भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.219

6.219.1

नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुंडरीको महामनाः ।
उवाच निजबंधुं तं शृण्वतां निजसंगिनाम्

6.219.2

पुंडरीक उवाच-
केन पुण्येन तीर्थेऽस्मिन्मृत्युर्भरत तेऽभवत् ।
यदि जानासि तद्ब्रूहि पापं विख्यातमेव ते

6.219.3

भरत उवाच-
पुंडरीक शृणुष्वेदं कथयामि तवाग्रतः ।
एतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि

6.219.4

एकदा तु धनं जित्वा समागच्छन्निजं गृहम् ।
अपश्यं मृतकं बालं मृतस्यानाथमापणे

6.219.5

निधाय तमहं मूर्ध्नि नीत्वा गंगातटे शुभे ।
वस्त्रादिभिरलंकृत्य चक्रे दाहादिसत्क्रियाम्

6.219.6

द्यूतेनोपार्ज्जितं द्रव्यं तत्सर्वं व्ययितं मया ।
तेन पुण्येन प्राप्तं मे तीर्थमेतच्छुभावहम्

6.219.7

कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकम्

6.219.8

श्रीनारद उवाच-
संस्कारे विहिते राजन्भरतः पापवानपि ।
तीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिवि ।
मासमेकं यथा विष्णुः पुंडरीकगृहे हरिः

6.219.9

उवासास्य प्रसादेन तीर्थस्य शृणु सांप्रतम् ।
अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिम् ।
दृष्ट्वेति हृदये मेने तीर्थमेतत्तु कामदम्

6.219.10

अत्रेति वांच्छया सस्नौ पुंडरीकः स पंडितः ।
माघमासं स्वरूपेण हरिर्वसतु मे गृहे

6.219.11

एवं स्नात्वा स कामेन ययौ निजगृहं प्रति ।
तीर्थेऽत्र नृपतिश्रेष्ठ पुंडरीकोऽखिलार्थदे

6.219.12

बंधुभ्यो मरणं भ्रातुर्भरतस्य जगाद ह ।
तेपि श्रुत्वा शुचं चक्रुर्माययावृतबुद्धयः

6.219.13

पुंडरीकस्तदा कुर्वन्गृहे स्वस्मिन्निजक्रियाः ।
उवासेति महानंदस्तपस्यायास्यते हरिः

6.219.14

पूर्णिमायामथो पौष्यां चक्रे स परमोत्सवम् ।
मत्वेति श्वो गृहे मह्यं हरिरायास्यति ध्रुवम्

6.219.15

श्रीखंडजलसेकेन गोमयालेपनेन च ।
मुक्ताचूर्णचतुष्केन समस्कुरुत केतनम्

6.219.16

शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयत् ।
वह्वीभिर्दक्षिणाभिश्च तानेव समतोषयत्

6.219.17

नानावादित्रकुशलैः कलकंठैश्च गायनैः ।
रजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा

6.219.18

अथ प्रभाते तान्सर्वान्गायनादीन्विसृज्य सः ।
गोविंदागमनाकांक्षी गृहमध्ये उपाविशत्

6.219.19

अथ तस्य गृहाभ्यासे निवर्त्य निजवाहनम् ।
प्राविशद्गृहमध्ये तु कर्तुं स्वजनवांछितम्

6.219.20

स पुंडरीकस्तं दृष्ट्वा माधवं समुपागतम् ।
उत्थायासनतस्तूर्णं ववंदे शिरसा नृप

6.219.21

उवाच च स धर्म्मात्मा गोविंदालोकनिर्वृतः ।
संपूज्यार्घादिदानेन विष्टरे तं निवेशितम्

6.219.22

पुंडरीक उवाच-
भवता भव तापघ्नं सुस्पष्टं तदनुष्ठितम् ।
तावदत्र त्वया विष्णो स्थीयतां स्थितिकारिणा

6.219.23

यावदस्य पुनीतस्य समाप्तिस्तपसो भवेत् ।
यत्र त्वं सेवकास्ते च वसंति परिचर्यया

6.219.24

तत्रैव खलु वैकुंठं सर्वदोषविवर्जितः ।
यद्गृहे तव कर्माणि वर्ण्यं ते साधुभिर्विभो

6.219.25

हरिर्निवसते तत्र सन्मुखादिति नः श्रुतम् ।
येषां वचसि ते नाम हृदि रूपं च सुंदरम्

6.219.26

कर्णयोश्च गुणारोपस्त एव खलु साधवः ।
भवतो भवते स्वांतं येषां शुश्रूषणे विभो

6.219.27

उत्तमांगे च निर्माल्यं त एव खलु साधवः ।
येषां तु बुद्धिः शत्रौ च मित्रे च कमलापते

6.219.28

चयापचययोश्चैव त एव खलु साधवः ।
येषां विकुरुते चेतो न विकारस्य कारणे

6.219.29

संति लक्ष्मीपते नूनं त एव खलु साधवः ।
यत्र त्वं साधवस्तत्र संतो यत्र ततो भवान् ।
भवानतो विज्ञाय तां साधुं माघे मम गृहे वस

6.219.30

नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुंडरीकस्य माधवः ।
उवाच वचनं भासादंतानां भासयन्दिशः

6.219.31

श्रीभगवानुवाच-
साधूनामुत्तमः साधुस्त्वं पृथिव्यां महामते ।
यत्त्वया पुण्यतीर्थे तु स्नातं मत्संगवांछया

6.219.32

उत्तिष्ठ जाह्नवीतोय माघे स्नानं कुरु द्विज ।
माघांते स्नापयामि त्वां पूर्णिमायां तु पुष्करे

6.219.33

प्रयागे माघमासे तु पूर्णं यत्स्नानजं फलम् ।
तत्सर्वं पुष्करे तीर्थे दिनैकस्नानतो भवेत्

6.219.34

नारद उवाच-
एवमुक्तः स विप्रेंद्रः पुंडरीको मुरारिणा ।
किंचिदभ्युदिते सूर्ये स्नानं गंगाजलेऽकरोत्

6.219.35

प्रत्यक्ष पुंडरीकाक्ष पुंडरीकः समर्चयत् ।
तुलसीविकसत्पुष्पयवकुंकुमचंदनैः

6.219.36

धूपैरगरुजैरंगवासितांगं रमापतिम् ।
नीराजयति कर्पूरदीपकैः पंचभिः स्म सः

6.219.37

चतुर्विधमयैर्भोज्यैर्भोजयित्वा जगद्गुरुम् ।
सुप्तं स मणिपर्यंके चामरैस्तमवीजयत्

6.219.38

पादसंवाहनं जातु चक्रे तस्य रमापतेः ।
जातकर्पूरसंयुक्तं ददौ तांबूलवीटकम्

6.219.39

उष्णीषं बध्नतस्तस्य श्रीपतेः पुरतस्तदा ।
तस्थौ जातु स विप्रेंद्रः करेणानीय दर्पणम्

6.219.40

एवं निजगृहे तस्य वसतः स भवच्छिदः ।
सपर्यां विदधद्विप्रो माघं निन्ये स मस्तकम्

6.219.41

अथ माघावसाने तु पूर्णिमायां रमापतेः ।
स्मृतिमात्रागतं तार्क्ष्यमपश्यत्पुरतः स्थितम्

6.219.42

तं दृष्ट्वा पुंडरीकाक्षः पुंडरीकमुवाच ह ।
श्रीभगवानुवाच-
श्रूयतां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते

6.219.43

इंद्रप्रस्थगते तीर्थे पुष्करे ते यदृच्छया ।
स्नानायते मया दत्तं यन्मासमुषितं मया

6.219.44

अद्यपक्षींद्रमारुह्य मया सह महामते ।
व्रज तीर्थशिरोरत्नं तदेव प्रति पुष्करे

6.219.45

चतुर्वर्गप्रदे तस्मिन्स्नानं कुर्वन्यदीच्छसि ।
तदहं ते प्रदास्यामि यदहं तद्वशे द्विज

6.219.46

पापोऽपि भरतस्ते वै भ्राता यत्र मृतो गतः ।
स्वर्गं स्वर्गसुखाकांक्षी किमन्यत्तस्य वर्ण्यते

6.219.47

नारद उवाच-
एवमुक्त्वा स देवेंद्रो ब्राह्मणेंद्रं नरेंद्र तम् ।
पतगेंद्रं समारोप्य सर्वतीर्थेंद्रमागमत्

6.219.48

पुंडरीकस्य देहात्तु तेन तत्प्राणवायुना ।
समं ज्योतिः स निर्गत्य गोविंदपदमाविशत्

6.219.49

एवं पुष्करतीर्थेऽस्मिन्निंद्रप्रस्थगते नृप ।
स्नानेन पुंडरीकस्तु लेभे सायुज्यमीश्वरे

6.219.50

एवं तीर्थानुरोधेन गोविंदोऽपि च तद्गृहे ।
मासमेकं सुखं राजन्नुवास निजबंधुवत्

6.219.51

केन वर्णयितुं शक्यो महिमा पुष्करस्य वै ।
शक्रप्रस्थगतस्यास्य कोट्यंशो वर्णितो मया

6.219.52

माहात्म्यश्रवणादस्य श्रद्धया लभते नरः ।
अश्वमेधक्रतुफलं पठनादपि भूपते

6.219.219

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये पुष्करमहिमावर्णनोनामैकोनविंशाधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc