भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.89

6.89.1

श्रीकृष्ण उवाच-
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ ।
पितृभर्तजदुःखार्त्ता करुणं पर्यदेवयत्

6.89.2

गुणवत्युवाच-
हा नाथ हा पितस्त्यक्त्वा गच्छतं क्व मया विना ।
बालाहं किं करोम्यद्य ह्यनाथा भवता विना

6.89.3

को नु मामास्थितां गेहे भोजनाच्छादनादिभिः ।
अकिंचित्कुशलां स्नेहात्पालयिष्यति दुःखिताम्

6.89.4

हतभाग्या गतसुखा हतेशा हतजीविता ।
शरणं कं व्रजाम्यद्य त्वन्नाथा बतबालिशा

6.89.5

श्रीकृष्ण उवाच-
एवं बहुविलप्याथ कुररीव भृशातुरा ।
पपात भूमौ विकला रंभा वातहता यथा

6.89.6

चिरादाश्वस्य सा भूमौ विलप्य करुणं बहु ।
निमग्ना दुःखजलधौ शोकार्त्ता समवर्त्तत

6.89.7

साग्रहोपस्करान्सर्वान्विक्रीय शुभकर्मकृत् ।
तयोश्चक्रे यथाशक्ति पारलौकिक सत्क्रियाम्

6.89.8

तस्मिन्नेव पुरे वासं चक्रे प्रभृतिजीवितम् ।
विष्णुभक्तिपरा शांता सत्यशौचा जितेंद्रिया

6.89.9

व्रतद्वयं तया सम्यगाजन्म मरणात्कृतम् ।
एकादशीव्रतं सम्यक्सेवनं कार्त्तिकस्य च

6.89.10

एतद्व्रतद्वयं कांते ममातीव प्रियंकरम् ।
भुक्तिमुक्तिकरं सम्यक्पुत्रसंपत्तिकारकम्

6.89.11

कार्तिके मासि ये नित्यं तुलासंस्थे दिवाकरे ।
प्रातः स्नास्यंति ते मुक्ता महापातकिनोऽपि च

6.89.12

संमार्जनं गृहे विष्णोः स्वस्तिकादि निवेदनम् ।
विष्णुपूजां प्रकुर्वंति जीवन्मुक्ताश्च ते नराः

6.89.13

स्नानं जागरणं दीपं तुलसीवनसेवनम् ।
कार्त्तिके ये प्रकुर्वंति ते नरा विष्णुमूर्त्तयः

6.89.14

इत्थं दिनत्रयमपि कार्तिके ये प्रकुर्वते ।
देवानामपि ते वंद्याः किं यैराजन्मतः कृतम्

6.89.15

इत्थं गुणवती सम्यक्प्रत्यब्दं प्रतिनीयते ।
नित्यं विष्णोः परिकरे भक्ता तत्परमानसा

6.89.16

कदाचिज्जरसा साथ कृशांगी ज्वरपीडिता ।
स्नातुं गंगां गता कांते कथंचिच्छनकैस्तथा

6.89.17

यावज्जलांतरगता कंपिता शीतपीडिता ।
तावत्सा विह्वला पश्यद्विमानं प्राप्तमंबरात्

6.89.18

शंखचक्रगदापद्महस्तैरासन्नमंबरात् ।
विष्णुरूपधरैः सम्यग्वैनतेयध्वजांकितैः

6.89.19

आरोहयन्विमानं तमप्सरोगणसेवितम् ।
चामरैर्वीज्यमानां तां वैकुंठमनयन्गणाः

6.89.20

अथ सा तद्विमानस्था ज्वलदग्निशिखोपमा ।
कार्त्तिकव्रतपुण्येन मत्सान्निध्यगताभवत्

6.89.21

अथ ब्रह्मादिदेवानां यथा प्रार्थनया भुवम् ।
आगच्छता गणाः सर्वे यातास्तेऽपि मया सह

6.89.22

एतेपि यादवाः सर्वे मद्गणा एव भामिनि ।
पिता ते देवशर्माभूत्सत्राजिदधिपो ह्ययम्

6.89.23

यश्चंद्रशर्मा सोऽक्रूरस्त्वं सा गुणवती शुभे ।
कार्त्तिकव्रतपुण्येन बहुमत्प्रीतिवर्द्धनी

6.89.24

मम द्वारे त्वया पूर्वं तुलसीवाटिका कृता ।
तस्मादयं कल्पवृक्षस्तवांगणतः शुभे

6.89.25

कार्तिके दीपमानं च यत्त्वया तु कृतं पुरा ।
त्वद्देहगेहसंस्थेयं तस्माल्लक्ष्मी स्थिराभवत्

6.89.26

यच्च व्रतादिकं सर्वं विष्णवे भर्तृरूपिणे ।
निवेदितवती तस्मान्मम भार्यात्वमागता

6.89.27

आजन्ममरणात्पूर्वं कार्त्तिके यद्व्रतं कृतम् ।
कदाचिदपि तेनैव मद्वियोगं न पश्यसि

6.89.28

एवं ये कार्त्तिके मासि नरा व्रतपरायणाः ।
मत्सान्निध्यं गतास्तेऽपि प्रीतिदा त्वं यथा मम

6.89.29

यज्ञदानव्रततपः कारिणो मानवाः खलु ।
कार्त्तिकव्रतपुण्यस्य नाप्नुवंति कलामपि

6.89.30

इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राक्पुण्यजन्मभव वैभव जातहर्षा ।
विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णंप्रणम्य वचनं निजगाद सत्या

6.89.89

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनंनामैकोननवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc