भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.83

6.83.1

पार्वत्युवाच-
सर्वेषां चैव मासानां विधिं ब्रूहि महेश्वर ।
महोत्सवः प्रकर्त्तव्यः को विधिस्तत्र संमतः

6.83.2

को देवः पूजनं कस्य महिमा कीदृशो भवेत् ।
कस्यां तिथौ प्रकर्त्तव्यं तन्मे वद सुरेश्वर

6.83.3

मासं प्रति किमुक्तं च वैष्णवान्पुण्यकर्मणः ।
धन्याहं कृतकृत्याहं सुभगाहं धरातले ।
विष्णोः कथां शृणोमीति दर्शनात्स्पर्शनात्तव

6.83.4

शिव उवाच-
उत्सवानां विधिं ब्रूमो मासं प्रति तवानघे ।
यानाकर्ण्य पुनर्देवि गीतवादित्र हर्षिता

6.83.5

तत्रादौ च सिते पक्षे चैत्रमासे सुशोभने ।
एकादश्यां विशेषेण दोलारूढं प्रपूजयेत्

6.83.6

कुर्याद्भक्त्या सदा देवि उत्सवं विधिपूर्वकम् ।
दोलारूढं प्रपश्यंति कृष्णं कलिमलापहम्

6.83.7

अपराधसहस्रैस्तु मुक्तास्ते नगनंदिनि ।
तावत्तिष्ठंति पापानि कोटिजन्मकृतान्यपि

6.83.8

यावन्नांदोलयेद्देवं विश्वेशं विश्वनायकम् ।
कलौ वै ये प्रपश्यंति दोलारूढं जनार्दनम्

6.83.9

गोघ्नादिकाः प्रमुच्यंते का कथा इतरेष्वपि ।
दोलोत्सवे प्रहृष्टास्तु रुद्रेण सहिताः सुराः

6.83.10

कुर्वंति प्रांगणे नृत्यं गीतवाद्यं च हर्षिताः ।
ऋषयो गणगंधर्वा रंभाद्यप्सरसां गणाः

6.83.11

वासुकिप्रमुखा नागास्तथा देवाः सुरेश्वराः ।
दोलायां च समायांति विष्णुदर्शनलालसाः

6.83.12

दोलायात्रानिमित्तं तु दोलाह्ने मधुमाधवे ।
भूतानि संति भूपृष्ठे ये केचिद्देवयोनयः

6.83.13

समायांति महादेवि कृष्णे दोलास्थिते ध्रुवम् ।
विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत्

6.83.14

तस्मात्कार्यशतं त्यक्त्वा दोलाह्ने उत्सवं कुरु ।
प्रह्लादस्तु समायाति विष्णुर्दोलाधिरोहणम्

6.83.15

कुरुते च महादेवि वरदं तमनुस्मरन् ।
दोलास्थितस्य कृष्णस्य ये कुर्वंति प्रजागरम्

6.83.16

सर्वपुण्यफलप्राप्तिर्निमेषैकेन जायते ।
दोलायां संस्थितं विष्णुं पश्यंति मधुमाधवे

6.83.17

क्रीडंति विष्णुना सार्द्धं देवदेवेन वंदिताः ।
दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरि

6.83.19

सकृद्दृष्ट्वा तु गोविंदं मुच्यते ब्रह्महत्यया ।
ॐ दोलारूढाय विद्महे माधवाय च धीमहि ।
तन्नो देवः प्रचोदयात् १८ इदं गायत्र्या पूजनम् ।
माधवाय गोविंदाय श्रीकंठाय नमोनमः ।
पूजनं मंत्रपूर्वं च कर्तव्यं विधिपूर्वकम्

6.83.20

गुरवे दक्षिणां दद्याद्यथाशक्त्या समाहितः ।
गायन्विष्णोः सदा भक्त्या परिपूर्णं ततो भवेत्

6.83.21

किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ।
दोलायां संस्थितो विष्णुः सर्वपापापहारकः

6.83.22

पूजितो यैर्नरैः सम्यक्सदा सर्वं ददाति च ।
यत्र देवाः सगंधर्वाः किन्नरा ऋषयस्तथा

6.83.23

आयांति बहुधा तत्र दोलारूढे न संशयः

6.83.24

ॐ नमो भगवते वासुदेवायेति मंत्रेण पूजनं तत्र कारयेत् ।
षोडशोपचारैः पूजा च कर्तव्या विधिपूर्वकम् ।
धर्मार्थमुख्या ये कामास्ते सर्वे प्राप्नुयुर्ध्रुवम्

6.83.25

अंगन्यासं करन्यासं न्यासं शारीरकं च यत् ।
तत्सर्वं तु प्रकर्त्तव्यं मंत्रेणानेन सुव्रत

6.83.26

आगमोक्तेन मंत्रेण कर्त्तव्यो हि महोत्सवः ।
श्रीलक्ष्म्यासहितं देवं दोलायां च प्रकल्पयेत्

6.83.27

देवाग्रे वैष्णवाः स्थाप्या नारदाद्याः सुरर्षयः ।
विष्वक्सेनादिका भक्ता स्थाप्यास्ते ह्यग्रतः सदा

6.83.28

पंचवादित्रनिर्घोषैः कुर्यादारार्तिकं बुधः ।
यामे यामे तथा देवि पूजनीयः प्रयत्नतः

6.83.29

नालिकेरैस्तथा शुभ्रैः कदलैर्वा तथा पुनः ।
अर्घं दद्यात्ततो देवि पूजनीयः प्रयत्नतः

6.83.30

देवदेव जगन्नाथ शंखचक्रगदाधर ।
अर्घं गृहाण मे देव कृपां कुरु ममोपरि

6.83.31

तच्छेषं वैष्णवानां तु दद्यात्प्राच्छादिकं पुनः ।
वादनं नर्त्तनं तत्र कर्त्तव्यं वैष्णवैर्नरैः

6.83.32

आंदोलनं ततः सर्वैः कर्त्तव्यं च विशेषतः ।
पृथिव्यां यानि तीर्थानि क्षेत्राणि च सुरेश्वरि

6.83.33

सर्वान्येतानि वै तत्र द्रष्टुमायांति तद्दिने ।
एवं ज्ञात्वा सदा देवि कर्त्तव्यः सोत्सवो महान्

6.83.34

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा याश्चान्यजातयः ।
शंखचक्रगदाधारा ज्ञातव्या नगनंदिनि

6.83.83

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर-संवादे दोलामहोत्सवोनाम त्र्यशीतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc