भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.254

6.254.1

वसिष्ठ उवाच-
एवमुक्ता तु सा देवि पतिना शूलपाणिना ।
प्रणिपत्य महात्मानमुवाच प्रांजलिस्तदा

6.254.2

पार्वत्युवाच-
साधूक्तं हि त्वया नाथ वैष्णवं धर्ममुत्तमम् ।
गुह्याद्गुह्यतमं विष्णोः स्वरूपं परमात्मनः

6.254.3

धन्यास्मि कृतकृत्यास्मि सर्वदेवनमस्कृत ।
तव प्रसादाद्देवेशमर्चयामि सनातनम्

6.254.4

वसिष्ठौवाच-
ततस्तद्वचनं श्रुत्वा स भवस्त्रिपुरांतकः ।
समाश्लिष्यावदद्देवीं प्रहृष्टेनांतरात्मनाः

6.254.5

रुद्र उवाच-
साधुसाधु महादेवि साधुसाधु वरानने ।
अर्चयस्व हृषीकेशं लक्ष्मीभर्त्तारमच्युतम्

6.254.6

कृतकृत्योऽस्म्यहं भद्रे वैष्णव्या भार्यया त्वया ।
गुरुणा तव चार्वंगि वामदेवेन धीमता

6.254.7

अनुज्ञातार्चयस्वेशं पुराणं पुरुषोत्तमम् ।
गुरूपदेशमार्गेण पूजयित्वैव केशवम् ।
प्राप्नोति वाछितं सर्वं नान्यथा भूधरात्मजे

6.254.8

वसिष्ठ उवाच-
एवमुक्ता तदा देवि वामदेवांतिकं नृप ।
जगाम सहसा हृष्टा विष्णुपूजनलालसा

6.254.9

समेत्य तं गुरुं देवि पूजयित्वा प्रणम्य च ।
विनीता प्रांजलिर्भूत्वा उवाच मुनिसत्तमम्

6.254.10

पार्वत्युवाच-
भगवंस्त्वत्प्रसादेन सम्यगाराधनं हरेः ।
करिष्यामि द्विजश्रेष्ठ त्वमनुज्ञातुमर्हसि

6.254.11

वसिष्ठ उवाच-
इत्युक्तस्तु तया देव्या वामदेवो महामुनिः ।
तस्यै मंत्रवरं श्रेष्ठं ददौ स विधिना गुरुः

6.254.12

नाम्नां सहस्रं विष्णोश्च प्रोक्तवान्मुनिसत्तमः ।
निवेदयित्वा पूजाया विधानमपि देशिकः ।
उवाच परमप्रीत्या पार्वतीं संशितव्रताम्

6.254.13

वामदेव उवाच-
अर्चयित्वा हृषीकेशं प्रातर्नित्यं वरानने ।
सहस्रनामपठनं कुरुष्व तदनंतरम्

6.254.14

वसिष्ठ उवाच-
द्वत्युक्ता तेन गुरुणा प्रहृष्टेनांतरात्मना ।
पूजयित्वा नमस्कृत्य पुनरायात्स्वमालयम्

6.254.15

शिक्षिता गुरुणा तेन वामदेवेन पार्वती ।
ततः कतिपयाहस्तु द्वादश्यां वृषभध्वजः

6.254.16

कैलासशिखरे रम्ये विष्णुमाराध्य शंकरः ।
उपविष्टस्ततो भोक्तुं पार्वतीं शंकरोऽब्रवीत्

6.254.17

शंकर उवाच-
पार्वत्ये हिमया सार्द्धं भोक्तुं भुवनवंदिते ।
वसिष्ठ उवाच-
तमाह पार्वती देवी जप्त्वा नामसहस्रकम्

6.254.18

ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो ।
ततस्तां पार्वतीं प्राह प्रहसन्परमेश्वरः

6.254.19

शंकर उवाच-
धन्यासि कृतकृत्यासि विष्णुभक्तासि पार्वति ।
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि

6.254.20

रामरामेति रामेति रमे रामे मनोरमे ।
सहस्रनामतत्तुल्यं रामनाम वरानने

6.254.21

रकारादीनि नामानि शृण्वतो मम पार्वति ।
मनः प्रसन्नतां याति रामनामाभिशंकया

6.254.22

रामेत्युक्त्वा महादेवि भुंक्ष्व सार्धं मयाधुना ।
वसिष्ठ उवाच-
ततो रामेति नामोक्त्वा सह भुंक्त्वाऽथ पार्वती

6.254.23

रामेत्युक्ता महादेवी शंभुना सह संस्थिता ।
पप्रच्छ शंकरं देवं प्रीतिप्रणवमानसा

6.254.24

पार्वत्युवाच-
सहस्रनामभिस्तुल्यं रामनाम त्वयोदितम् ।
तस्यापराणि नामानि संति चेद्रावणद्विषः ।
कथ्यतां मम देवेश तत्र मे भक्तिरुत्थिता

6.254.25

श्रीमहादेव उवाच-
शृणु नामानि वक्ष्यामि रामचंद्रस्य पार्वति ।
लौकिका वैदिकाः शब्दाः ये केचित्संति पार्वति

6.254.26

नामानि रामचंद्रस्य सहस्रं तेषु चाधिकम् ।
तेषु चात्यंतमुख्यं हि नाम्नामष्टोत्तरं शतम्

6.254.27

विष्णोरेकैकनामैव सर्ववेदाधिकं मतम् ।
तादृङ्नामसहस्राणि रामनामसमानि च

6.254.28

यत्फलं सर्ववेदानां मंत्राणां जपतः प्रिये ।
तत्फलं कोटिगुणितं रामनाम्नैव लभ्यते

6.254.29

नामानि शृणु रामस्य मुख्यानि शुभदर्शने ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि ते प्रिये

6.254.30

ॐ श्रीरामो रामचंद्रश्च रामभद्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान्राजेंद्रो रघुपुंगवः

6.254.31

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दांतः शरण्य त्राणतत्परः

6.254.32

वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः ।
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः

6.254.33

कौशलेयः खरध्वंसी विराधवधपंडितः ।
विभीषणपरित्राता दशग्रीवशिरोहरः

6.254.34

सप्ततालप्रभेत्ता च हरकोदंड खंडनः ।
जामदग्नि महादर्प्पदलनस्ताडकांतकृत्

6.254.35

वेदांतपारो वेदात्मा भवबंधैकभेषजम् ।
दूषणत्रिशिरोरिश्च त्रिमूर्त्तिस्त्रिगुणस्त्रयी

6.254.36

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्त्तनः ।
त्रिलोकरक्षको धन्वी दंडकारण्यवासकृत्

6.254.37

अहल्यापावनश्चैव पितृभक्तो वरप्रदः ।
जितेंद्रियो जितक्रोधो जितलोभो जगद्गुरुः

6.254.38

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयंतत्राणवरदः सुमित्रापुत्रसेवितः

6.254.39

सर्वदेवाधिदेवश्च मृतवानरजीवनः ।
मायामारीचहंता च महाभागो महाभुजः

6.254.40

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः ।
महायोगी महोदारः सुग्रीवस्थिरराज्यदः

6.254.41

सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः ।
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा

6.254.42

पुण्योदयो महासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः

6.254.43

अनंतगुणगंभीरो धीरो दांतगुणोत्तरः ।
मायामानुषचारित्रो महादेवाधिपूजितः

6.254.44

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।
श्यामांगः सुंदरः शूरः पीतवासा धनुर्द्धरः

6.254.45

सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः ।
शिवलिंगप्रतिष्ठाता सर्वाद्यगुणवर्जितः

6.254.46

परमात्मा परब्रह्म सच्चिदानंदविग्रहः ।
परंज्योतिः परंधाम पराकाशः परात्परः

6.254.47

परेशः पारगः पारः सर्वभूतात्मकः शिवः ।
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम्

6.254.48

गुह्याद्गुह्यतरं देवि तव स्नेहात्प्रकीर्तितम् ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा

6.254.49

सर्वैः प्रमुच्यते पापैः कल्पकोटिशतोद्भवैः ।
जलानि स्थलतां यांति शत्रवो यांति मित्रताम्

6.254.6.254.50

राजानो दासतां यांति वह्नयो यांति सौम्यताम् ।
आनुकूल्यं च भूतानि स्थैर्यं यांति चलाः श्रियः ५०

6.254.51

अनुग्रहं ग्रहा यांति शांतिमायांत्युपद्रवाः ।
पठतो भक्तिभावेन नरस्य गिरिसंभवे

6.254.52

पठेत्परमया भक्त्या तस्य वश्यं जगत्त्रयम् ।
यंयं कामं प्रकुरुते तंतमाप्नोति कीर्त्तनात्

6.254.53

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वैकुंठे मोदते नित्यं दशपूर्वैर्दशापरैः

6.254.54

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवंति नामभिर्द्दिव्यैर्न ते संसारिणो जनाः

6.254.55

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः

6.254.56

इमं मंत्रं महादेवि जपन्नेव दिवानिशम् ।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात्

6.254.57

इति ते रामचंद्रस्य माहात्म्यं वेदसंमितम् ।
कथितं वै मया सुभ्रूस्तव प्रीत्या शुभाह्वयम्

6.254.58

वसिष्ठ उवाच-
तच्छ्रत्वा शंकरेणोक्तं माहात्म्यं परमात्मनः ।
प्रहर्षमतुलं लेभे आनंदाश्रुजलाप्लुता

6.254.59

प्रणम्य प्राह देवेशं भर्तारं वृषभध्वजम् ।
पार्वत्युवाच-
अहो माहात्म्यमतुलं रामस्य परमात्मनः ।
श्रोत्रतृप्तिर्हि मे न स्यात्कल्पायुतशतैरपि

6.254.60

धन्याहं कृतकृत्यास्मि सर्वमुक्तं त्वयानघ ।
त्वत्प्रसादाद्धरेर्भक्तिर्जन्मजन्मनि चास्तु मे

6.254.61

वसिष्ठ उवाच-
एवमुक्त्वा स्वभर्तारं गौरी भागवतोत्तमा ।
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः

6.254.62

इममेव जपन्मंत्रं सर्वावस्थासु पार्वती ।
उवास च सुखेनैव कैलासे पतिना सह

6.254.63

एतत्ते सर्वमाख्यातं गुह्याद्गुह्यतमं नृप ।
रुद्रप्रोक्तानि शास्त्राणि तामसान्येव पार्थिव

6.254.64

संमोहनार्थं लोकानां प्रोक्तवान्वृषभध्वजः ।
रहसि प्रोक्तवान्देव्या इदमेकं हरः प्रभुः

6.254.65

यथार्थमर्थं गुह्यं च सारं मंत्रस्य भूपते ।
देव्या प्रीत्यै महादेवः कथयामास तत्परः

6.254.66

उमामहेश्वरं राजन्संवादमिममद्भुतम् ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा

6.254.67

स सर्ववंद्यः सर्वज्ञो महाभागवतो भवेत् ।
सर्वधर्मविनिर्मुक्तः प्राप्नोति परमं पदम्

6.254.68

धन्यः खलु भवान्लोके पार्थिवेंद्र महाबल ।
त्वदन्वये हरिः श्रीमान्पुराणः पुरुषोत्तमः

6.254.69

उत्पत्स्यते दाशरथिः सर्वलोकहिताय वै ।
तस्मादिक्ष्वाकवः पूज्याः सुराणामपि पार्थिव

6.254.254

येषां जातो हि भगवान्रामो राजीवलोचनः ।
इति श्रीपाद्मे महापुराणे पंचपचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे रामचंद्राष्टोत्तरशतनामकथनं नाम चतुःपंचाशदधिक द्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc