भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · श्लोक 6.21-2

6.21-2.1

एकविंशोऽध्याय
नारद उवाच-
सगरस्यात्मजावीराः कथं जाता महाबलाः
विक्रांताः षष्टिसाहस्रा विज्ञानेश्वर तद्वद

6.21-2.2

श्रीपार्वतीपतिरुवाच-
द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे
और्वस्ताभ्यां वरं प्रादात्तोषितो मुनिसत्तमः

6.21-2.3

षष्टिंपुत्रसहस्राणि एका वव्रे तरस्विनाम्
एका वंशधरं त्वेकं यथेष्टं वरशालिनी

6.21-2.4

तत्रैका सुषुवे तुंब्यां पुत्रान्शूरान्बहूनथ
ते तु सर्वेऽपि धात्रीभिर्वर्द्धितास्तु यथाक्रमम्

6.21-2.5

कपिलानां तु दुग्धानां तेषां तत्र महात्मनाम्

6.21-2.6

तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः
एकः पंचजनो नाम पुत्रो राजा बभूव ह

6.21-2.7

ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान्
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः

6.21-2.8

यस्तु गंगासरिच्छ्रेष्ठामानयामास सुव्रतः
समुद्र मानयित्वैनां दुहितृत्वमकल्पयत्

6.21-2.9

नारदौवाच-
कथं गंगा समानीता किं तपस्तेन वै कृतम्
तत्सर्वं मे समाचक्ष्व सुव्रतोऽसि दयानिधे

6.21-2.10

महादेव उवाच-
पूर्वजानां हितार्थाय गतोऽसौ हैमके गिरौ
तत्र गत्वा तपस्तप्तं वर्षाणामयुतं तदा

6.21-2.11

आदिदेवः प्रसन्नोऽभूद्योऽसौ देवो निरंजनः
तेन दत्ता इयं गंगा आकाशात्समुपस्थिता

6.21-2.12

तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः
गंगां दृष्ट्वाऽगतां तेन गृहीता जाह्नवी तदा

6.21-2.13

जटाजूटे च संधार्य वर्षाणामयुतं स्थितम्
न निःसृता तदा गंगा ईशस्यैव प्रभावतः

6.21-2.14

विचारितं तदा तेन क्व गता मम मातृका
स ध्यानेन विचार्यैवं गृहीता चेश्वरेण तु

6.21-2.15

ततः कैलासमगमत्स तु भगीरथो नृपः
तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः

6.21-2.16

आराधितस्तदा तेन दत्तवानहमापगाम्
एकं केशं परित्यज्य दत्ता त्रिपथगा तदा

6.21-2.17

स गृहीत्वा गतो गंगां पाताले यत्र पूर्वजाः
अलकनंदा तदा नाम गंगायाः प्रथमं स्मृतम्

6.21-2.18

हरिद्वारे यदायाता विष्णुपादोदकी तदा
तदेव तीर्थं प्रवरं देवानामपि दुर्ल्लभम्

6.21-2.19

तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः
प्रदक्षिणं ये कुर्वंति न चैते दुःखभागिनः

6.21-2.20

ब्रह्महत्यादि पापानां राशयः संत्यनेकशः
विलयं यांति ते सर्वे हरेर्दर्शनतः सदा

6.21-2.21

एकदा केशवस्थाने हरिद्वारे ह्यहं गतः
तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान्

6.21-2.22

ये गच्छंति नरश्रेष्ठास्ते वै यांति ह्यनामयम्
चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः

6.21-2.23

वैकुंठं यांति ते सर्वे हरेर्दर्शनमात्रतः
ममाप्यधिक तीर्थं तु हरिद्वारं सुशोभनम्

6.21-2.24

तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम्
कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा

6.21-2.25

यत्र गंगा महारम्या नित्यं वहति निर्मला
एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम्

6.21-2.26

उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम्
अश्वमेधे कृते यागे गोसहस्रे तथैव च

6.21-2.27

तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः
गोहंता ब्रह्महा चैव ये चान्ये पितृघातकाः

6.21-2.28

एवंविधानि पापानि बहून्यपि च वै द्विज
विलयं यांति सर्वाणि हरेर्दर्शनमात्रतः

6.21-2.21

इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापति नारद संवादेहरिद्वार माहात्म्ये गंगोत्पत्तिपूर्वकं हरिद्वारमाहात्म्यं नाम
एकविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc