भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 7.6

7.6.1

राजोवाच-
तिष्ठात्रैव महाबाहो मम राज्ये सुशोभने ।
कर्तव्या ते मया वृत्तिः संशयो नात्र विद्यते

7.6.2

ततो वीरवरस्तस्य सन्निधौ धरणीपतेः ।
उवास सततं विप्र तत्सेवा गतमानसः

7.6.3

अथैकदा तस्य पुरे जैमिने सकलाः प्रजाः ।
भीमनादो नाम खड्गः क्षोभयामास संततम्

7.6.4

तद्वधाय ततो राजा प्रेषयामास तं रुषा ।
ततोऽसौ गंडकं हंतु ययौ वीरवरो जनैः

7.6.5

ददर्श पर्वताकारं सुप्तं तं धरणीतले ।
दंष्ट्राकरालवदनं खड्गिनं तं सशक्तिधृक्

7.6.6

नभसि भ्रामयन्सप्तिं स च वीरवरो रुषा ।
खड्गिनं तमिति प्राह मेघगंभीरया गिरा

7.6.7

उपार्जितास्त्वया ये ये दुरात्मन्पापपादपाः ।
बभूवुः फलिनस्ते ते ऋतुं प्राप्य यथा द्रुमाः

7.6.8

खादिताः प्राणिनो ये ये राज्येऽस्मिन्पापिना त्वया ।
यमालये समस्तैस्तैर्दर्शनं ते भविष्यति

7.6.9

मुंच निद्रामरे दुष्ट मां पश्यान्तकरं निजम् ।
अनया निद्रया किन्ते महानिद्र भविष्यति

7.6.10

ततः सोऽपि समुत्तस्थौ क्रोधसंरक्तलोचनः ।
धूलिधूसरसर्वाङ्गस्त्यक्तनिद्रो महाबलः

7.6.11

भीमनाद उवाच-
गर्वं मा कुरु दुर्बुद्धे तवायुः शेषतां गतम् ।
तत्संदर्शनमात्रेण प्राप्तः कोनु विमुच्यते

7.6.12

ज्वलदग्निशिखाश्रेणीं प्रविशेच्छलभो यथा ।
मत्कोपानलराशौ त्वं तथैव निपतिष्यसि

7.6.13

इति ब्रुवंतं तं द्रष्टुं शक्त्या निशितया तया ।
स जज्वाल महाकोपात्कृत्वा हुंकारनिःस्वनम्

7.6.14

स पपात महीपृष्ठे गतायुर्गंडकस्ततः ।
चालयन्पृथिवीं सर्वां स्वनितौघ परिप्लुतः

7.6.15

खड्गिनं पतितं दृष्ट्वा गङ्गाब्धिरोधसि द्विज ।
समीपं तस्य भूपस्य स गंतुमुपचक्रमे

7.6.16

स गच्छन्पथिविप्रर्षे ददर्शैकं महाशयम् ।
जाज्वल्यमानं तेजोभिर्द्वितीयमिव भास्करम्

7.6.17

विष्णुदूतगणैर्युक्तं तुलसीमाल्यभूषितम् ।
दिव्याम्बरधरं दिव्यं रथारूढं स्मिताननम्

7.6.18

पप्रच्छेति ततो भक्त्या स च वीरवरश्च तम् ।
कस्त्वं कुत इहायातः क्व गच्छसि वदस्व नः

7.6.19

पुरुष उवाच-
कन्येविधृतपुंवेशे मद्वृत्तांतं निशामय ।
कथयामि समासेन श्रोतुमिच्छसि चेन्मुदा

7.6.20

अहमासं पुरा राजा चौरवंशवनानलः ।
धर्मबुद्धिरिति ख्यातः सर्वधर्मपरायणः

7.6.21

मया यज्ञाः कृताः सर्वे दानानि सकलानि च ।
चतुर्वर्षसहस्राणि पालिता च वसुन्धरा

7.6.22

पाखण्डजनवाक्येन मया भूमिर्द्विजन्मनः ।
लंघिता कोपमासाद्य दोषिता न हि कुत्रचित्

7.6.23

मया तेनापराधेन स्वयमेव विधिस्ततः ।
जहार तत्क्षणादेव सर्वां राजश्रियं रुषा

7.6.24

अथाहं गतसंपत्तिः शोकाग्निदग्धमानसः ।
कियिद्भिर्दिवसैः साध्वि यमराजवशं गतः

7.6.25

मां दृष्ट्वा चित्रगुप्तेन तत्कर्मप्रकटीकृतम् ।
उक्तश्च भास्करिर्देवश्चारुहासगतिः प्रभुः

7.6.26

धर्मबुद्धिरयं राजा कृतपुण्यक्रियः सदा ।
अस्त्यस्य दुरितं किञ्चित्तन्निशामय वच्म्यहम्

7.6.27

पाखण्डैर्बोधितोऽयं तु जहार द्विजशासनम् ।
तेनैव कर्मणा स्थानं नरके चास्यदुत्तरे

7.6.28

वृत्तिच्छेदः सूर्यपुत्र यस्य येन विधीयते ।
स तस्य वधमाप्नोति शास्त्रेषु इति निश्चितम्

7.6.29

तस्मादयं पापकर्मा ब्रह्महा पृथिवीपतिः ।
एतस्य निरये स्थानं कल्पकोटिशतावधि

7.6.30

आत्मदत्तां हरेद्यस्तु परदत्तां च मेदिनीम् ।
स कोटिकुलसंयुक्तः प्रयाति नरकं विभो

7.6.31

यो हरेच्च महीं तावद्देवस्य ब्राह्मणस्य च ।
न तस्य निष्कृतिर्दृष्टा कल्पकोटिशतावधि

7.6.32

परदत्तां क्षितिं यस्तु रक्षितुर्यस्तु रक्षति ।
स कोटिगुणमाप्नोति पुण्यं दातृगुणादपि

7.6.33

ततोऽहं शमनादेशाद्भुक्त्वा वै पूतिमृत्तिकाम् ।
कल्पयोनौ प्राणिहिंसा सर्वदैव मया कृता

7.6.34

गावश्च ब्राह्मणाश्चैव तथैवान्येऽपि जीविनः ।
मया दुष्टेन निहताः कोटिकोटिसहस्रशः

7.6.35

कालेन प्रेरिता साध्वि मां सर्वक्षयिताश्रयम् ।
खड्गयोनिं समुत्पन्नं भवती प्रजघान ह

7.6.36

गङ्गाब्धिसङ्गमं तीर्थं दुर्ल्लभं दैवतैरपि ।
स्थलेऽपि मृत्युमासाद्य यत्रेयं मम सद्गतिः

7.6.37

गच्छ सुश्रोणि भद्रं ते भविष्यति न संशयः ।
अचिरेणैव पतिना दर्शनं ते भविष्यति

7.6.38

व्यास उवाच-
तस्यैतद्वचनं श्रुत्वा सा कन्या परमाद्भुतम् ।
ववंदे चरणौ तस्य धर्मबुद्धिर्महीपतिः

7.6.39

ततो रथं समारुह्य स राजा त्रिदिवं ययौ ।
सोऽपि वीरवरो विप्र जगाम नृपतेः सभाम्

7.6.40

राजा च तं मृतं श्रुत्वा खड्गिनं भीमविक्रमम् ।
तस्यै ददौ विवाहेन जयंतीं निजकन्यकाम्

7.6.41

जयंतीं तां समादाय सा कन्या पुरुषाकृतिः ।
तपस्तप्तुं मनश्चक्रे गङ्गासागरसङ्गमे

7.6.42

गङ्गाब्धिसंगमे स्नात्वा प्रभाते द्विजसत्तम ।
गीतैर्वाद्यैश्च नृत्यैश्च यजेन्नारायणं प्रभुम्

7.6.43

निरामिषं हविष्यं च फलाहारं द्विजोत्तम ।
कदाचिदुपवासं सा कुरुते च वराङ्गना

7.6.44

एकाकिनीं समालोक्य कोऽग्रहीदत्र भूतले ।
मां नीचमिति मत्वासौ समारुह्य च वाजिनम्

7.6.45

भूय एव निजं राज्यं साजगाम वराङ्गना ।
माधवस्य वियोगेन तस्य विद्याधरस्य वा

7.6.46

मृता सा राजतनया यतोऽन्यं न भजत्यपि ।
तस्यां मृतायां भृत्योऽसौ निर्जगाम यदृच्छया

7.6.47

विलप्य बहुधा तत्र प्रचेष्टोऽत्यंत शोकभाक् ।
जगाम मरणार्थाय गङ्गासागरसङ्गमम्

7.6.48

गङ्गाब्धिसङ्गमे स्नात्वा तुलसीमृद्विभूषितः ।
कृताञ्जलिरिति प्राह प्रचेष्टो भीष्ममातरम्

7.6.49

पवित्रे त्वज्जले मातस्त्यजाम्यत्र कलेवरम् ।
सुलोचना मे कांतास्याद्यथातत्त्वं करिष्यसि

7.6.7.6.50

भूयोभूयो ब्रुवंतं तमिति तस्याश्च किंकराः ।
बध्वा पाशेन तं निन्युर्निरुक्तां तत्सभां प्रति ५०

7.6.51

तप्ता वीरवरादेशात्किंकरास्ते सुदारुणाः ।
कारायां स्थापयामासुः प्रचेष्टमनुविह्वलम्

7.6.52

एतस्मिन्नेव काले तु दृष्ट्वा तत्कार्यमद्भुतम् ।
हाहाकारो महानासीत्तद्राज्ये द्विजसत्तम

7.6.53

एतच्छ्रुत्वाद्भुतं कर्म स च राजा गुणाकरः ।
आयातोऽत्यंत संतप्तो वदतीति द्विजोत्तम

7.6.54

निषंगिणश्च रथिनश्चर्मिणः खड्गिनस्तथा ।
धानुष्काश्च कौंतकाश्च कोटिकोटिसहस्रशः

7.6.55

स्थाने स्थाने पुरे तस्मिन्राजा वै शोकविह्वलः ।
नियोजयामास तदा रक्षायै द्विजसत्तम

7.6.56

तेनाज्ञप्तास्ततः सर्वे योद्धारोऽमितविक्रमाः ।
सत्वराः पतिरक्षासु तस्थुस्तस्मिन्पुरे रुषा

7.6.57

गीतानि गायकैः सर्वैर्नृत्यानि नर्तकैस्तथा ।
वाद्यानि वादकैश्चैव तत्र त्यक्तानि साध्वसैः

7.6.58

ततः स राजा विप्रर्षे समाहूय स्वमंत्रिणः ।
किमेतदिति पप्रच्छ शोकोपहतमानसः

7.6.59

मंत्रिण ऊचुः-
देवाद्भुतमिदं कर्म न दृष्टं न श्रुतं क्वचित् ।
एतावतां नृणां मध्ये पश्यतां क्व जगाम सा

7.6.60

कोऽपि जल्पति सा लक्ष्मीः शापेनागत्य भूतले ।
त्वदीयं सौधमेतर्हि स्वयमंतरधीयत

7.6.61

मायामयी सा रमणी मायया त्वद्गृहे स्थिता ।
मायां स्वकीयां दर्शित्वा गतेत्यन्ये वदंति वै

7.6.62

केचिद्वदंति रमणी सर्वलक्षणसंयुता ।
आगमिष्यति भूयोऽपि भगाङ्गो मघवा यतः

7.6.63

तन्मुखंचन्द्रवन्मत्वा विचिंत्यात्मानमात्मना ।
केचिद्वदंति चन्द्रेण नीता सुप्रतिपत्तये

7.6.64

वदंति केऽपि सा कन्या सद्गुणा दीर्घवासना ।
भ्रान्त्या चन्द्रमसा ग्रस्ता पूर्णचंद्रनिभानना

7.6.65

दिग्गजैर्नलिनी भ्रान्त्या प्रफुल्लकमलानना ।
विषदण्डप्रहस्ता च नीरजा कलिकाकुचा

7.6.66

केचिद्वदंति सृष्ट्वा सा स्रष्टुमन्यां स्त्रियं नृपं ।
तद्रूपादर्शनालोक्ये नीता रूपगुणास्थिता

7.6.67

केचिद्वदंति भूपाल त्वया सर्वदिशो जिताः ।
रूपैर्दैवांगना जेतुं गता सा त्रिदिवं प्रति

7.6.68

अथ ते मंत्रिणोऽन्योन्यमालोक्येति मुखश्रियः ।
स्तब्धा इवाभवन्सर्वे निरुत्साहाः ससाध्वसाः

7.6.69

भूपः सुलोचने पुत्रि क्व गतासि विहाय माम् ।
इत्युक्त्वा स महीपालः पृथिव्यां मूर्च्छितोऽपतत्

7.6.70

राजानं पतितं दृष्ट्वा शोकेन महता ततः ।
जज्ञे हाहारवस्तस्मिन्नगरे द्विजसत्तम

7.6.71

तत्क्रंदनध्वनिं विप्र प्रतिश्रुत्वा च जायते ।
उत्प्रेक्षते तत्र लोके क्रंदंति ककुभो दश

7.6.72

धूलिधूसरतां गंतुं नृपतिं मुक्तकेशकम् ।
विधृत्य मंत्रिणः सर्वे तरसा सौधमाययुः

7.6.73

अथ विद्याधरस्तत्र श्रीविक्रमदेवजः ।
तस्याः पीठं समालिङ्ग्य रुरोद करुणस्वनैः

7.6.74

हा प्रिये चंचलापाङ्गि सुवर्णकुसुमप्रभे ।
शोकाब्धौ पातयित्वा मां क्व गतासि वरानने

7.6.75

मम किं दूषणं दृष्टं त्वया निर्दोषया प्रिये ।
न ददासि कथं भद्रे दर्शनं कमलानने

7.6.76

न जीविष्याम्यंहं भद्रे क्षणमात्रं त्वया विना ।
अतो मे दर्शनं दत्वा क्रियतां प्राणरक्षणम्

7.6.77

किं धनैः किं जनैः किं मे मित्रैः किं वा धनैर्गृहैः ।
नाप्नोमि यदि भद्रे त्वां प्राणेभ्योऽपि गरीयसीम्

7.6.78

एतच्चान्यच्च विप्रर्षे स कृत्वा करुणं महत् ।
शोकान्मृत्युं विनिश्चिंत्य ययौ गङ्गाब्धिसङ्गमम्

7.6.79

तत्र गङ्गाम्भसि स्नात्वा समुद्रजलमिश्रिते ।
निवेद्य भास्करायार्घं गंगां नत्वाह मातरम्

7.6.80

गंङ्गे देवि जगन्मातस्त्वज्जले विमले तनुम् ।
त्यजामि तां यथा भूयः प्राप्नोमि तत्करिष्यसि

7.6.81

इति ब्रुवंतं तं विप्र तत्किंकरवरास्ततः ।
विधिं विनिन्युः सदृशं क्रुद्धा वीरवरस्य च

7.6.82

ततो वीरवरः प्राह कस्त्वं भोः कुत आगतः ।
कथमत्र तनुत्यागं कुरुषे तद्वदस्व मे

7.6.83

तद्वाक्यमेतदाकर्ण्य ततो विद्याधरोऽखिलाम् ।
तां कथां कथयामास शृण्वतां विस्मयप्रदाम्

7.6.84

अथ त्वं मूर्खलोकानां प्रवरोसि न संशयः ।
गान्धर्वी राक्षसी वापि पन्नगी वापि किन्नरी

7.6.85

शापागतेव सा कन्या तस्मादन्तर्हिता स्वयम् ।
सा देवरूपिणी कन्या देवानां निलयं गता

7.6.86

कथं तया समं भूयो दर्शनं ते भविष्यति ।
चकोरपेयं पीयूषं गगने रोहिणीपतेः

7.6.87

किं शक्नुवंति तं पापा वायसा बलिनोऽपि च ।
यदप्राप्यं न तत्प्राप्यं प्राप्यं यत्तच्च लभ्यते

7.6.88

जानंति तज्जनं कश्चिन्मोहं प्रति न गच्छति ।
केनापि दीयते कन्या कन्या केनापि गृह्यते

7.6.89

पूर्वजन्मनि या कन्या तां कन्यां लभते पतिः ।
पुत्रप्रयोजना भार्या पुत्राः पिण्डप्रयोजनाः

7.6.90

कुर्वंति दारग्रहणमतएव मनीषिणः ।
यथेह दीयते नार्या तथा नारी समश्नुते

7.6.91

क्रंदन्रजन्यामप्येष भृङ्गः कुमुदिनीं सहेत् ।
सद्रूपोऽपि पतिः स्त्रीणां संतोषाय भवेन्नहि

7.6.92

रवौ स्थितेऽपि पद्मिन्या मधूनि भ्रमरः पिबेत् ।
नारीषु सततं चित्तं विष्णुभक्तिष्वनादरः

7.6.93

शोकैः कैश्चित्तनुत्यागस्तिस्रः पुंसां विडंबनाः ।
दाराः पुत्रास्तथा भ्राता देशाश्च बांधवास्तथा

7.6.94

पुनर्लभ्या इमे सर्वे पुनर्लभ्या न चासवः ।
न मुक्तो विषयो धर्मो न च कर्म कृतं त्वया

7.6.95

वर्तमाने गते मूढ भविष्यं जन्म दुर्ल्लभम् ।
मम माता मम पिता भार्या भ्राता धनं मम

7.6.96

निष्फलं याति वै जन्म नृणां ममतया तया ।
एवं प्रबोधितः सम्यक्तेन धीरवरेण सः

7.6.97

दौर्मनस्यं परित्यज्य तस्थौ तत्रैव जैमिने ।
ततस्तु गन्धिनी प्रीत्या हसंती स्वगृहं गता

7.6.98

गत्वा च माधवं मंचे स्वपंतं सा ददर्श ह ।
गन्धिन्युवाच-
उत्तिष्ठोत्तिष्ठ दुर्बुद्धे भ्रमस्ते विफलोऽभवत्

7.6.99

विवाहकाले सा कन्या बभूवांतर्हिता स्वयम् ।
एवं तस्या वचः श्रुत्वा समुत्तस्थौ स माधवः

7.6.7.6.100

विललापाकुलः शोकैर्महद्भिः क्ष्मातले लुठन् ।
कन्याया दूषणं नास्ति नास्ति विद्याधरस्य वा १००

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc