भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.218

6.218.1

नारद उवाच-
भूयः शृणु महाभाग माहात्म्यं परमाद्भुतम् ।
अत्रस्थितस्य तीर्थस्य पुष्करस्य शिवप्रदम्

6.218.2

प्रसादात्तस्य तीर्थस्य विष्णुः सर्वसुरेश्वरः ।
प्रसन्नं पुंडरीकस्य मासमेकं गृहे वसेत् ।
अत्र मुक्तिं तदनुजो लेभे पापरतोऽपि हि

6.218.3

शिबिरुवाच-
कः पुंडरीको धर्मात्मा कृतं तेन च कर्म्म किम् ।
येन प्रसन्नो भगवांस्तद्गृहे मासमावसत्

6.218.4

कथं तदनुजः प्राप पापात्मा श्रीहरेः पदम् ।
तीर्थस्यास्य प्रसादेन सर्वमाख्याहि मे मुने

6.218.5

शृण्वतोऽस्य न संतोषो माहात्म्यं मम जायते

6.218.6

नारद उवाच-
विदर्भनगरे राजन्मालवाख्ये महायशाः ।
ब्राह्मणो ब्रह्मविच्छांतो विद्वान्विष्णुपरायणः

6.218.7

देवर्षिपितृभूतानां मानुषाणां च पोषकः ।
विषयेषु न संसक्तो लोभमोहादिवर्जितः

6.218.8

स एकदा महाभाग सिंहं प्राप्ते बृहस्पतौ ।
गोदावरीं महापुण्यां स्नातुं प्रतिजगाम ह

6.218.9

दातुं तत्र सुवर्णस्य गृहान्निन्ये पलायुतम् ।
गच्छन्पथि स धर्मात्मा मनसैतदचिंतयत्

6.218.10

मालव उवाच-
गृहाद्दानार्थमानीतं मया हेमपलायुतम् ।
यस्मै कस्मै न दातव्यं दातव्यं पूज्य साधवे

6.218.11

निष्किंचनाय विप्राय पात्रायानुपकारिणे ।
पूज्याय देशे काले च दत्तमक्षयतां व्रजेत्

6.218.12

उञ्छवृत्त्या समानीतं दत्त्वा दुर्वाससे मुनिः ।
शिलोंच्छवृत्तिर्धर्मात्मा स्वं त्यक्त्वा गात्परं पदम्

6.218.13

दानवेंद्रो बली राजा पात्रं विज्ञाय वामनम् ।
विपक्षायाप्यदात्तस्मै त्रिलोकीं स्वभुजार्जिताम्

6.218.14

तस्मात्पात्राय दातव्यं धनं धर्म्माजितं मया ।
गोविंदतुष्टये सम्यक्वांच्छनीयं न तत्फलम्

6.218.15

पुंडरीकस्तु धर्मात्मा भागिनेयो गजाह्वयात् ।
आयास्यति मयाहूतः सर्वपात्रशिरोमणिः

6.218.16

आनीतस्य धनस्यार्द्धं तस्मै पात्राय सूनवे ।
स्वसुर्द्दास्यामि शेषं तु श्रोत्रियेभ्यो यथाविधि

6.218.17

नारद उवाच-
एवं विचिंत्य धर्मात्मा मालवं स द्विजोत्तमः ।
कतिचिद्वासरैः प्राप्तः पुण्यां गोदावरीं नृप

6.218.18

मिलितस्तस्य धर्मात्मा पुंडरीकः स्वसुः सुतः ।
तस्य वै पूर्वमायातो मालवस्य महीपते

6.218.19

स तत्र विधिना स्नात्वा सिंहसंक्रमवासरे ।
पुंडरीकाय वित्तार्द्धं ददौ मे प्रीयतां हरिः

6.218.20

पुंडरीकोऽपि धर्मात्मा स्नात्वा गोदावरीजले ।
स्ववित्तस्य चतुर्थांशं श्रोत्रियेभ्यो ददौ मुदा

6.218.21

स तत्र विधिवत्स्नात्त्वा दत्वा दानं च शक्तितः ।
गच्छंतं स्वगृहान्राजन्नित्युवाच स्वसुः सुतम्

6.218.22

मालव उवाच-
गुरून्प्रति नमस्कारो वाच्यो आशीर्लघून्प्रति ।
यथावयोर्हि संयोगः क्षणिकोऽयं बभूव ह

6.218.23

एवं हि सर्वजंतूनां पुत्रदारादिभिः सह ।
तस्मात्क्षणिकसंयोगात्संसाराद्यः सुधीर्नरः

6.218.24

विरज्येत कृपापात्रं स हरे स्याद्विनिश्चितम् ।
कृपातः श्रीहरेः प्राणी सत्संगमरतो भवेत्

6.218.25

तस्तस्य हरेर्लीलाश्रवणेच्छा हि जायते ।
श्रुत्वा च कीर्तिता सद्भिर्हरिलीला अपि स्वयम्

6.218.26

सुस्पृहं कीर्त्तयत्येव ततः स्मरति केवलम् ।
ततस्तस्य भवेत्प्रेमगोविंदपदसेवने

6.218.27

नरस्ततस्तरत्याशु पोतेनेव महार्णवम् ।
एतदर्थं हि साधूनां ज्ञानिनां कर्मणां तथा ।
यत्नो भवति धर्मात्मन्नपि त्वं यत्नवान्भव

6.218.28

नारद उवाच-
एवमुक्त्वा स वैदर्भः सुतं कथमपि स्वसुः ।
विसृज्याश्रुमुखो वाष्पपर्याकुलदृशं ययौ

6.218.29

पुंडरीकोऽपि धर्मात्मा चचाल स्वगृहं प्रति ।
कतिभिर्वासरै राजन्नागतोऽत्र शुभास्पदे

6.218.30

भरताख्यं कनीयांसं भ्रातरं पतितं भुवि ।
श्वसंतं क्षतनिर्गच्छद्रुधिराक्तमवैक्षत

6.218.31

पप्रच्छ च रुदन्नुर्च्च्भ्रातः केनेदृशीं दशाम् ।
गमितोसि किमर्थं वा गृहादिह समागतः

6.218.32

इति पृच्छति राजेंद्र पुंडरीके सपीडया ।
महत्या भरतः सद्यः पीडितोसूनमुंचत

6.218.33

अवातरत्तदा यानमेकं सगणमद्भुतम् ।
आकाशात्पश्यतां भूप जनानां तद्गुरोरपि

6.218.34

तदारुह्य स दिव्यांगो भरतः पापकार्यपि ।
उवाच वचनं ज्येष्ठं भ्रातरं विनमन्निदम्

6.218.35

भरतोवाच-
पुंडरीक महाबुद्धे तीर्थस्यास्य प्रसादतः ।
पुष्करस्य मया प्राप्ता पापिनापि दिवि स्थितिः

6.218.36

मदीयं दारुणं कर्म भ्रातर्जानासि यद्यपि ।
तथापि कथयाम्यद्य किंचिदज्ञातमस्ति ते

6.218.37

यथा मया प्रभावत्या वेश्यया रमितं सह ।
तद्गृहं व्ययितं भूरि धनं च मदिराकृते

6.218.38

द्यूतेन हारितं यच्च चौरकर्मसमार्जितम् ।
शिवरात्र्यां मया शंभुनिर्माल्यं यच्च भक्षितम्

6.218.39

यत्कृते भवता विप्रो जेबुको नाम दूषितः ।
एतन्मया कृतं कर्म्म विदितं पुंडरीक ते

6.218.40

गोदावरीं गते भ्रातस्त्वयि यत्कृतवानहं ।
न तत्ते विदितं कर्म कथयामि तदप्यहो

6.218.41

चलितेत्वय्यतिक्रांतोयदापक्षस्तदाह्यहम् ।
श्रुतवानिति लोकेभ्यो वचनं हरिदुःसहम्

6.218.42

पुंडरीको धनं दातुमाहूतो मातुलेन हि ।
निजसोदरमाहत्य पुंडरीकं तदा हृतम्

6.218.43

गृहीष्यामि धनं भूरि मालवेन समर्पितम् ।
महता वसुना तेन तोषयामि प्रभावतीम्

6.218.44

दुरोदरेण क्रीडामि स्वेच्छया तद्विदैः सह ।
इत्यालोच्य त्वदध्वानं निरुध्याहमिह स्थितः

6.218.45

हत्वा त्वां च धनं भूरि गृहीतुं च महामते ।
अतिक्रांते धने भ्रातः कुतश्चित्सार्थमागतः

6.218.46

वणिजामत्र सुप्तोऽहं रात्रौ तत्र महामते ।
अथ कश्चिन्निशीथे तु तस्करो वणिजां धनम्

6.218.47

हर्तुं तत्र समाविष्टः सार्थे जनसमाकुले ।
नीत्वा यदा धनं किंचित्स चौरस्तु पलायितः ।
तमन्वधावन्सहसा क्रोशंत इव सेवकाः

6.218.48

सेवका ऊचुः ।
गृह्यतां गृह्यतामेष चौरोऽयं याति सत्वरम् ।
मध्याद्बहूनामस्माकमपहृत्य धनं बहु

6.218.49

भरत उवाच-
इत्याकर्ण्य वचस्तेषां पुरतस्तु तमन्वहम् ।
अधावं सहसा भ्रातस्तद्गृहीतुं जिहीर्षया

6.218.50

ततस्ते वणिजां भृत्या ज्ञात्वा मां तस्य रक्षकम् ।
प्रजहुस्तरसा सर्वे सखड्गं खड्गपाणयः

6.218.51

तेषु कश्चिद्द्विजश्रेष्ठो ब्राह्मणोऽहमिति ब्रुवन् ।
खड्गेन शितधारेण मया पापीयसा हतः

6.218.52

वणिजां सेवकैस्तैस्तु खड्गधारैरहं हतः ।
गतास्ते वणिजः प्रातर्निजगंतव्यनीवृतम्

6.218.53

ततो भवानिह प्राप्तः श्वसंतं मां ददर्श ह ।
चलद्रुधिरलिप्तांगं पीडामोहविचेतनम्

6.218.54

इत्येतत्कथितं भ्रातर्यदर्थमहमागतः ।
अपमृत्युं यथा प्राप्तस्तच्चापि कथितं मया

6.218.218

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कालिंदीमाहात्म्येऽष्टादशाधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc