मथाश्रितौ
त्रिशृङ्गो जारुधिर्वर्ष पर्वतौ मेरुभूभृतः।
उत्तरेण स्थितौ प्राप्य पूर्वापरमहोदधी
पर्वतानामवस्थान मानन्त्यान्न प्रपञ्च्यते।
शैलानामन्तरद्रोण्यस्सेव्यन्ते सिद्धचारणैः
अन्यैश्च पुण्यकृद्भिस्ता दैत्यदानवकिन्नरैः।
भौमा ह्येते कृतास्स्वर्गाः दुर्लभाः पापकर्मभिः
ज्ञानमूर्तिर्हयग्रिवो भद्राश्वे वसति स्वयम्।
वर्षेषु मूर्तयोविष्णो र्मर्यादापर्वतेषुच
वसन्ति लोकरक्षायै नानारूपविशेषिताः।
यानि किंपुरुषादीनि वर्षा ण्येतेषु पद्मज
निरातङ्काः प्रजाश्शश्वन् शोको न भयं तथा।
नोदन्या च बुभुक्षा च न द्वेषो ना युषुः क्षयः
सन्ति तेषां सहस्राणि वर्षाणि द्वौ च विंशतिः।
आयुर्व तेषु देशेषु भौममम्भो न वर्षति
देवो न चर्तुभेदोस्ति न कालो युगभेदवान्।
सदा कृतयुगः कालो वर्तते चतुरानन
धर्मश्चतुष्पात्सकलो ध्यानमेवार्चनं हरेः।
पर्वतास्सरितश्चापि यत्र यत्र पुराणि च
ग्रामाश्च सन्ति बहवस्स्य धर्मनिरतास्सदा।
ब्राह्मणा भूमिपाश्चापि प्रजापालनतत्पराः
स्वे स्वे कर्मण्यभिरताश्चातुर्वर्ण्यमवस्थिताः।
चारुराश्रम्यमप्येवं यथोक्तमवतिष्ठते
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0