भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.249

6.249.1

श्रीरुद्र उवाच-
सत्राजितस्य तनया नाम्ना सत्या यशस्विनी ।
पृथिव्यंशेन संभूता भार्यां कृष्णस्य वा परा

6.249.2

वैवस्वती महाभागा कालिंदी नाम नामतः ।
तृतीया तस्य भार्या सा लीलांशा समुपस्थिता

6.249.3

विंदानुविंदस्य सुतां मित्रविंदां शुचिस्मिताम् ।
स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः

6.249.4

पाशेनैकेन बद्ध्वा तान् वृषभान्सप्तदुर्मदान् ।
तां वीर्यशुल्कां जग्राह पद्मपत्रायतेक्षणः

6.249.5

सत्राजितो महारत्नं स्यमंताख्यं महीपतिः ।
अनुजाय ददौ सोऽयं प्रसेनाय महात्मने

6.249.6

ययाचे तं मणिवरं कदाचिन्मधुसूदनः ।
उवाच वासुदेवं तं प्रसेनः प्रसभं तदा

6.249.7

प्रसेन उवाच-
भारानष्टसुवर्णानि नित्यं प्रसवते मणिः ।
तस्मात्कस्य न दातव्यं स्यमंताख्यमिदं मया

6.249.8

महादेव उवाच-
कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह ।
कदाचिन्मृगयां कर्त्तुं कृष्णः सर्वैर्यदूत्तमैः

6.249.9

प्रविवेश महारण्यं प्रसेनाद्यैर्महाबलैः ।
प्रत्येकं वै मृगान्हंतुमनुयाताः सहस्रशः

6.249.10

एक एव महारण्ये प्रसेनो दूरमागतः ।
तं सिंहो दृष्टमासाद्य हत्वा रत्नं जहार सः

6.249.11

तं सिंहं जांबबान्हत्वा मणिं गृह्य महाबलः ।
प्रविवेश बिलं तूर्णं दिव्यस्त्रीभिर्निषेवितम्

6.249.12

तस्मिन्नस्तंगते सूर्ये वासुदेवं सहानुगः ।
चतुर्थ्यामुदितं चंद्रं दृष्ट्वा स्वं पुरमाविशत्

6.249.13

ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम् ।
हत्वा प्रसेनं गोविंदो मृगव्याजेन कानने

6.249.14

स्यमंतकं मणिवरमग्रहीदविशंकया ।
तदाकर्ण्य हरिस्तस्मिन्द्वारकाजनभाषितम्

6.249.15

अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ ।
दर्शयामास तान्सर्वान्सिंहेन निहतं वने

6.249.16

लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम् ।
एकः शार्ङ्गगदापाणिर्जगाम गहनं वनम्

6.249.17

दृष्ट्वा महाबिलं कृष्णः प्रविवेश विशंकितः ।
तत्र नाना मणिवरद्योतिते विमले गृहे

6.249.18

सुतं जांबवतो धात्री दोलामारोप्य लीलया ।
दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा

6.249.19

सिंहः प्रसेनमवधीत्सिंहो जांबवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमंतकः

6.249.20

तच्छ्रुत्वा वासुदेवोऽथ शंखं दध्मौ प्रतापवान् ।
तेन नादेन महता निर्जगामात्र जांबवान्

6.249.21

तयोर्युद्धमभूद्घोरं दशरात्रं निरंतरम् ।
मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम्

6.249.22

कृष्णस्य बलवृद्धिं च तथात्मबलसंक्षयम् ।
अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः

6.249.23

सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः ।
स आगतो मम स्वामी दातुं मम मनोरथम्

6.249.24

एवं ज्ञात्वाथ ऋक्षेशो निर्वर्त्य रणकर्म तत् ।
प्रांजलि प्राह गोविंदं को भवानिति विस्मयात्

6.249.25

निवर्त्य कदनं शौरिः प्रोचे गंभीरया गिरा ।
श्रीकृष्ण उवाच-
पुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः

6.249.26

ममरत्नं स्यमंताख्यं हृतवांस्त्वं सुनिर्भयः ।
तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि

6.249.27

महादेव उवाच-
तच्छ्रुत्वा जांबवान्हृष्टः प्रणनामाथ दंडवत् ।
परिणीय नमस्कृत्य विनयात्प्राह केशवम्

6.249.28

जांबवानुवाच-
धन्योस्मि कृतकृत्योस्मि तव संदर्शनात्प्रभो ।
दासोऽहं पूर्वभावेन तव देवकिनंदन

6.249.29

दत्तवानसि गोविंद कदनं पूर्वकांक्षितम् ।
मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया ।
तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत

6.249.30

महादेव उवाच-
इत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः ।
नानारत्नमये पीठे निवेश्य विनयात्प्रभुम्

6.249.31

शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणा ।
मधुपर्कविधानेन पूजयित्वा यदूद्वहम्

6.249.32

वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः ।
पुत्रीं जांबवतीं नाम कन्यां लावण्यसंयुताम्

6.249.33

कन्यारत्नं ददौ तस्मै भार्यार्थममितौजसे ।
अन्यैश्च मणिमुख्यैश्च स्यमंताख्यं ददौ मणिम्

6.249.34

तत्रैवोद्वाह्य तां कन्यां प्रहृष्टपरवीरहा ।
ददौ तस्मै परां मुक्तिं प्रीत्या जांबवते हरिः

6.249.35

गृहीत्वा तनयां तस्य कन्यां जांबवतीं मुदा ।
विनिर्गत्य बिलात्तस्मात्प्रययौ द्वारकां पुरीम्

6.249.36

सत्राजिते ददौ रत्नं स्यमंताख्यं यदूत्तमः ।
दुहित्रे प्रददौसोऽपि कन्यायै मणिमुत्तमम्

6.249.37

मासि भाद्रपदे शुक्ले चतुर्थ्यां चंद्रदर्शनम् ।
मिथ्याभिदूषणं प्राहुस्तस्मात्तत्परिवर्जयेत्

6.249.38

प्राप्यते दर्शनं तत्र चतुर्थ्यां शीतगोर्नरः ।
स्यमंतस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते

6.249.39

सुलक्ष्मणां नाग्नजितीं सुशीलां च यशस्विनीम् ।
मद्रराजसुतास्तिस्रः कन्यकास्ताः शुभाननाः

6.249.40

स्वयंवरस्थास्ताः कृष्णं वरयामासुरुज्ज्वलाः ।
एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः

6.249.41

अष्टौ महिष्यस्ताः सर्वा रुक्मिण्याद्या महात्मनः ।
रुक्मिणी सत्यभामा च कालिंदी च शुचिस्मिता

6.249.42

मित्रविंदा जांबवती नाग्नजित्यः सुलक्ष्मणा ।
सुशीला नाम तन्वंगी महिषी चाष्टमी स्मृता

6.249.43

भूमिपुत्रो महावीर्यो नरको नाम राक्षसः ।
जित्वा देवपतिं शक्रं सर्वांश्चैव सुरान्रणे

6.249.44

अदित्या देवमातुश्च कुंडले च सुवर्चसी ।
बलाज्जग्राह देवानां रत्नानि विविधानि च

6.249.45

ऐरावतं महेंद्रस्य तथैवोच्चैःश्रवं हयम् ।
माणिक्यादि धनेशस्य शंखपद्मनिधिं तथा

6.249.46

स्त्रियश्चाप्सरसश्चैव हृतवान्क्षितिनंदनः ।
वज्रादिहेतीस्तेषां च बलाद्धृत्वा दिवौकसाम्

6.249.47

तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम् ।
उवास व्योमगो दिव्यो नगर्यां विमलेंबरे

6.249.48

ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम् ।
भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारिणम्

6.249.49

कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितम् ।
देवानामभयं दत्वा वैनतेयं व्यचिंतयत्

6.249.6.249.50

तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः ।
प्रांजलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः ५०

6.249.51

तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः ।
संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम्

6.249.52

प्रदीप्यमानमाकाशे यथा सूर्यस्य मंडलम् ।
राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युतम्

6.249.53

ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि ।
तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान्

6.249.54

चिच्छेद तेजसा दीप्त्या तमांसि च दिवाकरः ।
ततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः

6.249.55

उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुः ।
ततस्तु तोमरैर्दिव्यैर्भिण्डिपालैः सुपट्टिशैः

6.249.56

केशवं ताडयामासुः पलालैरिव पावकम् ।
ततस्तु शार्ङ्गमादाय भगवान्गरुडध्वजः

6.249.57

दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैः ।
तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः

6.249.58

चक्रेणैव प्रचिच्छेद वीर्यवान्पुरुषोत्तमः ।
केचिच्चक्रेण संछिन्नास्तथान्ये शरताडिताः

6.249.59

गदया निहताः केचिद्राक्षसास्तद्रणाजिरे ।
एवं ते राक्षसाः सर्वे पातिता धरणीतले

6.249.60

शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः ।
निहत्य दानवान्सर्वान्पुंडरीकायतेक्षणः

6.249.61

पाञ्चजन्यं महाशंखं प्रदध्मौ पुरुषोत्तमः ।
ततः स नरको दैत्यो धनुरादाय वीर्यवान्

6.249.62

दिव्यं स्यंदनमारुह्य ययौ युद्धाय केशवम् ।
तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणम्

6.249.63

बहुभिर्बाणसाहस्रैर्मेघयोरिव वर्षतोः ।
ततोऽर्द्धचंद्र बाणेन वासुदेवः सनातनः

6.249.64

तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान् ।
ससर्जास्त्रं महादिव्यं नरकस्य महोरसि

6.249.65

स तेन भिन्नहृदयः पपातोर्व्यां महासुरः ।
शक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन्

6.249.66

उपगम्य ततः कृष्णः समीपं तस्य रक्षसः ।
भूम्या संप्रार्थितः प्राह वरं वृण्विति राक्षसम् ।
स चाह राक्षसः कृष्णं गरुडोपरि संस्थितम्

6.249.67

न मे कृत्यं वरेणास्ति नरकोऽहं तथापि च ।
अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम्

6.249.68

मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर ।
ये नरा मंगलस्नानं कुर्वंति मधुसूदन ।
न तेषां निरयप्राप्तिर्भवत्वेवं भयापह

6.249.69

महादेव उवाच-
एवमस्त्विति गोविंदो ददौ तस्मै वरं प्रभुः ।
ततः पश्यन्हरेः साक्षाच्छरदंबुज सन्निभौ

6.249.70

चरणौ वज्रवैडूर्य्यनूपुराभ्यां विराजितौ ।
अर्चितौ विधिरुद्राद्यैस्त्रिदशैर्मुनिभिस्तथा

6.249.71

त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेः ।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः

6.249.72

ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयः ।
प्रविश्य नगरं तस्य कृष्णः कमललोचनः

6.249.73

बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसाम् ।
कुंडले देवमातुश्च तथैवोच्चैःश्रवो हयम्

6.249.74

ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम् ।
सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे

6.249.75

पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बली ।
कन्याषोडशसाहस्रं हृतवान्नरकस्तदा

6.249.76

सन्निरुद्धास्तु ताः सर्वा नरकांतःपुरे तदा ।
दृष्ट्वा कृष्णं महावीर्यं कंदर्पशतसंनिभम्

6.249.77

भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम् ।
एतस्मिन्नेव काले तु गोविंदोऽनंतरूपवान्

6.249.78

तासां करग्रहं चक्रे विधिना पुरुषोत्तमः ।
नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा

6.249.79

गोविंदं शरणं जग्मुस्तानरक्षद्घृणानिधिः ।
तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात्

6.249.80

ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः ।
देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत्

6.249.81

वैनतेयं समारुह्य सत्यया सह केशवः ।
स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम्

6.249.82

प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः ।
अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः

6.249.83

ववंदे मातरं तत्र वंद्यां तां त्रिदिवौकसाम् ।
संपरिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला

6.249.84

निवेश्यासनमुख्ये तु पूजयामास भक्तितः ।
आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः

6.249.85

तत्र संपूजयामासुर्यथार्हं परमेश्वरम् ।
शचीगृहं समागम्य सत्यभामा यशस्विनी

6.249.86

तया समर्चिता देव्या समासीना सुखासने ।
तस्मिन्काले सुपुष्पाणि पारिजातस्य किंकराः

6.249.87

शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः ।
प्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा

6.249.88

नीलनिर्मलकेशे च बबंध स्वस्य मूर्धनि ।
अवमान्य शची तत्र सत्यभामां यशस्विनीम्

6.249.89

अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम् ।
इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा

6.249.90

विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्विता ।
समेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा

6.249.91

सत्योवाच-
एषा शची यदुश्रेष्ठ पारिजातेन गर्विता ।
अदत्त्वा मम गोविंद बबंध स्वस्य मूर्द्धनि

6.249.92

महादेव उवाच-।
सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः ।
उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि

6.249.93

आरुह्य सत्यया तूर्णं वैनतेयं महाबलम् ।
प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः

6.249.94

ततः कोपसमाविष्टो देवराजः शतक्रतुः ।
रुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः

6.249.95

ऐरावतं समारुह्य ययौ युद्धाय केशवम् ।
ततो देवगणाः सर्वे परिवार्य्य जनार्दनम्

6.249.96

ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम् ।
कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम्

6.249.97

वैनतयस्तु संक्रुद्धः पक्षपातेन वीर्यवान् ।
पातयामास तान्देवान्पलालानीव मारुतः

6.249.98

ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः ।
मुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया

6.249.99

जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया ।
ततो भीतः सहस्राक्षो नागेंद्रादवरुह्य सः

6.249.6.249.100

प्रांजलिः पुरतः स्थित्वा नमस्कृत्वा जनार्दनम् ।
प्राह गद्गदया वाचा स्तुत्वा स्तुतिभिरेव च १००

6.249.101

इंद्र उवाच-
देवयोग्यमिदं कृष्ण पारिजातं त्वया पुरा ।
दत्तो मम सुराणां च कथं स्थास्यति मानुषे

6.249.102

महादेव उवाच-
ततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम् ।
शच्यावमानिता सत्या तव गेहे सुरेश्वर

6.249.103

अदत्त्वा पारिजातानि सत्यायै सा पुलोमजा ।
स्वयमेव स्वशिरसि धारयामास ते प्रिया

6.249.104

अस्या निमित्तं देवेंद्र पारिजातो हृतो मया ।
अस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर

6.249.105

तव गेहे पारिजातं स्थापयामीति वासव ।
तस्मादद्य न दातव्यः पारिजातः सुरेश्वर

6.249.106

देवतानां हितार्थाय प्रापयिष्यामि भूतले ।
तावत्तिष्ठतु देवेंद्र पारिजातो ममालये

6.249.107

मयि स्वर्गं गते शक्र गृहाण त्वं यथेच्छया ।
महादेव उवाच-
एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम्

6.249.108

एवमस्त्विति गोविंदं नमस्कृत्य स वज्रभृत् ।
प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः

6.249.109

कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितः ।
संस्तूयमानो मुनिभिर्द्वारवत्यां विवेश ह

6.249.110

सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमम् ।
रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः

6.249.111

निशासु तासां सर्वासां गृहेषु मधुसूदनः ।
विश्वरूपधरः श्रीमानुवास स सुखप्रदः

6.249.249

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे ।
उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेवविवाहकथनं नामैकोनपंचाशदधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc