भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 7.23

7.23.1

व्यास उवाच-
पूर्वं कोचरशोनाम राजाऽभूत्क्षितिमंडले ।
शांतः परमधर्मज्ञो राजनीतिविदांवरः

7.23.2

सत्यवादी जितक्रोधो जितवैरि समुच्चयः ।
नारायणार्चनपरो हरिसेवा रतः परः

7.23.3

सुप्रज्ञा नाम महिषी तस्यासीत्प्रियवादिनी ।
सर्वलक्षणसंपन्ना पतिसेवापरायणा

7.23.4

एकादशीव्रतरता सर्वप्राणिहितैषिणी ।
जातिस्मरा महाभागा सुशीला वरवर्णिनी

7.23.5

स राजा दशमीं कृत्वा सदारः परमार्थवित् ।
एकादशीं निशीथिन्यां जागरं कर्तुमुद्यतः

7.23.6

तत्रांतरे द्विजः कश्चिच्छौरिर्नाम महीपतेः ।
आजगाम महातेजास्तस्य जागरमण्डपम्

7.23.7

तमायांतं स भूपालो नारायणपरायणः ।
पाद्याद्यैः पूजयामास सदारोऽत्यंतहर्षितः

7.23.8

तेषां मध्ये सूपविष्ठः स विप्रोऽखिलतत्ववित् ।
विष्णुपूजापरांस्तत्र ददर्श व्रतिनो बहून्

7.23.9

पूजयंति हरिं केचिन्नानापुष्पैर्मनोरमैः ।
गंधैर्धूपैस्तथादीपैरुपहारैरनुत्तमैः

7.23.10

गङ्गामृद्भूषिताकेचित्तुलसीपत्रमालया ।
अलंकृता हरेरग्रे नृत्यंति व्रतिनो मुदा

7.23.11

केचिद्गायंति गीतानि ललितानि हरेः पुनः ।
करतालं समादाय व्रतिनो भगवत्प्रियाः

7.23.12

स्तवैरनुत्तमैः केचिन्नारायणमनामयम् ।
स्तुवंति जगतामीशं दिव्यार्थैः कोमलाक्षरैः

7.23.13

श्वेतचामरवातेन शीतलेन जगत्पतेः ।
वीजयंति हरेः प्रीतिं केचिच्च महतीं तथा

7.23.14

केचिद्वीणादिकं वाद्यं ललितं शुचिमंगलम् ।
वादयंतो महात्मानः केचिद्गायंति केशवम्

7.23.15

स राजा राजमहिषी द्वावप्यत्यंतहर्षितौ ।
गायतां ललितं गीतं नृत्यतां नृत्यमुत्तमम्

7.23.16

तौ दंपती महात्मानौ नृत्यगीतादिकारिणौ ।
वाचा मधुरया प्राह स शौरिर्ब्राह्मणोत्तमः

7.23.17

शौरिरुवाच-
धन्योऽसि त्वं महीपाल धन्या च महिषी तव ।
चरित्रं युवयोरेतन्मङ्गलं भुविदुर्ल्लभम्

7.23.18

त्वां वक्ष्यामि यतः कश्चिन्न दृष्टो वैष्णवोत्तमः ।
त्वया भूमिभुजा पृथ्वी धन्येयं नात्र संशयः

7.23.19

एकादशीव्रतमिदं पवित्रं भगवत्प्रियम् ।
सदारः कुरुषे भूप तस्मात्त्वं वैष्णवाग्रणीः

7.23.20

सप्तद्वीपैकनाथश्च सदारस्त्वं नृपोत्तम ।
नारायणाग्रतः प्रीत्या यतो नृत्यसि गायसि

7.23.21

चरित्रं युवयोरेतद्दंपत्योर्दृष्टमद्भुतम् ।
कस्माद्बुद्धिरियं जाता युवयोरतिनिर्मला

7.23.22

व्यास उवाच-
तस्येदं वाक्यमाकर्ण्य शौरिनाम्नो द्विजन्मनः ।
ईषद्धास्यमुखीप्राह सुप्राज्ञा तमथो द्विजम्

7.23.23

सुप्राज्ञोवाच-
एकादशीप्रभावेन पूर्वमावां द्विजोत्तम ।
अतिपातकिनौ मुक्तौ सूर्यजेन महात्मना

7.23.24

जातिस्मृतिप्रभावेण दिव्यमेकादशीव्रतम् ।
कुर्वः संप्रति विप्रेन्द्र परमस्थानकाङ्क्षया

7.23.25

शौरिरुवाच-
यदि नूनं वरारोहे पूर्वां जातिं त्वमात्मनः ।
वेत्सि मे ब्रूहि तां श्रोतुं जायते कौतुकं हृदि

7.23.26

पूर्वं स्थिता का भवती पतिर्वा कः स्थितस्तव ।
कथं भास्करिणा त्यक्तौ युवां पातकिनावपि

7.23.27

सुप्राज्ञोवाच-
अप्रकाश्यमिदं वाक्यं यद्यपि द्विजसत्तम ।
स्थितास्मि वारमुख्याऽहं रतिशास्त्रविशारदा

7.23.28

तस्मिञ्जन्मनि पापानि घोराणि सुबहूनि च ।
मया कृतानि विप्रेन्द्र नरकक्लेशदानि वै

7.23.29

अयं नित्योदयो नाम शूद्र स्वाःचारवर्जितः ।
परदारहरः क्रूरः परद्रव्यापहारकः

7.23.30

सुरापो मित्रहंता च भ्रूणहा परहिंसकः ।
अत्यहंकारयुक्तश्च धर्मनिंदाकरः सदा

7.23.31

एकदा ज्ञातिभिः सर्वैः परित्यक्तो हि सद्व्रतैः ।
आजगाम ममागारं वेश्याविभ्रमलोलुपः

7.23.32

युवानं सुंदरं दृष्ट्वा तमेनं द्विजसत्तम ।
मयापि प्रीतिमासाद्य संतुष्टः सुरतैरपि

7.23.33

ततोऽनुभूय सुरतं मया सह तपोधन ।
अयमाह च मां प्रेम्णा विनयावनतो वचः

7.23.34

अहं सुरतशास्त्रज्ञः परित्यक्तः स्वबंधुभिः ।
यदि त्वं मन्यसे तस्मिंस्तिष्ठाम्यत्र त्वया सह

7.23.35

विनयावनतं वाक्यमिदं शुश्राव तद्दिवज ।
दंपतीभावमासाद्य सहानेन स्थितास्म्यहम्

7.23.36

कदाचिद्दिवजशार्दूल एकादश्यां तिथौ हरेः ।
महद्भिः पीडिताहं च देहदेहावघातकैः

7.23.37

तस्मिन्नेव द्विजश्रेष्ठ ज्वरजर्जरदेहया ।
न पीतमुदकं नान्नं भुक्तं च परया भिया

7.23.38

ममस्नेहोदयोऽयं च तस्मिन्नेव दिने हरेः ।
तत्याजान्नं च तोयं च विषण्ण इव जन्मना

7.23.39

अथ रात्रौ द्विजश्रेष्ठ दीपं प्रज्वाल्य सर्पिषा ।
मया कृतं जागरणं ज्वरापहतचेतसा

7.23.40

नारायण हरेकृष्ण रक्ष मामिति जल्पता ।
मुहुर्मुहुरनेनापि कृतं जागरणं निशि

7.23.41

उपवासप्रभावेण केशवोच्चारणेन च ।
आवयोः सकलं पापं विनष्टमभवद्दिवज

7.23.42

ततः प्रभाते विमले भगवत्युदिते रवौ ।
ज्वरार्दिताहं पंचत्वं गता ब्राह्मणसत्तम

7.23.43

संप्राप्तपंचतां दृष्ट्वा मामयं च ततः शुचिः ।
सहत्या मरणं भेजे निंदितः सकलैर्जनैः

7.23.44

सूर्य्यजस्य ततः प्रेष्यैर्ज्वलदग्निनिभेक्षणैः ।
बद्ध्वा दृढेन पाशेन नीतौ दुर्गमवर्त्मना

7.23.45

शुभकर्मा शुभं वापि चित्रगुप्तो यमाज्ञया ।
सर्वं विचारयामास मूलात्स तु विचक्षणः

7.23.46

चित्रगुप्त उवाच-
यद्यप्येतौ महाबाहो महापातकिनां वरौ ।
तथापि पातकैर्मुक्तौ ह्येकादश्यामुपोषणात्

7.23.47

अनिच्छयापि यः कुर्यात्पुण्यमेकादशीव्रतम् ।
सोऽपि गच्छेत्परंस्थानं सर्वपापविवर्जितः

7.23.48

इत्युक्तश्चित्रगुप्तेन धर्मराजो महायशाः ।
आसनात्सहसोत्थाय ववंदे ताममुंच सः

7.23.49

सुगंधैश्चंदनैर्दिव्यैर्धूपैः पुष्पैश्च मृत्युना ।
सुवर्णाभरणैरेव मंडितौ पापवर्जितौ

7.23.7.23.50

फलैर्नानाविधैस्तत्र मधुरैरमृतोपमैः ।
भास्करिः कारयामास प्रीत्या भोजनमावयोः ५०

7.23.51

अथ स्तुत्वा स्तवैर्दिव्यैः स्वयमावां यमः प्रभुः ।
समारोप्य रथे दिव्ये प्रोवाचेति कृताञ्जलि

7.23.52

यम उवाच-
युवां पुण्यवतां श्रेष्ठौ सर्वपापविवर्जितौ ।
यत्रास्ते भगवान्विष्णुर्गंच्छेतां तत्र संप्रति

7.23.53

इत्युक्तौ धर्मराजेन विनयावनतेन वै ।
अथैतदुक्तमावाभ्यां नत्वा तत्पादपङ्कजे

7.23.54

गंतव्यं नान्यथा देव तद्विष्णोः परमं पदम् ।
किंत्वस्ति नरकं द्रष्टुं त्वद्गृहस्थं स्पृहावयोः

7.23.55

यमाज्ञया ततो विप्र रथमारुह्य शोभनम् ।
दुष्प्रेक्ष्या निरया दृष्टा आवाभ्यां तत्र विस्तराः

7.23.56

ब्राह्मण उवाच-
तत्रावस्था पापवतां या या दृष्टाः पतिव्रते ।
विस्तरेण समाख्यातुं तास्ताः सर्वास्त्वमर्हसि

7.23.57

पुण्यात्मानः पथा येन व्रजन्ति यममंदिरम् ।
पापात्मानश्च सुश्रोणि तन्मे कथय विस्तरात्

7.23.58

पुण्यात्मा कीदृशं पश्येत्तत्र वैवस्वतं प्रभुम् ।
पुण्यात्मनां पापिनां च पंथानं सुखदुःखदम्

7.23.59

सुप्राज्ञोवाच-
आदौ ब्रवीमि पंथानं नृणां पुण्यवतामहम् ।
शृणुष्व द्विजशार्दूल शृण्वतां प्रीतिवर्द्धनम्

7.23.60

प्रस्तरैर्विस्तरैर्बद्धो दिव्यवस्त्रैः समावृतः ।
भाति पुण्यवतां पंथाः सर्वोपद्रववर्जितः

7.23.61

क्वचिद्गंधर्वकन्याभिर्गीयते गानमद्भुतम् ।
क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते

7.23.62

क्वचिद्वीणाक्वणं नाना वाद्यं चक्रुर्मनोरमम् ।
क्वचित्कुसुमवृष्टिश्च क्वचिद्वायुश्च शीतलः

7.23.63

क्वचित्प्रपा शीततोया क्वचिच्च भुक्तिशालिकाः ।
क्वचिद्देवाश्च गंधर्वाः पठंति स्तवमुत्तमम्

7.23.64

क्वचित्क्वचिद्दीर्घिकाश्च फुल्लपद्माः सुशोभनाः ।
सुच्छायाः पादपाः क्वापि पुष्पिता वंजुलादयः

7.23.65

ततस्तु सुखसम्पन्नाः पथि गच्छंति मानवाः ।
पुण्यात्मानो द्विजश्रेष्ठ सुखमृत्युमवाप्य च

7.23.66

केचित्तुरंगमारूढा नानालंकारभूषिताः ।
उद्दण्डधवलच्छत्रैर्गच्छंत्यावृत्य मस्तकम्

7.23.67

केचिद्यांति गजारूढा रथारूढाश्च केचन ।
यानारूढा जनाः केचित्सुखेन यममंदिरम्

7.23.68

केचिद्देवाङ्गना हस्त न्यस्तचामरवायुभिः ।
गच्छंति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः

7.23.69

केचिद्दिव्यायुधधराः स्रक्चन्दनविभूषिताः ।
भुंजंतो यांति तांबूलं पुण्यात्मानो यमालयम्

7.23.70

निजगात्रत्विषा केचिज्ज्वालयंतो दिशो दश ।
व्रजंति शमनागारं जलग्रहनिवासिनः

7.23.71

केचिच्च पायसं दिव्यं भुंजतो यांति सत्तम ।
सुभक्षणं प्रकुर्वंतः पथि यांतः सुखेन च

7.23.72

केचिद्दुग्धं पिबंतश्च केचिदिक्षुरसं तथा ।
केचित्तक्रं पिबंतश्च गच्छंति यममंदिरम्

7.23.73

केचिद्दधीनि भक्षंतः केचिन्नानाफलानि च ।
केचिन्मधुपिबंतश्च पुण्यवंतो व्रजंति वै

7.23.74

तानागतांस्ततो दृष्ट्वा बहून्धर्मपरायणान् ।
भास्करीं प्रीतिमासाद्य स्वयं नारायणो भवेत्

7.23.75

चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः ।
शङ्खचक्रगदापद्मधारी गरुडवाहनः

7.23.76

स्वर्णयज्ञोपवीती च स्मरचारुमहाननः ।
किरीटी कुण्डली चैव वनमालाविभूषितः

7.23.77

चित्रगुप्तो महाप्राज्ञश्चंडाद्या यमकिंकराः ।
सर्वे नारायणाकारा बभूवुर्मधुरोक्तयः

7.23.78

ततः स्वयं धर्मराजस्तान्सर्वान्मनुजोत्तमान् ।
परमां प्रीतिमासाद्य मित्रवच्चार्चयेद्द्विज

7.23.79

दिव्यरत्नैः फलैश्चैव तेषां पुण्यवतां नृणाम् ।
भोजनं कारयित्वा तु तानुवाचाथ भास्करिः

7.23.80

यम उवाच-
यूयं सर्वे महात्मानो नरकक्लेशभीरवः ।
निजकर्मप्रभावेण गम्यतां परमं पदम्

7.23.81

संसारे जन्म संप्राप्य पुण्यं यः कुरुते नरः ।
स मे पिता स मे भ्राता स मे बंधुसमः सुहृत्

7.23.82

इत्युक्ता धर्मराजेन ते सर्वे द्विजसत्तम ।
दिव्यं रथं समारुह्य नारायणपुरं गताः

7.23.83

पुण्यात्मनां गतिः प्रोक्ता समासेन द्विजोत्तम ।
पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम्

7.23.84

षडशीतिसहस्राणि योजनानि दुरात्मनाम् ।
प्रोक्तो मार्गस्य विस्तारः सर्वदुःखान्वितः स च

7.23.85

कुत्रचिद्वह्निवृष्टिश्च कुत्रचिच्चाश्मवर्षणम् ।
क्वचित्क्वचिद्द्विजश्रेष्ठ संतप्तं तप्तवालुकम्

7.23.86

क्वचित्क्वचित्तीक्ष्णशिलाः क्वचित्तप्तशिलास्तथा ।
क्वचित्क्वचिच्छस्त्रवृष्टिः क्वचिदंगारवर्षणम्

7.23.87

क्वचिदग्निरिवातीव संतप्ता वांति मारुताः ।
गंभीरांधकराः क्वापि तृणावर्तमुखा द्विज

7.23.88

क्वचित्कंटकवृष्टिश्च नाराचमयकंटकैः ।
पाषाणश्रेणयः क्वापि दुःखरोहाः सपन्नगाः

7.23.89

गच्छंति पापिनस्तत्र शुष्ककंठोष्ठतालुकाः ।
एवं बहुविधक्लेशे छायाजलविवर्जिते

7.23.90

तस्मिन्मार्गे द्विजश्रेष्ठ पापिनो यांति दुःखिताः ।
नाम्ना विमुक्तकेशाश्च प्रेताकारा भयंकराः

7.23.91

रुधिरौघप्लुताः केचित्केचित्कर्दमभूषिताः ।
केचित्केचिच्च कृष्णांगाः पथि गच्छंति पापिनः

7.23.92

क्रंदंतो व्यथया केचित्स्रवद्बाष्पाकुले क्षणाः ।
शोचंतः स्वानि कर्माणि केचिद्गच्छंति पापिनः

7.23.93

कस्यचिच्चर्मपाशस्य बंधनं पापिनां गले ।
कंकाले कस्यचिद्बद्धाः कस्यचिच्च पदद्वये

7.23.94

गले सूचीसमुत्कीर्णे पाशं दत्वा दृढं रुषा ।
आकृष्यंते यमप्रेष्याः केषांचिच्च कृतैनसाम्

7.23.95

वर्त्मस्थान्गुरुपाषाणान्वहंतः कर्णरन्ध्रकैः ।
अयोभारांश्च शीर्षाग्रैर्व्रजंति पथि पापिनः

7.23.96

कांश्चिद्भुजेषु पाशेषु नयंति यमकिंकराः ।
ग्रीवासु पापिनः केचित्करप्रहरणैर्दृढैः

7.23.97

क्षिप्तक्षिप्ता यमप्रेष्या नयंति यमकिंकराः ।
यांत्यधः शिरसः केचिदूर्ध्वपादास्तथापरे

7.23.98

गच्छंति बाहुभिः केचिदेकपादाश्च केचन ।
इत्येवं विकृताकारा आर्तरावविरावणाः

7.23.99

यमदूतैस्ताड्यमानाः पापिनो यांति तत्पथे ।
तेष्वागतेषु सर्वेषु पापात्मा सुरुषा यमः

7.23.7.23.100

दिव्यां मूर्तिं परित्यज्य बभूवात्यंतभैरवः ।
त्रिंशद्योजनदीर्घांगो वापीसदृशलोचनः १००

7.23.101

धूम्रवर्णो महातेजाः प्रलंबो घर्घरध्वनिः ।
सुदीर्घदशनश्रेणिः शूर्पोपम नखावलिः

7.23.102

प्रचण्डमहिषारूढः संदष्टदशनच्छदः ।
दंडहस्तश्चर्मपाशो भ्रुकुटी कुटिलाननः

7.23.103

चित्रगुप्तो महामायः क्रोधारुणितलोचनः ।
अट्टाट्टहासं कुर्वाणः समवर्ती विराजते

7.23.104

चंडाद्याः किंकराः सर्वे पाशमुद्गरपाणयः ।
बभूवुर्भैरवाः क्रुद्धा गर्जंतो जलदा इव

7.23.105

जहि जह्याशु पापिष्ठान्भिन्धि च्छिंदय विंधय ।
समंतादेव धावंतो वल्गंति यमकिंकराः

7.23.106

तानाह पततः सर्वान्पापिनो धर्मराट्प्रभुः ।
तर्जयेत्कालदंडेन त्यजन्हुंकारनिःस्वनम्

7.23.107

यम उवाच-
रेरे पापा दुराचारा युष्माभिरविवेकिभिः ।
अहो कृतानि पापानि आत्मपीडाकराण्यपि

7.23.108

मस्तकोपरि तिष्ठंतं नेक्षध्वं समवर्तिनम् ।
ज्ञात्वापि मां जीवितेशं युष्माभिः पातकं कृतम्

7.23.109

पुण्यात्मनामहं बंधुरहं पापात्मनां रिपुः ।
इति कुत्रापि युष्माभिर्न श्रुतं श्रवणैः स्वकैः

7.23.110

निरया दुःसहाः संति नानादुःखसमन्विताः ।
पापिनो भुंजते तांश्च युष्माभिर्नेति विश्रुतम्

7.23.111

मत्वा मिथ्यैव युष्माभिश्चर्चा मम दुराशयाः ।
अद्य सैव स्वकैर्नेत्रैर्दृश्यतां कृतपातकाः

7.23.112

वित्तांध्येन वचो मत्ता यूयं सर्वे सदैव हि ।
चक्रिरे पापजालानि युष्माभिः सततं यथा

7.23.113

तथा पापफलं दुष्टा भुंजतां क्रंदनेन किम् ।
सुप्राज्ञोवाच-
इत्युक्त्वा भास्करिर्देवश्चित्रगुप्तमुवाच ह

7.23.114

एतेषां पापकर्माणि महाभाग विचारय ।
धर्मराजवचः श्रुत्वा चित्रगुप्तो महत्तदा

7.23.115

तेषां यावंति पापानि तावंति प्राह चोदितः ।
ततस्ते पापिनः सर्वे क्रंदंति द्विजसत्तम

7.23.116

इत्यूचुः शमनं भीताश्चर्मपाशे नियंत्रिताः ।
पापिन ऊचुः
अस्माभिर्यानि पापानि कृतानि भास्करात्मज

7.23.117

के स्थिताः साक्षिणस्तत्र के वा यूयं निवेदिताः ।
अशुभं वा शुभं वापि यतोऽस्माभिः कृतं पुरा

7.23.118

तथा च दृष्टं केनात्र पुरोऽस्माकं निगद्यताम् ।
ततः प्रहस्य भगवान्कोपेन महता द्विज

7.23.119

आहूय साक्षिणः सर्वानिदं वचनमब्रवीत् ।
यम उवाच-
यूयं सर्वे यथावृत्तं संनिधौ साक्षिणस्तथा

7.23.120

आकाशं पृथिवीं चैव जलं च तिथयस्तथा ।
दिनं रात्रिरुभे संध्ये धर्मश्चैते तु साक्षिणः

7.23.121

तेषां पापात्मनामूचुः सर्वं कर्मशुभाशुभम् ।
यस्य यस्य च वेलायां कर्म यद्यदिकारितम्

7.23.122

स स साक्षी तस्य तस्य जगाद यमसन्निधौ ।
तच्छ्रुत्वा पापिनः सर्वे साध्वसा कृष्टमानसाः

7.23.123

सकंपहृदयास्तस्थुर्मेघं दृष्ट्वा मृगा इव ।
ततस्तु दंतावलिभिः कुर्वन्कडकडध्वनिम्

7.23.124

धर्मराट्कालदंडेन ताञ्जघान पृथक्पृथक् ।
ताडिता धर्मराजेन ते सर्वे कृतपातकाः

7.23.125

क्रंदंति निजकर्माणि शोचंतः प्राप्तसाध्वसाः ।
ततस्तान्पापिनः सर्वान्दूताश्चंडादयो रुषा

7.23.126

नरकेषु यमादेशाद्रौरवादिषु चिक्षिपुः ।
तपने चिक्षिपुः कांश्चिदवीचौ कृतपातकान्

7.23.127

संघाते कालसूत्रे च महारौरवके तथा ।
संतप्ते वालुकाकुंडे कुंभीपाके तथापरान्

7.23.128

निरुच्छ्वासे महाघोरे चिक्षिपुश्च प्रमर्द्दने ।
असिपत्रवने घोरे नानाभक्षेषु पापिनः

7.23.129

वैतरण्यां तथा केऽपि चिक्षिपुर्यमकिंकराः ।
घोरे विष्ठाह्रदे कांश्चित्तुषांगारास्थिकंटकैः

7.23.130

पूर्णे नितांतसंतप्ते चिक्षिपुर्यमकिंकराः ।
पुरीषलेपने चैव पुरीषभोजने तथा

7.23.131

स्वमांसभोजने चैव स्थापिता यमकिंकरैः ।
श्लेष्माणं भुंजते केचित्केचिद्वीर्यं च भुंजते

7.23.132

पिबंति केचिन्मूत्राणि केचिद्रक्तानि पापिनः ।
केषांचिद्वदनेष्वेव जलौकाः पन्नगोपमाः

7.23.133

पूर्यंते पन्नगाश्चैव यमदूतैर्भयंकरैः ।
उत्पाद्यंतेऽतिसंतप्तैर्जिह्वाश्च द्विजसत्तम

7.23.134

केषांचित्कर्णरंध्रेषु मुखेषु च कृतैनसाम् ।
तप्ततैलानि पूर्यंते निर्द्दयैर्यमकिंकरैः

7.23.135

केषांचित्खङ्गधाराभिर्बाहुं च चरणं तथा ।
कर्णादिनासिकाश्चैव च्छिंदंति च दुरात्मनाम्

7.23.136

शयनं कुर्वते केचिज्ज्वलदंगारसंचये ।
केचिन्नाराचतुल्येषु शयनं कंटकेषु च

7.23.137

कर्दमेषु च तप्तेषु कांश्चिच्छमनकिंकराः ।
पातयंति द्विजश्रेष्ठ केशेष्वाकृष्य पापिनः

7.23.138

वमनेषु च केषांचिन्नखसंधिषु पापिनाम् ।
तप्तसूचीसहस्राणि प्रक्षिपंति मुहुर्मुहुः

7.23.139

संतप्तलोहशूलाग्रे कांश्चिदारोपयंति वै ।
क्रंदंति कंटकैस्तीक्ष्णैः केषांचिन्मस्तकानि वै

7.23.140

गृहीत्वा हस्तपादेषु शाल्मलिद्रुमकंटकैः ।
निष्कुषंति रुषा कांश्चिदार्त्तरावविराविणः

7.23.141

बद्ध्वा गलेषु पाषाणं कांश्चिच्छमनकिंकराः ।
रक्तगर्ते पयोगर्ते पातयंति पुनः पुनः

7.23.142

याम्यैर्दूतैरुद्गिरंति शिरांसि पापिनां नृणाम् ।
चूर्णयंत्युपलैर्याम्या मुहुर्मुहुरतिक्रुधा

7.23.143

वक्षोमध्येषु केषांचिल्लोहकीलकसंचयान् ।
आरोपयंति लोकानां क्रंदतां दुरितात्मनाम्

7.23.144

चक्षूंषि बडिशैः केषामुत्पाट्यंते कृतैनसाम् ।
केषांचिन्नासिका एव पूर्य्यंते वृश्चिकैर्द्विज

7.23.145

केषांचिद्वृक्षशाखायां बद्ध्वा पादांश्च पाशकैः ।
ज्वालयंति तले वह्निं सधूमं यमकिंकराः

7.23.146

धूमपानं प्रकुर्वन्ति ते तत्र कृतकिल्विषाः ।
अधोमुखा ऊर्ध्वपादास्तस्थुराचन्द्र तारकम्

7.23.147

मुसलैर्मुद्गरैः केचित्ताड्यमानाः पुनः पुनः ।
याम्यैर्दूतैरुद्गिरन्ति शोणितानि व्यथाकुलाः

7.23.148

अन्धकारमये गेहे पूतिगन्धवति द्विज ।
दंशैश्च मशकैश्चैव केचित्सीदंति पापिनः

7.23.149

भस्मानि भुञ्जते केचित्कृमीन्केचिच्च भुञ्जते ।
केचिद्दुर्गन्धमांसानि केचिच्च पूतिमृत्तिकाम्

7.23.7.23.150

श्वभिर्व्याघ्रैः शृगालैश्च वज्रदन्तनखैस्तथा ।
ऋक्षैः केचिद्भक्ष्यमाणाः क्रंदन्ति रुधिराप्लुताः १५०

7.23.151

नितांतोग्रविषैः सर्पैर्भक्ष्यमाणास्तथापरे ।
अन्ये महिषशृंगाग्रनिर्भिन्नवक्षसो द्विज

7.23.152

पतन्ति मूर्च्छिताः पृथ्वीं सिंचंतो रुधिरैर्महीम् ।
यमदूतधनुर्मुक्तैर्घोरैराशीविषोपमैः

7.23.153

जर्जराखिलदेहाश्च लुठंत्यन्ये महीतले ।
तप्तायः पिण्डनिलयं तप्तपाषाणमेव च

7.23.154

दंशशस्त्रेण केषांचित्कुष्णंति वदनेषु च ।
नासारन्ध्रेषु केषांचिद्यमदूता मुखेषु च

7.23.155

श्वासानिलनिरोधार्थं नासारन्ध्रं वयंति वै ।
केषांचित्तीक्ष्णधाराभिर्यमशाक्तिभिरुद्धतैः

7.23.156

उत्पाट्यंतेंगचर्माणि यमदूतैर्महाबलैः ।
कांश्चिद्गृहीत्वा केशेषु निपात्य पृथिवीतले

7.23.157

कीलैः पादादिभिर्घातैस्ताडयंति सदैव हि ।
केचित्क्षारांबुधाराभिः संतप्ताः कृतपातकाः

7.23.158

क्षारांबुपानं कुर्वंति क्रंदंतो बहुधा द्विज ।
पित्तपानं महाभाग केचित्कुर्वन्ति पापिनः

7.23.159

स्नुहीक्षीराणि केचिच्च पिबंति पापिनां वराः ।
केषांचित्स्वपतां भूमौ वक्षःसु यमकिंकरैः

7.23.160

दीयंते गुरुपाषाणाः संतप्ताः पर्वतोपमाः ।
काष्ठखंडद्वयं दत्वा ग्रीवायां च गले तथा

7.23.161

उदग्रमुखं बध्नन्ति केषांचिद्दृढपाशकैः ।
आरोप्य वृक्षशाखायां कांश्चिद्भूमौ क्षिपंति च

7.23.162

उत्थापयंति भूमौ च प्रक्षिपंति पुनः पुनः ।
एवं ते पापिनः सर्वे क्षुधितास्तृषितास्तथा

7.23.163

त्राहि त्राहीति जल्पंतो रुदंति यातनागृहे ।
युगकल्पांतपर्यंतं भुक्त्वा निरययातनाम्

7.23.164

नातिभुक्त्वा पापशेषे जायंते पापयोनिषु ।
पापयोनौ समुत्पन्ना भवंति व्याधिपीडिताः

7.23.165

हीनांगा अधिकांगाश्च दुःखिनः पापसेवकाः ।
अपुत्रा अतिमूर्खाश्च परहिंसापरायणाः

7.23.166

अल्पायुषोऽल्पमतयः कुभार्यापतयस्तथा ।
नित्यं पापानि कर्माणि कर्मणा मनसा गिरा

7.23.167

पुनः पापप्रभावेन निरयं यांति पूर्ववत् ।
तस्मात्पापं न कर्तव्यं कदाचिदपि सत्तमैः

7.23.168

नराणां कृतपापानां नरकान्नास्ति निष्कृतिः ।
संक्षेपात्पापिनां दुःखं निरुक्तं द्विजसत्तम

7.23.169

सम्यग्वक्तुं कः क्षमोस्ति वर्षायुतशतैरपि ।
दुर्गतीनां ततो दृष्ट्वा मनुजानां कृतैनसाम्

7.23.170

आवां विमानमारुह्य नारायणपुरं गतौ ।
कल्पकोटिसहस्राणि भुक्त्वा भोगान्हरेर्गृहे

7.23.171

जातौ वै राजवंशेऽस्मिन्विशुद्धे द्विजसत्तम ।
अत्र भुक्त्वाखिलान्भोगान्सर्वसंपत्समन्वितान्

7.23.172

सुखमृत्युं समासाद्य गंतव्यं परमं पदम् ।
एकादशीव्रतसमं व्रतं नास्ति जगत्त्रये

7.23.173

अनिच्छयापि यत्कृत्वा गतिरेवंविधाऽवयोः ।
एकादशीव्रतं ये तु भक्तिभावेन कुर्वते

7.23.174

न जाने किं भवेत्तेषां वासुदेवानुकम्पया ।
इति ते कथितं सर्वं पृष्टं ब्राह्मणसत्तम

7.23.175

विष्णोर्दिवसमाहात्म्यं किमन्यच्छ्रोतुमर्हसि ।
व्यास उवाच-
तस्यैतद्वचनं श्रुत्वा स विप्रः परमार्थवित्

7.23.176

एकादशीव्रते चित्तं चकार सुदृढं निजम् ।
स राजा राजमहिषी चिरं भुक्त्वा वसुंधराम्

7.23.177

अंते विष्णुपुरं गत्वा प्राप्तवंतौ परं पदम् ।
व्रतराजस्य माहात्म्यं ये शृण्वंति पठंति च

7.23.178

पापजालैर्विनिर्मुक्ता लभंते हरिसन्निधौ

7.23.23

इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये त्रयोविंशतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc