भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.28

6.28.1

महादेव उवाच-
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
पुराणं परमं पुण्यं सर्वपापहरं शुभम्

6.28.2

कुमारेण च लोकानां नमस्कृत्य पितामहम् ।
प्रोक्तं चेदं ममाख्यानं देवर्षे ब्रह्मसूनुना

6.28.3

सनत्कुमार उवाच-
गतोऽहं धर्मराजानं द्रष्टुं संपूजितो मुदा ।
श्रुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने

6.28.4

मया तत्रोपविष्टेन दृष्टं किंचिन्महाद्भुतम् ।
कांचनेन विमानेन वैडूर्यकृतवेदिना

6.28.5

मणिमुक्तविचित्रेण किंकिणीजालशोभिना ।
आगतं पुरुषं तत्र आसनाद्देवसत्तम

6.28.6

ससंभ्रमं समुत्थाय दृष्ट्वा धर्मः स्वयं विभुः ।
गृहीत्वा दक्षिणे पाणौ पूजितोऽर्घेण वै ततः

6.28.7

शिरस्याघ्राय देवेशः पुरः स्थाप्य ततः परम् ।
पूजयित्वा तु तं धर्म इदं वाक्यमुवाच ह

6.28.8

सुस्वागतं धर्मदर्शिन्प्रीतोऽस्मि दर्शनात्तव ।
समीपे मम तिष्ठस्व किंचिज्ज्ञानं वदस्व मे

6.28.9

पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा व्यवस्थितः ।
इत्युक्ते च ततश्चान्यो विमानवरमास्थितः

6.28.10

आगतः पुरुषो देवो यत्र तिष्ठति धर्मराट् ।
स पूजितो विमानस्थः प्रश्रयावनतेन च

6.28.11

सामपूर्वं तथोक्त्वा तु यथापूर्वं नरः स्वयम् ।
किमनेन कृतं कर्म यस्य तुष्टो भवान्भृशम्

6.28.12

अत्र मे कौतुकं जातं कृता हि स्वयमेव तु ।
यदस्य भवता पूजा सविस्मयमनंतरम्

6.28.13

तथैवास्य कृता पूजा द्वितीयस्य नरस्य तु ।
मेनेऽहं शुभकर्माणौ विमानं वरसत्तमौ

6.28.14

यस्त्वमाभ्यां स्वयं पूजां कुरुषे धर्मकारणात् ।
ब्रह्माविष्णुशिवाद्यैस्तु पूज्यसे त्वं सदानिशम्

6.28.15

यस्येदृक्परमं पुण्यं किमेतौ कर्म चक्रतुः ।
कथ्यतां मम सर्वज्ञ फलं दिव्यमवापतुः

6.28.16

तच्छ्रुत्वा स तु मां प्राह शृणु कर्मानयोः कृतम् ।
यत्कृत्वार्हमिहायातौ तच्छृणुष्व महामते

6.28.17

धर्म उवाच-
वैदिशं नाम नगरं पृथिव्यामस्ति विश्रुतम् ।
तत्राभूत्पृथिवीपालो धरापाल इति श्रुतः

6.28.18

कस्मिन्काले पुरा देवी शशाप स्वगणं क्रुधा ।
मदृतेन परा नारी भर्त्तुर्यन्मे निवेशिता

6.28.19

तस्माद्द्वादशवर्षाणि जंबुकस्त्वं भविष्यसि ।
इत्युक्तः स च बभ्राम जंबुको मेदिनीतलम्

6.28.20

वेतसी वेत्रवत्योस्तु संगमे लोकविश्रुते ।
शापांतो भविता पुत्र इत्युक्तं गिरिकन्यया

6.28.21

तत्र चानशनं कृत्वा क्षेत्रे प्राणांस्ततोऽत्यजत् ।
दिव्यरूपवपुर्भूत्वा जगाम विष्णुसन्निधौ

6.28.22

तत्राश्चर्यं महद्दृष्ट्वा धरापालो महीपतिः ।
विष्णोरायतनं कृत्वा क्षेत्रे प्राणंस्ततोऽत्यजत्

6.28.23

दिव्यरूपवपुर्भूत्वा स्थापयामास तं प्रभुम् ।
तस्मिन्पुरे नरान्सर्वा सन्नियोज्यास्य वीक्षणे

6.28.24

शुभमायतनं विष्णोस्तस्मिन्ग्रामे सदा जनैः ।
पूर्णं तु ब्राह्मणादीनां पूजयित्वा कदंबकम्

6.28.25

इतिहासपुराणज्ञं वाचकं तु विशेषतः ।
पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः

6.28.26

पुस्तकं चापि संपूज्य गंधपुष्पादिभिः क्रमात् ।
ततस्तमाह राजासौ वाचकं विनयान्वितः

6.28.27

एतदायतनं विष्णोः कारितं च तवाग्रतः ।
चातुर्वर्ण्यमिदं चापि श्रोतुकामं कदंबकम्

6.28.28

तिष्ठतीह द्विजश्रेष्ठ कुरु पुस्तकवाचनम् ।
यावत्संवत्सरं विप्र गृह्य वृत्तिं त्वनुत्तमाम्

6.28.29

स्वर्णनिष्कशतं चात्र ततो दास्ये तथापरम् ।
पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽथ महमात्मनः

6.28.30

एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनम् ।
वर्षसंगतमात्रे तु तथा च मुनिसत्तम

6.28.31

अथायुषः क्षयाच्चायं कालधर्ममुपेयिवान् ।
मया चास्य विमानं हि विष्णुना प्रेरितं दिवः

6.28.32

इत्येषा कर्मणां व्युष्टिः पुण्यमाख्यानसंज्ञकम् ।
श्रुतं पाद्मं महत्पुण्यं पवित्रं पापनाशनम्

6.28.33

गंधपुष्पोपहारैस्तु न तुष्टिर्जायते तथा ।
देवानामिह सर्वेषां पुराणश्रवणाद्यथा

6.28.34

स्वर्णरत्नादिवस्तूनां वस्त्राणां चापि कृत्स्नशः ।
ग्रामाणां नगराणां च दानात्तुष्टिर्भवेन्नहि

6.28.35

यथा स्याद्धर्मश्रवणात्प्रीतिः सर्वदिवौकसाम् ।
इतिहासपुराणानां श्रवणे मुनिसत्तम

6.28.36

तथा स्यान्मे महाप्रीतिः साध्ये सर्वार्थकामिके ।
कन्यादाने महाप्रीतिर्मम स्यान्मुनिसत्तम

6.28.37

न तथा रोचते सा च यथा पुस्तकवाचनात् ।
अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम

6.28.38

पुण्याख्यानमृते विप्र गुह्यमेतत्प्रकीर्तितम् ।
यश्चायमपरो विप्र इहायातो नरोत्तमः

6.28.39

संगत्यानुगतश्चायं धर्मश्रवणमुत्तमम् ।
श्रुत्वा भक्तिरभूदस्य श्रद्धया परमात्मनः

6.28.40

कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः ।
एष विप्रो मुनिश्रेष्ठ ददौ स्वर्णस्य माषकम्

6.28.41

नान्यद्दानं कदा चक्रे लोभाविष्टेन चेतसा ।
पात्रदानात्फलप्राप्तिस्त्वस्य जाता न संशयः

6.28.42

इत्येतत्कथितं कर्म आभ्यां चैव महामुने

6.28.43

महादेव उवाच-
एतत्पुण्यस्य माहात्म्यं ये शृण्वंति मनीषिणः ।
न तेषां दुर्गतिः कच्चिज्जन्मजन्मनि जायते

6.28.28

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे शास्त्रव्याख्यामहिमानामाष्टाविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc