पद्म पुराण · अध्याय 6.228
श्रीमहादेव उवाच-
त्रिपाद्विभूतेर्लोकास्तु असंख्याताः प्रकीर्तिताः ।
शुद्धसत्वमयाः सर्वे ब्रह्मानंदसुखाह्वयाः
सर्वे नित्या निर्विकारा हेयरागादिवर्जिताः ।
सर्वे हिरण्मयाश्शुद्धाः कोटिसूर्य्यसमप्रभाः
सर्वे वेदमयार्दिव्याः काम क्रोधविवर्जिताः ।
नारायणपदांभोज भक्त्येकरससेविताः
निरंतरं सामगानपरिपूर्णसुखं श्रिताः ।
सर्वे पंचोपनिषद स्वरूपा वेदवर्चसः
सर्वे वेदमयैर्दिव्यैःपुरुषैः स्त्रीभिरावृताः ।
वेदैकरसतोयाढ्यैस्सरोभिरुपशोभिताः
श्रुतिस्मृतिपुराणादि रूपस्थावरसंयुताः ।
सर्वं वर्णयितुं शक्यं न मया लोकविस्तृतम्
विरजा परमव्योम्नोरंतरंकेवलं स्मृतम् ।
तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम्
स्वात्मानुभवजानंदसुखदं केवलं पदम् ।
निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते
श्रीशांघ्रिभक्तिसेवैकरसभोगविवर्धिताः तम् ।
तदिच्छन्त्यल्पमतयो मोक्षं सुखविवर्जितम् ।
महात्मानो महाभागा भगवत्पादसेवकाः
तद्विष्णोः परमं धाम यांति ब्रह्मसुखप्रदम् ।
नानाजनपदाकीर्णं वैकुंठं तद्धरेः पदम्
प्राकारैश्च विमानैश्च सौधैरत्नमयैर्वृतम् ।
तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता
मणिकांचनचित्राढ्य प्राकारैस्तोरणैर्वृता ।
चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता
चंडादिद्वारपालैश्च कुमुदाद्यैश्च रक्षिता ।
चंडप्रचंडौ प्राग्द्वार याम्ये भद्रसुभद्रकौ
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ।
कुमुदः कुमुदाक्षश्च पुंडरीकोऽथ वामनः
शंकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।
एते दिक्पतयः प्रोक्ताः पुर्य्यामत्र शुभानने
कोटिवैश्वानरप्रख्य गृहपंक्तिभिरावृता ।
आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता
अन्तःपुरं तु देवस्य मध्ये पुर्याम्मनोहरम् ।
मणिप्राकारसंयुक्तं रत्नतोरणशोभितम्
विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्युतम् ।
दिव्याप्सरोगणैः स्त्रीभिस्सर्वतस्समलंकृतम्
मध्ये तु मंडपं दिव्यं राजस्थानं महोच्छ्रयम् ।
माणिक्यस्तंभसाहस्रजुष्टं रत्नमयं शुभम्
दिव्यैर्मुक्तैः समाकीर्णं सामगानोपशोभितम् ।
मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम्
धर्मादिदैवतैर्नित्यैर्वृंतवैदमयात्मकैः ।
धर्म्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः
ऋग्यजुःसामचाथर्वैरूपैर्नित्यं वृतं क्रमात् ।
शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिवा
धर्मादिदेवतानां च शक्तयः परिकीर्तिताः ।
वसंति मध्यमे तत्र वह्निसूर्यसुधांशवः
कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः ।
छंदासि सर्वमंत्राश्च पीठरूपत्वमास्थिताः
सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् ।
तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम्
तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने ।
ईश्वर्य्या सह देवेशस्तत्रासीनः परः पुमान्
इंदीवरदलश्यामः कोटिसूर्यप्रकाशवान् ।
युवाकुमारः स्निग्धश्च कोमलावयवैर्वृतः
फुल्लरक्तांबुजनिभः कोमलांघ्रिसरोजवान् ।
प्रबुद्धः पुंडरीकाक्षः सुभ्रू लतायुगाङ्कितः
सुनासस्सुकपोलाढ्यस्सुश्रोत्रमुखपंकजः ।
मुक्ताफलाभदन्ताढ्यः सस्मिताधरविद्रुमः
परिपूर्णेदुसंकाशः सुस्मिताननपंकजः ।
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजितः
सस्निग्धनीलकुटिलकुन्तलैरुपशोभितः ।
मन्दारपारिजाताढ्य कबरीकृतकेशवान्
प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः ।
हारस्वर्णस्रगासक्त कम्बुग्रीवो विराजितः
सिंहस्कंधनिभैः प्रोच्चैः पीनैरंसैर्विराजितः ।
पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः
अङ्गुलीयैश्च कटकैः केयूरैः परिमण्डितः ।
बालार्ककोटिसंकाशैः कौस्तुभाद्यैः सुभूषणैः
विराजितमहावक्षो वनमालाविभूषितः ।
विधातृजननस्थान नाभिपङ्कजशोभितः
बालातपनिभश्लक्ष्ण पीतवस्त्रसमन्वितः ।
नानारत्नविचित्रांघ्रिः कटकाभ्यां विराजितः
सज्योत्स्नचंद्रप्रतिम नखपंक्तिसमन्वितः ।
कोटिकंदर्पलावण्य सौंदर्य्यनिधिरच्युतः
दिव्यचंदनलिप्तांगो दिव्यमालाविभूषितः ।
गृहीतशंखचक्राभ्यामुद्बाहुभ्यां विराजितः
वरदाभयहस्ताभ्यामितराभ्यां तथैव च ।
वामाङ्के संस्थिता देवी महालक्ष्मीर्महेश्वरी
हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा ।
सर्वलक्षणसंपन्ना यौवनारंभविग्रहा
रत्नकुंडलसंयुक्ता नीला कुंचितशीर्षजा ।
दिव्यचंदनलिप्तांगी दिव्यपुष्पोपशोभिता
मंदारकेतकी जाती पुष्पाञ्चितसुकुंतला ।
सुभ्रूस्सुनासा सुश्रोणी पीनोन्नतपयोधरा
परिपूंर्णेंदुसंकाशा सुस्मिताननपंकजा ।
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजिता
तप्तकांचनवर्णाभा तप्तकांचनभूषणा ।
हस्तैश्चतुर्भिः संयुक्ता कनकांबुजभूषिता
नानाविचित्ररत्नाढ्या कनकांबुजमालया ।
हारकेयूरकटकैरंगुलीयैश्च शोभिता
भुजद्वयघृतोदग्र पद्मयुग्मोपशोभिता ।
गृहीतमातुलुंगाख्य जांबूनदकराञ्चिता
एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः ।
मोदते परमे व्योम्नि शाश्वते सर्वदा प्रभुः
पार्श्वयोर्धरणी नीले समासीने शुभासने ।
अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः
विमलोत्कर्षिणी ज्ञानाक्रियायोगा तथैव च ।
प्रह्वी सत्या तथेशाना शक्तयः परमात्मनः
गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान् ।
सर्वलक्षणसंपन्ना मोदंते पतिमच्युतम्
दिव्याप्सरोगणाः पंच शतसंख्याश्च योषितः ।
अंतःपुरनिवासिन्यः सर्वाभरणभूषिताः
पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः ।
सर्वलक्षणसंपन्नाः शीतांशुसदृशाननाः
ताभिः परिवृतो राजा शुशुभे परमः पुमान् ।
अनंतविहगाधीश सेनान्याद्यैस्सुरेश्वरे
अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः ।
मोदते रमया सार्द्धं भोगैश्वर्यरतः पुमान्
एवं वैकुंठनाथोऽसौ राजते परमे पदे ।
तद्व्यूहभेदाँल्लोकांश्च वक्ष्यामि गिरिजे शुभे
प्राच्यां वैकुंठलोकस्य वासुदेवस्य मंदिरम् ।
आग्नेय्यां लक्ष्म्यालोकस्तु याम्यां संकर्षणालयः
सारस्वतस्तु नैरृत्या प्राद्युम्नः पश्चिमे तथा ।
रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः
ऐशान्यां शांतिलोकः स्यात्प्रथमावरणं स्मृतम् ।
केशवादिचतुर्विंशत्यमी लोकास्ततः क्रमात्
द्वितीयावरणं प्रोक्तं वैकुंठस्य शुभाह्वयम् ।
मत्स्यकूर्मादिलोकास्तु तृतीयावरणं शुभम्
सत्याच्युतानंत दुर्गा विष्वक्सेन गजाननाः ।
शंखपद्मनिधीलोकाश्चतुर्थावरणं शुभम्
ऋग्यजुः सामाथर्वाणो लोका दिक्षु महत्सु च ।
सावित्र्या विहगेशस्य धर्मस्य च मखस्य च
पंचमावरणं प्रोक्तमक्षयं सर्ववाङ्मयम् ।
शंखचक्रगदापद्मखड्गशार्ङ्गहलं तथा
मौशलं च तथा लोकाः सर्वशस्त्रास्त्रसंयुताः ।
षष्ठमावरणं प्रोक्तं मंत्रास्त्रमयमक्षरम्
ऐंद्र पावकयाम्यानि नैरृतं वारुणं तथा ।
वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम्
साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च ।
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः
ते वै प्राकृतलोकेस्मिन्न नित्यास्त्रिदशेश्वराः ।
ते ह नाकं महिमानः सचंत इति वै श्रुतिः
एवं परं पदं नित्यैर्मुक्तैर्भोगपरायणैः ।
दिव्याभिर्महिषीभिश्च राजते विभुरीश्वरः
न तद्भासयते सूर्यो न शंशांको न पावकः ।
यद्गत्वा न निवर्त्तंते योगिनः संशितव्रताः
द्वयैकमंत्रनिष्ठा ये ते वै यांति तदव्ययम् ।
न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः
न तपोभिर्निराहारैर्न च साधनकर्मभिः ।
एकेन द्वयमंत्रेण तथा भक्त्या त्वनन्यथा
तद्गम्यं शाश्वतं स्थानं प्रपत्त्या वै सनातनम् ।
पार्वत्युवाच-
साधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो
परव्योम्नि स्थितो नित्यं कथं प्रकृतिमण्डले ।
स्थितवान्किं निमित्तेन लीलया किं प्रयोजनम्
शुद्धसत्वमये लोके संस्थितः परमेश्वरः ।
कथं रजस्तमोमिश्र विभूत्या स्थिवान्प्रभुः
रुद्र उवाच-
त्रिपाद्विभूतौ भगवानीश्वर्य्या परमेश्वरः ।
नित्यमुक्त्यैकभोग्योऽसौ मोदते सततं विभुः
तमीश्वरं महामाया प्रकृतिर्जगदाश्रया ।
कृतांजलिपुटा भूत्वा तुष्टाव परमेश्वरम्
महामायोवाच-।
नमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे ।
पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे
श्रीभूलीलाधिपतये नमो नारायणाय च ।
नमो भगवते तुभ्यं वासुदेवाय शार्ङ्गिणे
सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः ।
सहस्रमूर्तये तुभ्यमनंताय नमोस्तु ते
अच्युताय विकाराय शुद्धसत्त्वस्वरूपिणे ।
अदिमध्यांतरहित स्वरूपाय नमो नमः
नमो हिरण्यगर्भाय ज्ञानाय परमात्मने ।
सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च
ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते विश्वरूपिणे ।
नमः शुचिषदे तुभ्यं हंसाय परमाय च
संकर्षणाय रुद्राय सर्वभूतधराय च ।
हयग्रीवाय दीप्ताय कालाय हरये नमः ।
नमस्ते यज्ञपुरुष हव्यकव्यस्वरूपिणे
नमः प्रजापतये तस्मै सूर्याय शुभवर्चसे ।
अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः
नमस्ते प्रसवित्रे च सर्गस्थित्यंतहेतवे ।
नमो वेदांतवेद्याय चतुरात्मस्वरूपिणे
ब्रह्मणे विष्णवे तुभ्यं नमस्ते शंकाराय च ।
त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यंतहेतवे
निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्तिने ।
अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे
नारायणाय श्रीशाय पूर्णषाड्गुण्यमूर्त्तये ।
अनंतगुणपूर्णाय नमः सर्वार्थदायिने
नमस्ते वासुदेवाय पंचावस्थस्वरूपिणे ।
नमः पंचनवव्यूह भेदरूपाय ते नमः
नमो यज्ञवराहाय गोविंदाय नमो नमः ।
अविकाराय शुद्धाय हेयप्रतिभटाय च
नमो रामाय कृष्णाय नरसिंहाय ते नमः ।
केशवाय नमस्तुभ्यं जगतां क्लेशहारिणे
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः ।
प्रसीद देवदेवेश सर्वलोकहिताय वै
मत्संस्थाश्चेतनास्सर्वे निराधारा निराश्रयाः ।
हीनदेहा निराकाराः सर्वेन्द्रियविवर्जिताः
सर्वानुष्ठानरहिताः सततं दुःखभोगिनः ।
तेषां लोकांश्च देहांश्च दातुमर्हसि केशव
लीलाविभूतिं सर्वज्ञ यथापूर्वं प्रकल्पय ।
चेतनाचेतनं कृत्स्नं जगत्स्थावरजंगमम्
मया संमोहितं पश्य लीलार्थंपरमेश्वर ।
प्राकृताण्डं मया सार्धं सृजस्व पुरुषोत्तम
धर्म्माधर्म्मौ सुखं दुःखं तस्मिन्निक्षिप्य संसृतौ ।
मामधिष्ठाय लीलां वै कर्तुमर्हसि मा चिरम्
श्रीमहादेव उवाच-
एवमुक्तस्तया देव्या मायया परमेश्वरः ।
तस्यां निवेश्य मायायां जगत्स्रष्टुं प्रचक्रमे
योऽसौ प्रकृतिपुरुषः प्रोच्यते स इहाच्युतः ।
स एव भगवान्विष्णुः प्रकृत्यां प्रविवेश ह
असृजत्प्रकृतौ ब्रह्मभूतादिमहदाश्रयम् ।
महतः पुरुषादस्मादहंकारोऽभ्यजायत
अहंकारात्तु वै तस्माद्गुणत्रयमजायत ।
त्रिभ्यो गुणेभ्यस्तन्मात्रामसृजद्विश्वभावनः
तन्मात्रेभ्योभ्यजायंत महाभूतानि तत्क्षणात् ।
ॐकारः प्रथमं जातो ब्रह्मणस्त्रिगुणात्मनः
आकाशादभवद्वायुर्वायोरग्निरजायत ।
अग्नेरापः समुद्भूता अद्भ्यश्च पृथिवी मता
आकाशादीनि भूतानि सृष्टान्येकोत्तराणि वै ।
शब्दस्पर्शश्च रूपं च रसो गंधश्च तद्गुणाः
एकोत्तरगुणान्सृष्ट्वा तानादाय महाप्रभुः ।
तेषां विमिश्रणं कृत्वा जगदंडं महत्तरम् ।
असृजत्तत्रलान्वै संख्यया ये चतुर्दश
ब्रह्मादित्रिदशांस्तस्मिन्नसृजत्पुरुषोत्तमः ।
दैवतिर्य्यक्तथा मर्त्यं स्थावरं च चतुर्व्विधम्
तथा सृष्टो महासर्गन्तेन वै जलजेक्षणे।
तत्र कर्मानुरूपेण त्रिदशादिषु योनिषु
संस्थिताः प्रकृतौ पूर्व आत्मनः प्रभवंति हि
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे परमव्योमादिवर्णनंनाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0