भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 7.4

7.4.1

जैमिनिरुवाच-
गङ्गाद्वारस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया ।
प्रयागस्य च माहात्म्यमिदानीं श्रोतुमिष्यसे

7.4.2

गङ्गाब्धिसङ्गमस्यापि माहात्म्यं कथ्यतां मुने ।
न सम्यक्कथितुं कोऽपि शक्नोति त्वदृते क्षितौ

7.4.3

व्यास उवाच-
प्रयागस्य फलं वत्स गङ्गाब्धिसङ्गमस्य च ।
सम्यग्वक्तुं न शक्नोमि संक्षेपाच्छ्रूयतां द्विज

7.4.4

कोटिब्रह्माण्डमध्येषु यानि तीर्थानि वै मुने ।
प्रयांति तानि सर्वाणि प्रयागप्रतिमां तु किम्

7.4.5

गङ्गाया यमुनायाश्च सरस्वत्याश्च सङ्गमे ।
प्रशंसंति सुराः सर्वे ब्रह्मविष्णुशिवादयः

7.4.6

मकरस्थे रवौ माघे स्नानं ये तत्र कुर्वते ।
तेषामागमनं नास्ति विष्णुलोकात्कदाचन

7.4.7

गवां कोटिसहस्राणि वाजिमेधमुखाध्वराः ।
मेरुतुल्यसुवर्णानि दानान्यन्यानि च द्विज

7.4.8

कुरुक्षेत्रे पुष्करे च प्रभासे च गयासु च ।
हुत्वा दत्वा च विप्रेभ्यो यत्फलं प्राप्यते बुधैः

7.4.9

माघे स्नात्वा प्रयागे तु तस्मात्कोटिगुणं भवेत् ।
तस्मात्समस्ततीर्थानां प्रयागः परमः स्मृतः

7.4.10

सिंहराशिस्थिते सूर्ये गोदावर्यां द्विजोत्तम ।
चिरमुग्रतपस्तप्त्वा स्नानदानव्रतादिभिः

7.4.11

वेदागमपुराणोक्तं यत्पुण्यमक्षयं भवेत् ।
माघे स्नात्वा प्रयागे तु तत्पुण्यं नात्र संशयः

7.4.12

फाल्गुने कृष्णपक्षे तु चतुर्दश्यामुपोषितः ।
काश्यां यत्फलमाप्नोति तन्मे निगदतः शृणु

7.4.13

कोटिजन्मार्जितैः पापैर्विमुक्तः सर्वरूपधृक् ।
उद्धृत्य कोटिपुरुषाञ्छिवेन सह मोदते

7.4.14

माघेमासे प्रयागे तु स्नात्वा सकृदपि द्विजः ।
कल्पकोटिशतं विष्णुं संपूज्यान्यत्र यत्फलम्

7.4.15

एकाहमपि संपूज्य मकरस्थे दिवाकरे ।
सत्यं सत्यमहं वच्मि सर्वमेवाक्षयं भवेत्

7.4.16

यावद्दिनं माघमासे तत्र तिष्ठति मानवः ।
तावत्कल्पशतं विप्र मोदते विष्णुना सह

7.4.17

गङ्गायमुनयोस्तोये स्नानं येन कृतं सकृत् ।
सद्यस्तद्दर्शनात्पापैर्मुच्यते सर्वपातकैः

7.4.18

तर्तुं यदीच्छंति जनाः संसाराब्धिं सुदुस्तरम् ।
गङ्गायमुनयोः स्नात्वा भक्त्या पश्यंतु माधवम्

7.4.19

यजंति मानवास्तत्र यद्यदिष्ट्वा कलेवरम् ।
सद्यो लभंते विप्रर्षे तत्तदेव न संशयः

7.4.20

इतिहासमिहैवाहं कथयामि निशामय ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः

7.4.21

प्रणिधिर्नाम तत्रासीद्वैश्य एको महाधनी ।
देवतातिथिपूजासु विप्रभक्त्येकतत्परः

7.4.22

तस्य पद्मावती नाम धर्मपत्नी पतिव्रता ।
चार्वङ्गी शीलयुक्ता च कुलजा प्रियवादिनी

7.4.23

स्त्रीणां योग्या गुणा ये ये सृष्टाः श्रीपरमेष्ठिना ।
तच्छरीरे गुणास्ते ते निवसंति द्विजोत्तम

7.4.24

अथासौप्रणिधिर्वैश्यः समादायधनं बहु ।
वाणिज्यार्थे गतो विप्र शुभे लग्ने शुभे तिथौ

7.4.25

धनाद्धर्मः प्रभवति धनाच्च विपुलं यशः ।
धनात्कुलमवाप्नोति भवेत्किं वा धनादृते

7.4.26

धनहीनं जनं दृष्ट्वा सखापि वा पलायते ।
मेघःशरद्यंबुहीनः खंडं खंडं नयेन्महत्

7.4.27

खादितुं प्राप्यते यावत्तावदेव हि बांधवाः ।
धनं यस्य कुलं तस्य बुद्धिस्तस्य स पंडितः

7.4.28

अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः ।
धर्मार्थविद्यार्जनतो मतिर्यस्य नि वर्तते

7.4.29

ज्ञेयः स मूर्खः सुतरामधिकस्याधिकं फलम् ।
कर्त्तव्यः सततं धर्मश्चार्जितव्यं सदाधनम्

7.4.30

शिक्षितव्या सदा विद्या पुंभिरेव विचक्षणैः ।
दानाद्धनं च विद्या च वर्द्धते प्रतिवासरम्

7.4.31

धर्मस्तु वर्द्धते नैव रक्षतेन विना नृणाम् ।
काष्ठं तृणं तुषं वापि संप्राप्य न परित्यजेत्

7.4.32

पुमान्संचयशीलोऽपि कदाचिन्नावसीदति ।
ततोऽसौ प्रणिधिर्वैश्यो नियोज्य स्त्रियमालये

7.4.33

गृहव्यापारनिष्णातो वाणिज्येन जगाम ह ।
अथैकदा तस्य पत्नी गृहीत्वोद्वर्तनादिकम्

7.4.34

सखीभिः सह विप्रर्षे जगाम स्नानहेतवे ।
ततो धनुर्ध्वजो नाम स्वयं च पातकाश्रयः

7.4.35

निजेच्छया प्रकुर्वंतीं स्नानकर्म ददर्श ताम् ।
विकसत्स्वर्णपुष्पाढ्यां प्रफुल्लकमलाननाम्

7.4.36

मृगशावदृशं चारु पीनोन्नतपयोधराम् ।
तां वैश्यपत्नीमालोक्य श्वपचोऽसौ स्मरातुरः

7.4.37

उवाच प्रहसन्वाणीं निजमूर्तिमचिंतयन् ।
धनुर्ध्वज उवाच-
कासि कल्याणि सुश्रोणि चारुहासिनि सुन्दरि

7.4.38

मनो हरसि मे कस्मात्सुयौवनरसैः प्रिये ।
विशालजघने तन्वि मया गुणवता सह

7.4.39

गुणवत्या त्वया सर्वं सुखमत्यनुभूयताम् ।
धनुर्ध्वजवचः श्रुत्वा तस्याः सख्यस्ततो द्विज

7.4.40

ऊचुर्वाक्यं तथा क्रुद्धाः संदष्टदशनच्छदाः ।
सख्य ऊचुः-
अरे मूढ दुराचार दुराचारकुलोद्भव

7.4.41

पादनिष्प्रेक्षणमपि नैतस्यास्ते प्रदीयते ।
इयं पतिव्रता नारी धर्मकर्मपरायणा

7.4.42

आत्मानं सुखमिच्छद्भिः पापदृष्ट्या न दृश्यते ।
परस्त्रीमुखसौंदर्यं परद्रव्यं च सर्वदा

7.4.43

दृष्ट्वा कामाग्निसंखिन्ना दह्यंते मूढमानसाः ।
याहि पापमते दूरं मा वदोक्तिं सुदुःसहाम्

7.4.44

वयमेव भवंतं न स्पृशामश्चरणैरपि ।
धनुर्ध्वज उवाच-
धिगस्त्वमुं जातिशब्दं संजानन्नखिलं गुणम्

7.4.45

संभावितो न युष्माभिः श्वपचत्वे यतोऽधुना ।
कनकं मदिरापूर्णं कलशाभ्यंतरस्थितम्

7.4.46

संप्राप्य को न गृह्णाति तद्गुणग्रामवित्पुमान् ।
अतोऽहं युवतीमेनां यथा प्राप्नोमि सांप्रतम्

7.4.47

तथा कुरुत हे सख्यः शरणं भो गतोस्मि यत् ।
इति ब्रुवंतं तं मूढं भूयोभूयो द्विजोत्तम

7.4.48

ऊचुर्वाक्यमिदं तास्तु जातात्यंतकुतूहलाः ।
सख्य ऊचुः-
यद्येतां रमणीं नूनमिच्छसि त्वं सुदुर्म्मते

7.4.49

गङ्गायमुनयोः शीघ्रं शरीरं संगमे त्यज ।
मिथःकृतमुखालोका हसंत्यस्तास्ततो द्विज

7.4.7.4.50

तां साधुपत्नीमादाय ययुर्निजगृहांतरम् ।
ततोऽसौ श्वपचो मोहाद्ब्रह्महत्यासहस्रकृत् ५०

7.4.51

गंगायमुनयोस्तोये तामिष्ट्वा पंचतां गतः ।
तत्स्वामिसदृशाकारः समस्तगुणवान्बली

7.4.52

स च एव श्वपाकोऽसौ स्ववृत्तांतं स्मरन्नभूत् ।
ततोऽसौ प्रणिधिर्वैश्यस्तस्मिन्नेव दिने शुभे

7.4.53

कृत्वा वाणिज्यमायातः स्वकीयं निलयं प्रति ।
श्वपाकोऽपि ततो विप्रस्तस्या वासं विवेश ह

7.4.54

प्रणिधेः सदृशो रूपैर्वयोभिश्च गुणैरपि ।
एकाकारौ समालोक्य पुरःस्थौ तौ गुणाकरौ

7.4.55

कस्याहं दयिता को वा मम भर्त्तेत्यचिंतयत् ।
ततः सा विस्मिता साध्वी विलोक्य तत्पतिद्वयम्

7.4.56

तुष्टाव माधवं देवं वचनैः कोमलाक्षरैः

7.4.57

पद्मावत्युवाच-
नमामि गोविन्दमनन्तमूर्तिं शक्रादिदेवार्चितपादपद्मम् ।
योगेश्वरं योगविदां निरीहं योगप्रदं योगिभिरर्चनीयम्

7.4.58

नमोऽस्तु ते कैटभमर्द्दनाय नमो मधुध्वंसकराय तुभ्यम् ।
नमोऽस्तु कंसासुरनाशनाय नमोऽस्तु चाणूरनिपातनाय

7.4.59

नमोऽस्तु वेदोद्धरणाग्रनित्यं नमोऽस्तु भूम्युद्धरणाय तुभ्यम् ।
नमोस्तु पृथ्वीधरणक्षमाय नमोस्तु दैत्यांतकराय तुभ्यम्

7.4.60

गङ्गांबुधौ तांघ्रियुगाय तुभ्यं नमोस्तु राजन्यकुलांतकाय ।
नमोस्तु ते रावणवंशहंत्रे अलं च दैत्यांतकराय तुभ्यम्

7.4.61

नमोस्तु ते चाध्वरनिंदकाय नमोस्तु ते म्लेच्छकुलांतकाय ।
नमोऽस्तु ते हृत्कमलासनाय नमोऽस्तु ते सर्वरिपुध्वजाय

7.4.62

प्रसीद गोपीजनवल्लभ प्रभो धृतैकहस्ताचलदेवदेव ।
प्रसीद लक्ष्मीमुखपद्मभृंग प्रसीद विष्णो सततं नमस्ते

7.4.63

प्रसीद पद्मेक्षणचक्रपाणे कौमोदकीहस्तगदाधर त्वम् ।
प्रसीद विष्णो धृतपांचजन्य नमोस्तु ते पद्मधराय नित्यम्

7.4.64

संसारकौतुहलमंदिरे ते मोहांधकारे च विवेकदीपे ।
संमोहिता केशव मायया हि त्वदीयया नित्यमहं भ्रमामि

7.4.65

विरञ्चि सेन्द्रार्कमुखाः सुरेन्द्रा मायां न जानन्ति तवासुरारे ।
मानुष्यहं किं तव वेद्मि मायां पुरोभ्रमं मे हरसानुकंपम्

7.4.66

व्यास उवाच-
तस्याः स्तवं समाकर्ण्य भगवान्माधवः प्रभुः ।
समालोक्य जगन्नाथश्चतुर्वर्गफलप्रदः

7.4.67

आविर्बभूव सहसा सूर्यकोटिसमप्रभः ।
सा मूर्ध्ना भूमिमालोक्य ववंदे तत्पदद्वयम्

7.4.68

नमस्ते कमलाकान्त भुक्तिमुक्तिफलप्रद ।
हर मे ज्ञानहीनायाः स्वकीय मतिविभ्रमम्

7.4.69

श्रीभगवानुवाच-
भ्रमं जहीहि चार्वंगि द्वावेतौ हि पती तव ।
एकभावेन सुश्रोणि कुरु सेवां तयोः सदा

7.4.70

यश्च ते प्रणिधिः स्वामी मद्भक्तस्तरुणः सुधीः ।
भोक्तुं सुखफलं साध्वि सोऽभवद्द्विविधः स्वयम्

7.4.71

अनन्तरूपिणी लक्ष्मीर्यथा क्रीडे मया सह ।
तथा त्वमपि सुश्रोणि भुंक्ष्व ताभ्यां सुखं सदा

7.4.72

पद्मावत्युवाच-
एकस्या द्वौ पती देव न प्रशंसन्ति मानवाः ।
मग्नां लज्जाब्धिकल्लोले मामुद्धर दयामय

7.4.73

श्रीभगवानुवाच-
यदापकीर्तितः साध्वि बिभेषि त्वं ध्रुवं भुवि ।
तदा मत्पुरमागच्छ ताभ्यां सह वरानने

7.4.74

विमानमागतं सद्यस्ततो भगवदाज्ञया ।
तौ समादाय वैकुण्ठं सा गंतुमुपचक्रमे

7.4.75

अथ सा पथिगच्छन्ती भर्तृभ्यां सह जैमिने ।
ददर्शैकं महात्मानं रथस्थं स्त्रीसमन्वितम्

7.4.76

धृतं कमलपत्राक्षैरतसीकुसुमप्रभैः ।
चतुर्भुजैर्दूतगणैरासीनैर्गरुडोपरि

7.4.77

विष्णुदूतांस्ततस्तांस्तु विष्णुरूपान्वरांगना ।
कोऽयं रथस्थः पुरुष इति पप्रच्छ सा सती

7.4.78

के वा यूयं महात्मानः पुण्डरीकनिभेक्षणाः ।
सर्वेपि विष्णुसदृशाः शङ्खचक्रादिपाणयः

7.4.79

ततस्ते भगवद्दूता विष्णुतुल्यपराक्रमाः ।
विहस्योचुर्मुहुः सर्वे परमामोदसंयुताः

7.4.80

विष्णुदूता ऊचुः ।
विष्णुदूता वयं साध्वि पुण्यात्मानमिमंजनम् ।
समादाय पदं याम उदारं लोकमुत्तमम्

7.4.81

पद्मावत्युवाच-
केन पुण्यप्रभावेन गतोऽयमीदृशीं गतिम् ।
विष्णुदूता महात्मानः कथ्यतामित्यहो मम

7.4.82

विष्णुदूता ऊचुः -
अयं बृहद्ध्वजो नाम राक्षसो लोकशोककृत् ।
अरण्यादिनिवासी च महाबलपराक्रमः

7.4.83

परदारपरद्रव्यहारको रिपुकोद्यतः ।
गोमांसाशी निष्ठुरोक्तिभाषी च देवनिन्दकः

7.4.84

यद्यत्पापरतं कर्म्म तदनेन कृतं सदा ।
स्वप्नेऽपि न कृतं कर्म शुभं न च पतिव्रते

7.4.85

अयं रथं समारुह्य सततं कामपीडितः ।
परस्त्रीहरणार्थाय सुश्रोणि नभसि भ्रमन्

7.4.86

यां यां सुयौवनां नारीं यत्र यत्रायमीक्षते ।
बलाच्चालिङ्गितस्तां तु तत्र तत्र स्मरातुरः

7.4.87

अथैकदा भीमकेश नाम्नो नरपतेः प्रियाम् ।
ददर्श क्रीडामध्यस्थां सुंदरीं नवयौवनाम्

7.4.88

अथासौ तां समालोक्य सुवर्णकुसुमप्रभाम् ।
इत्युवाच वचः प्रेम्णा का त्वमत्र करोषि किम्

7.4.89

सैवोवाच ततः कांता भीमकेशस्य भूपतेः ।
अहं सुरतशास्त्रज्ञा केशिनी नाम भूषिता

7.4.90

अयि सर्वगुणज्ञां मां प्रेमहृष्टां न भूपतिः ।
स्ववंशजां दोषहीनां पश्यति क्षणमप्यसौ

7.4.91

स्थीयते नित्यमत्रैव भर्त्राखंडितचर्चया ।
मया स्वकर्मशोचंत्या विरहानलतप्तया

7.4.92

कस्त्वं कथमिदं प्राप्तमुद्यानं प्रतिसत्तम ।
समायातोऽसि तत्सर्वं प्रसन्नो वक्तुमर्हसि

7.4.93

अथायमित्याह वचः पूर्णचन्द्र निभानने ।
मायावी राक्षसोऽहं त्वामालिङ्गितुमिहागतः

7.4.94

जहीहि रुष्टभर्तारं सर्वदा दोषदर्शिनम् ।
तन्वि मां भज सर्वं ते दास्यामि सुखमुत्तमम्

7.4.95

ततो विहस्य साध्वीयं राक्षसेन्द्रमिमं मुदा ।
बबंध बाहुलतया विन्यस्य वदने मुखम्

7.4.96

स तामालिंग्य युवतीं विवेकोद्वेगविह्वलाम् ।
अनया सह सुश्रोणि दिव्यमारूढवान्रथम्

7.4.97

दंपतीभावमाश्रित्य तौ जातावतिकौतुकम् ।
वायुवेगरथारूढौ यातौ गगनवर्त्मनि

7.4.98

अथैनामयमित्याह पश्यतन्विवरानने ।
त्वद्भर्तृदेशादायातौ गङ्गासागरसङ्गमे

7.4.99

ततो रथस्थनारीयमधिगङ्गाब्धिसङ्गमम् ।
जगाम पंचतां सद्यः संदृश्यात्यंतसाध्वसैः

7.4.7.4.100

विलप्य बहुधा साध्वीं तत्रायमपि राक्षसः ।
गतप्राणां समालोक्य सद्यो मृत्युं जगाम ह १००

7.4.101

वैनतेयध्वजादेशादिमौ गलितकल्मषौ ।
नयामः पुण्यकर्माणौ वैकुण्ठं प्रति संप्रति

7.4.102

जलेस्थले चांतरिक्षे गङ्गासागरसङ्गमे ।
देहं संत्यज्य गच्छन्ति पापिनो हि परां गतिम्

7.4.103

त्रैलोक्यदुर्लभं तीर्थं गङ्गासागरसंगमे ।
माघे तपसि शुक्लायामेकादश्यामुपोषितः

7.4.104

तत्र शुद्धिमवाप्नोति ब्रह्महापि न संशयः ।
गङ्गाब्धिसङ्गमे स्नात्वा हरिं दृष्ट्वा च माधवम्

7.4.105

कार्तिकेयमुखं दृष्ट्वा पुनर्जन्म न विद्यते ।
कार्तिकेयो हरिः साक्षादित्यभेदः कृतः सदा

7.4.106

ये कार्तिंकेयं पश्यंति ते सर्वे मोक्षगामिनः ।
सर्वतीर्थाधिकं तीर्थं गङ्गाब्धिसङ्गमं शृणु

7.4.107

जले स्थले चांतरिक्षे मृतो मोक्षमवाप्नुयात् ।
व्यास उवाच-
इत्युक्त्वा विष्णुदूतास्ते तौ समादाय जैमिने

7.4.108

जग्मुर्विष्णुगृहं सर्वे सह साकाशवर्त्मनि ।
या च पद्मावती साध्वी भर्तृद्वयसमन्विता

7.4.109

गता सारूप्यतां विष्णोश्चतुर्वर्गप्रदायिनः ।
तत्र भुक्त्वाखिलान्भोगान्दुर्ल्लभान्द्विजसत्तम

7.4.110

परमं ज्ञानमासाद्य ययुः सारूप्यतां हरेः ।
सर्वतीर्थमयी गङ्गा सर्वतीर्थमयो हरिः

7.4.111

गङ्गायाश्च हरेश्चैव तस्माद्भक्तिर्विधीयते ।
गङ्गाब्धिसंगमे पूर्वं माधवो नाम भूभुजः

7.4.112

तप्त्वा तपश्चिरं तत्र सदारो मोक्षमाप्तवान्

7.4.113

जैमिनिरुवाच-
त्वयोक्तो माधवः कोऽसौ किं कर्म स चकार ह ।
कथं तेपे तपस्तन्मे सर्वं कथय सत्तम

7.4.114

व्यास उवाच-
चरितं तस्य विप्रर्षे माधवस्य महात्मनः ।
आकर्णय प्रवक्ष्यामि समासेन महामते

7.4.4

इति श्रीपद्मपुराणे क्रियायोगसारे व्यासजैमिनिसंवादे प्रयागवर्णनंनाम चतुर्थोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc