भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.243

6.243.1

शंकर उवाच-
अथ तस्मिन्दिने पुण्ये शुभलग्ने शुभान्विते ।
मंगलस्याभिषेकार्थं मंगलं चक्रिरे जनाः

6.243.2

वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः ।
मार्कंडेयश्च मौद्गल्यः पर्वतो नारदस्तथा

6.243.3

एते महर्षयस्तत्र जपहोमपुरस्सरम् ।
अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमम्

6.243.4

नानारत्नमये दिव्ये हेमपीठे शुभान्विते ।
निवेश्य सीतया सार्द्धं श्रिया इव जनार्दनम्

6.243.5

सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः ।
सर्वतीर्थोदकैः पुण्यैर्माङ्गल्यद्रव्यसंयुतैः

6.243.6

दूर्वाग्रतुलसीपत्रपुष्पगंधसमन्वितैः ।
मंत्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः

6.243.7

अजपन्वैष्णवान्सूक्तान्चतुर्वेदमयान्शुभान् ।
अभिषेकं शुभं चक्रुः काकुत्स्थं जगतः पतिम्

6.243.8

तस्मिन्शुभतमे लग्ने देवदुंदुभयो दिवि ।
विनेदुः पुष्पवर्षाणि ववृषुश्च समंततः

6.243.9

दिव्यांबरैर्भूषणैश्च दिव्यगंधानुलेपनैः ।
पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः

6.243.10

अलंकृतश्च शुशुभे मुनिभिर्वेदपारगैः ।
छत्रं च चामरं दिव्यं धृतवान्लक्ष्मणस्तदा

6.243.11

पार्श्वे भरतशत्रुघ्नौ तालवृंतौ विरेजतुः ।
दर्पणं प्रददौ श्रीमान्राक्षसेंद्रो विभीषणः

6.243.12

दधार पूर्णकलशं सुग्रीवो वानरेश्वरः ।
जाम्बवांश्च महातेजाः पुष्पमालां मनोहराम्

6.243.13

वालिपुत्रस्तु तांबूलं सकर्पूरं ददौ हरेः ।
हनुमान्दीपकां दिव्यां सुषेणश्च ध्वजं शुभम्

6.243.14

परिवार्य महात्मानं मंत्रिणः समुपासिरे ।
सृष्टिर्जयंतो विजयः सौराष्ट्रो राष्ट्रवर्द्धनः

6.243.15

अकोपो धर्मपालश्च सुमंत्रो मंत्रिणः स्मृताः ।
राजानश्च नरव्याघ्रा नानाजनपदेश्वराः

6.243.16

पौराश्च नैगमा वृद्धा राजानं पर्युपासत ।
ऋक्षैश्च वानरेंद्रैश्च मंत्रिभिः पृथिवीश्वरैः

6.243.17

राक्षसैर्द्विजमुख्यैश्च किंकरैश्च समावृतः ।
परे व्योम्नि यथा लीनो दैवतैः कमलापतिः

6.243.18

तथा नृपवरः श्रीमान्साकेते शुशुभे तदा ।
इंदीवरदलश्यामं पद्मपत्रनिभेक्षणम्

6.243.19

आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम् ।
कंबुग्रीवं महोरस्कं विचित्राभरणैर्युतम्

6.243.20

देव्या सह समासीनमभिषिक्तं रघूत्तमम् ।
विमानस्थाः सुरगणा हर्षनिर्भरमानसाः

6.243.21

तुष्टुवुर्जयशब्देन गंधर्वाप्सरसां गणाः ।
अभिषिक्तस्ततो रामो वसिष्ठाद्यैर्महर्षिभिः

6.243.22

शुशुभे सीतया देव्या नारायण इव श्रिया ।
अतिमर्त्यतयाभीत उपासितुं पदांबुजम्

6.243.23

दृष्ट्वा तुष्टाव हृष्टात्मा शंकरो हृष्टमागतः ।
कृतांजलिपुटो भूत्वा सानंदो गद्गदाकुलः ।
हर्षयन्सकलान्देवान्मुनीनपि च वानरान्

6.243.24

महादेव उवाच-
नमो मूलप्रकृतये नित्याय परमात्मने ।
सच्चिदानंदरूपाय विश्वरूपाय वेधसे

6.243.25

नमो निरंतरानंद कन्दमूलाय विष्णवे ।
जगत्त्रयकृतानंद मूर्त्तये दिव्यमूर्त्तये

6.243.26

नमो ब्रह्मेंद्रपूज्याय शंकराभयदाय च ।
नमो विष्णुस्वरूपाय सर्वरूपनमोनमः

6.243.27

उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने ।
नमोस्तु निर्गतोपाधिस्वरूपाय महात्मने

6.243.28

अनया विद्यया देव्या सीतयोपाधिकारिणे ।
नमः पुंप्रकृतिभ्यां च युवाभ्यां जगतां कृते

6.243.29

जगन्मातापितृभ्यां च जनन्यै राघवाय च ।
नमः प्रपंचरूपिण्यै निष्प्रपंचस्वरूपिणे

6.243.30

नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्त्तये ।
परिणामापरीणामरिक्ताभ्यां च नमोनमः

6.243.31

कूटस्थबीजरूपिण्यै सीतायै राघवाय च ।
सीता लक्ष्मीर्भवान्विष्णुः सीता गौरी भवान्शिवः

6.243.32

सीता स्वयं हि सावित्रि भवान्ब्रह्मा चतुर्मुखः ।
सीता शची भवान्शक्रः सीता स्वाहानलो भवान्

6.243.33

सीता संहारिणी देवी यमरूपधरो भवान् ।
सीता हि सर्वसम्पत्तिः कुबेरस्त्वं रघूत्तम

6.243.34

सीता देवी च रुद्राणी भवान्रुद्रो महाबलः ।
सीता तु रोहिणी देवी चंद्रस्त्वं लोकसौख्यदः

6.243.35

सीता संज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान् ।
सीतादेवी महाकाली महाकालो भवान्सदा

6.243.36

स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकी ।
पुन्नाम लांछितं यत्तु तत्सर्वं हि भवान्प्रभो

6.243.37

सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणी ।
तदात्वमपिचत्रातुंतच्छक्तिर्विश्वधारिणी

6.243.38

तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम् ।
चिह्नितं शिवशक्तिभ्यां चरितं तव शांतिदम्

6.243.39

आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम् ।
त्वन्नामजापिनी गौरी त्वन्मंत्रजपवानहम्

6.243.40

मुमूर्षोर्मणिकर्ण्यां तु अर्द्धोदकनिवासिनः ।
अहं दिशामि ते मंत्रं तारकं ब्रह्मदायकम्

6.243.41

अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितम् ।
त्वन्मायामोहितास्सर्वे न त्वां जानंति तत्वतः

6.243.42

ईश्वर उवाच-
इत्युक्तः शंभुना रामः प्रसादप्रवणोऽभवत् ।
दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः

6.243.43

तथा तं रूपमालोक्य नरवानरदेवताः ।
न द्रष्टुमपिशक्तास्ते तेजसं महदद्भुतम्

6.243.44

भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः ।
भीता विज्ञाय रामोऽपि नरवानरदेवताः ।
मायामानुषतां प्राप्य स देवानब्रवीत्पुनः

6.243.45

रामचंद्र उवाच-
शृणुध्वं देवता यो मां प्रत्यहं संस्तुविष्यति ।
स्तवेन शंभुनोक्तेन देवतुल्यो भवेन्नरः

6.243.46

विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते ।
रणे जयमवाप्नोति न क्वचित्प्रतिहन्यते

6.243.47

भूतवेतालकृत्याभिर्ग्रहैश्चापि न बाध्यते ।
अपुत्रो लभते पुत्रं पतिं विंदति कन्यका

6.243.48

दरिद्रः श्रियमाप्नोति सत्ववाञ्शीलवान्भवेत् ।
आत्मतुल्यबलः श्रीमाञ्जायते नात्र संशयः

6.243.49

निर्विघ्नं सर्वकार्येषु सर्वारंभेषु वै नृणाम् ।
यंयं कामयते मर्त्यः सुदुर्लभमनोरथम्

6.243.50

षण्मासात्सिद्धिमाप्नोति स्तवस्यास्य प्रसादतः ।
यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ।
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते

6.243.51

ईश्वर उवाच-
इत्युक्त्वा रामचंद्रोऽसौ विससर्ज महेश्वरम् ।
ब्रह्मादि त्रिदशान्सर्वान्विससर्ज समागतान्

6.243.52

अर्चिता मानवाः सर्वे नरवानरदेवताः ।
विसृष्टा रामचंद्रेण प्रीत्या परमया युताः

6.243.53

इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीवहृष्टाः ।
परं पठंतः स्तवमीश्वरोक्तं रामं स्मरंतो वरविश्वरूपम्

6.243.243

।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे विश्वदर्शनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc