भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.201

6.201.1

नारद उचाव-
अथावरुह्य तौ वृक्षात्पितृपुत्रौ सुविस्मितौ ।
दृष्ट्वा हरिपदप्राप्तिमभूतां पापिनोरपि

6.201.2

शिवशर्माथ विप्रेंद्रः श्रुत्वा तीर्थस्तुतिं तदा ।
गणोक्तां विष्णुशर्माणमुवाच सुतमात्मनः

6.201.3

शिवशर्मोवाच-
यत्पदं न सुलभं द्विजन्मनां साधितेन तपसापि लीलया ।
प्रापतुः शबरदंष्ट्रिणौ च तत्तीर्थराजमहिमा विलोक्य ताम्

6.201.4

जन्मनः प्रभृति तावदामृतेः पापिनावपि च यत्प्रभावतः ।
जग्मतुः सुत हरेः सरूपतामस्य तीर्थवृषभस्य का स्तुतिः

6.201.5

शुद्धसत्वमपि रूपमैश्वरं क्वाम्बुजन्मजनिदेवदुर्ल्लभम् ।
तामसौ क्व मृगनाथभिल्लकौ किं तु तीर्थमिदमद्भुतक्रियम्

6.201.6

तात भो पतति वेधसः पदात्जंतुरंतमधिगम्य कर्मणाम् ।
अत्र देवगुरुनिर्मिते मृतिं प्राप्य माधवपदान्न विच्युतिः

6.201.7

नारद उवाच-
एवं प्रत्यक्षमालोक्य माहात्म्यं स द्विजोत्तमः ।
तीर्थस्यास्य गुरो राजन्स्नातुं तत्र प्रचक्रमे

6.201.8

मुख दंत पदानां सः कृत्वा शुद्धिं च चेतसः ।
पंचकच्छः शिखाबंधोपग्रही माधवं स्मरन्

6.201.9

अश्वक्रांतेति श्लोकेन पाठेन तटमृत्तिकाम् ।
स्पृशंस्तयैव विदधत्तिलकं जलमाविशत्

6.201.10

तत्र प्रवाहाभिमुखो निमज्जन्पुनरुत्थितः ।
पुनर्मग्नो हरिं स्मृत्वा गंगां च जनपावनीम्

6.201.11

अयोध्याद्यापुरीः सप्त पुनरुत्थाय संस्मरन् ।
पुनर्ममज्ज सलिले गोविंदार्पितमानसः

6.201.12

कृत्वा यथाविधिस्नानं धौतवस्त्रे च पर्यधात् ।
बहिरागत्य तिलकं चक्रे च द्विजसत्तमः

6.201.13

करपादशिखासूत्रैर्दर्भांश्च विदधद्वशी ।
संध्यां चकार विधिवत्तर्पणं त्रिविधं तथा

6.201.14

सूर्याय कुसुमैर्दत्त्वा स जलैरर्घमादृतः ।
शिरोबद्धांजलिपुटो नमश्चक्रे द्विजोत्तमः

6.201.15

आवाहनादि नैवेद्यपर्यंतमथ विप्रराट् ।
जगत्पूज्यपदाब्जस्य विष्णोः पूजामचीकरत्

6.201.16

कृतक्रियः सूपविष्टः तादृशं सुतमात्मनः ।
जगाद संस्मरन्पूर्वजन्मकर्मणि कृत्स्नशः

6.201.17

शिवशर्मोवाच-
विष्णुशर्मन्न ते मिथ्या वाक्यं तात यतः स्मृतिः ।
अत्र स्नानेन मे जाता पूर्वेषां जन्मकर्मणाम्

6.201.18

आकर्णय माहाभाग कथयामि तवाग्रतः ।
पुराहमन्वये जातो विशां धनिकधर्मिणाम्

6.201.19

पिता मे शरभो नाम्ना कान्यकुब्जे पुरेऽवसन् ।
वाणिज्येनार्जयन्वित्तं भूरिधर्मधनाश्रितः

6.201.20

व्यतीतस्तु महान्कालस्तस्य नाभवदात्मजः ।
जरागृहीतदेहस्य तच्चिंतातुरचेतसः

6.201.21

अचिंतयदहोरात्रमिति वैश्यवरस्तदा ।
विना सुतेन मे व्यर्थं धनं भूर्यपि संचितम्

6.201.22

ऋते सुतमृणीलोके पितॄणां धनवानपि ।
सजलोऽपि विना वर्षं चातकानां यथा घनः

6.201.23

पुमान्जयति संतत्या विश्वं धर्मधुरीणया ।
शक्त्या त्रिविधया राजा विपक्षमिव दुर्जयम्

6.201.24

प्रीणाति संततिः शुद्धा सुमनः पितृमानवान् ।
मित्रप्रत्यर्थ्यु यदासीनान्सूनृता वाग्यथेरिता

6.201.25

उदयस्थेन पुत्रेण वर्द्धते स्वयशः पितुः ।
निर्मलं द्विजराजेन नीरं तीरनिधेरिव

6.201.26

तस्माद्यतेत्सुतोत्पत्यै शरीरेण धनेन वा ।
तमृते हि द्वयं व्यर्थं जनानां तडिदायुषाम्

6.201.27

एवं चिंतयतस्तस्य गृहे मुनिवरस्तदा ।
देवलोऽतीद्रियज्ञानो वरं दातुं समाययौ

6.201.28

आगतं तं समालोक्य प्रत्युत्थायासनात्पिता ।
दत्त्वार्घमथ पाद्यं च ववंदे शिरसा मुनिम्

6.201.29

उपवेश्यासने दत्ते स्वहस्तेन पिता मम ।
पप्रच्छ च मुनिश्रेष्ठं देवलं देवदर्शनम्

6.201.30

स्वागतं तु मुनिश्रेष्ठ शमस्ति भवतां कुले ।
तपः स्वाध्यायनियमा निष्प्रत्यूहा भवंति च

6.201.31

काले चातिथयः कच्चिदायांति भवदाश्रमे ।
कच्चिदाश्रमवृक्षा वः फलंति मनसेप्सितम्

6.201.32

व्याघ्रादयो न कुर्वंति कच्चिद्वैरं मृगादिभिः ।
त्वदीयाश्रममभ्येत्य भ्रातरो भ्रातृभिर्यथा

6.201.33

तवाटनं भुवि मुदे गृहिणामन्यथा कथम् ।
तेषां गृहाधिमग्नानां दर्शनं क्व भवादृशः

6.201.34

हरिपादरजोबुद्धेः कामं कामो न कुत्रचित् ।
मुने तव तथाप्याशु हेतुमागमने वद

6.201.35

शिवशर्मोवाच-
इत्युक्तस्तेन स मुनिर्देवलो देवपूजितः ।
अब्रवीत्तन्मनोभावं ज्ञातुकामो विशांपतिम्

6.201.36

देवल उवाच-
वैश्यवर्य त्वया भूरि धनं धर्मेण संचितम् ।
करोषि येन धर्मज्ञ नित्यनैमित्तिकी क्रियाः

6.201.37

आदरं राजसदसि धनेन लभते नरः ।
सुभटः शत्रुसंग्रामे विक्रमेण यथा जयम्

6.201.38

गृहस्थस्तु धनं प्राप्य परां पुष्टिं व्रजत्यलम् ।
शरत्परिणतं सस्यमनड्वानिव विश्पते

6.201.39

धनिनां न विमुंचंति बंधवोऽन्ये च ये जनाः ।
मधुमत्सुमनो युक्तं पादपं मधुपा इव

6.201.40

धनाभावेन गृहिणां कृशत्वमुपजायते ।
सर्वतो ग्रीष्मसमये नभसां सरसामिव

6.201.41

तद्धनं वर्त्तते भूरि गृहे तव विशांपते ।
कुतः कृशत्वमंगानां गोप्यं चेन्न वदाद्य मे

6.201.42

वैश्य उवाच-
हितोपदेशविरता भवंतः पितरो यथा ।
गोपनीयं भवद्भ्यः किं मादृशैः पुत्रतां गतैः

6.201.43

त्वत्प्रसादान्मुनिश्रेष्ठ सर्वतोऽस्ति शिवं मम ।
वार्द्धकेपि सुताभावो दुःखमेकमिदं मम

6.201.44

तस्मात्कृशत्वमंगानां विद्धि मे मुनिपुंगव ।
बिभेम्यहं पितृऋणाद्यतोऽधः पतनं नृणाम्

6.201.45

तमुपायं कुरु मुने येन स्यां सुतवानहम् ।
किंचित्कर्तुमशक्यं न भूतलेऽत्र भवादृशैः

6.201.46

शिवशर्मोवाच-
इत्याकर्ण्य वचस्तस्य वैश्यवर्यस्य देवलः ।
मनः क्षणं स्थिरं कृत्वा दध्यौ मीलितलोचनः

6.201.47

संततेर्मत्पितुर्दृष्ट्वा प्रतिबंधस्य कारणम् ।
देवलोतींद्रियज्ञानी बभाषे कारयन्स्मृतिम्

6.201.48

देवल उवाच-
एकदा तु पुरा वैश्य तवेयं धर्मचारिणी ।
यं चकार स्वचित्ते तं कथयामि मनोरथम्

6.201.49

गुर्विणी यद्यहं गौरि भवेऽहं शंभुवल्लभे ।
तदा त्वां तोषयिष्यामि षड्रसान्वितभोजनैः

6.201.50

धूपदीपकमालाभिस्तांबूलैर्नृत्यबाधकैः ।
तंत्रीमुखोद्गतैर्गीतैर्नानाविधविलेपनैः

6.201.51

एवं प्रतिश्रुत्य पुरः सखीनां दयिता तव ।
प्रतीक्षमाणा तं कालं तस्थौ तद्भक्तिसंयुता

6.201.52

तस्मिन्नेवाभवद्गर्भो मासेऽस्या योषितस्तव ।
ऊचुरेनां ततः सख्यः सर्वाः सस्नेहचेतसः

6.201.53

यस्त्वया वांछितो गर्भो गौर्या संप्रतिपादितः ।
अतः प्रतिश्रुतं देव्याः पूजनं सुभगे कुरु

6.201.54

नोचेद्विकाराद्भवति विघ्नं तु तदनुष्ठितात् ।
तोषिता रोषिताश्चात्र देव्यो हि वरशापदाः

6.201.55

सखीभिरिति ते भार्या कथितेयं मुदान्विता ।
त्वामुवाच महाभागा विनयेन पतिव्रता

6.201.56

नाथ पूजयितुं गौरीं वांछाम्यखिलकामदाम् ।
यत्प्रसादादहं याता वांछितार्थवती प्रभो

6.201.57

वैश्यवर्य त्वमेवैतच्छ्रुत्वास्या वचनं शुभम् ।
अमन्यत गर्भवतीमेनां निजगृहेश्वरीम्

6.201.58

परमोत्सवया मोदमानः सद्यो भवानपि ।
भृत्यानाज्ञापयामास पूजावस्तूपपादने

6.201.59

तैरानाय्य समस्तानि वस्तूनि भवता ततः ।
अस्यै दत्तानि मध्वन्न द्राक्षा गंधादिकान्यपि

6.201.60

ततो निजसखीः सर्वा आहूयेदमिदं जगौ ।
सख्यः समस्ताः सामग्री समानीतांबिकार्चने

6.201.61

नीत्वा पूजोपकरणं यूयं यातांबिकालयम् ।
संतोषयत तां देवीं पूजया विधिदृष्टया

6.201.62

गुर्विणीति कुलेऽस्माकं न निर्याति गृहाद्बहिः ।
अतोऽहं नागमिष्यामि यूयं यात तदर्चने

6.201.63

इत्याज्ञप्तास्तु ताः सख्यो नीत्वोपकरणं ययुः ।
अंबिकालयमुन्मत्तभ्रमद्भ्रमरकेतनम्

6.201.64

कोकिलाकुलसंकेलि सहकारकुलाकुलम् ।
हंससारसचक्राह्वमंडितं स्वच्छसारसम्

6.201.65

महादेवगुणालापि शुकसारिसमावृतम् ।
हारपूरालतासेके तत्परो मा सखीधरम्

6.201.66

उमापतेरुमापादन्यासपूतमहीतलम् ।
स्फटिकोपलसंबद्ध जलाधारसुरद्रुमम्

6.201.67

पार्वतीपतिसंनाट्य गायद्गंधर्वनादितम् ।
मन्दानिलमनाग्धूत चूतचंपककोरकम्

6.201.68

नृत्यन्मयूरनिर्ह्राद प्रतिनादिलतागृहम् ।
तल्लीलाचलविद्योतमानं रत्नलसत्प्रभम्

6.201.69

तत्र गत्वा गिरिसुतां प्रणेमुस्ताः सभर्तृकाः ।
प्रदक्षिणीकृत्य ततो भक्त्या तां च बभाषिरे

6.201.70

जगदंबे नमतुभ्यं शन्नो देहि शिवप्रिये ।
त्वत्पूजार्थे समानीतो बलिरेष प्रगृह्यताम्

6.201.71

वैश्यस्तु शरभो नाम्ना तस्यास्ति ललितांगना ।
तयाभिलषितो गर्भस्तत्प्राप्तौ तव पूजनम्

6.201.72

त्वत्प्रसादादभूत्तस्याः स गर्भः शंभुवल्लभे ।
त्वत्पूजनाय प्रहितो बलिरस्माभिरेषकः

6.201.73

तस्याः कुले गर्भवती न निरेति बहिर्गृहात् ।
अतः सा नागता देवि प्रसीदैन गृहाण वै

6.201.74

इत्युक्त्वा तां तदा वैश्य त्वत्स्त्रीसख्यस्तु तं बलिम् ।
समर्पयित्वा विधिवदानर्चुश्चंदनादिभिः

6.201.75

प्रतिवाक्यमलब्ध्वा ता गौर्या प्रत्याययुर्गृहम् ।
निजसख्यै समाचख्युर्विषण्णां तां शिवप्रियाम्

6.201.76

तासामाकर्ण्य वचनमिति वैश्य तवाबला ।
उन्मनाश्चिंतयामास कुतो गौरीनपि प्रिये

6.201.77

सा जानाति यथा भक्तिस्तत्पूजाया कृता मया ।
तादृशीनां किमज्ञातं बाह्यं चाभ्यंतरं नृणाम्

6.201.78

न गताहं यतस्तत्र तज्जानात्यपि कारणम् ।
मया दत्तेन बलिना कुतः सा न तुतोष वै

6.201.79

नाहमन्यत्प्रजानामि तदतोषे हि कारणम् ।
ऋते मदगतेस्तत्र नूनं रम्ये तदालये

6.201.80

यदतीतं न तच्छक्यमन्यथाकर्तुमद्य वै ।
गर्भान्मुक्ता गमिष्यामि तत्पूजायै तदालये

6.201.81

नमस्तस्यै महादेव भार्यायै सा करोतु शम् ।
इत्युक्त्वा दधती गर्भं तस्थौ वैश्य तवांगना

6.201.82

शिवशर्मोवाच-
विष्णुशर्मन्निदं पूर्ववृत्तमाज्ञाय मत्पिता ।
पप्रच्छ मुनिशार्दूलं देवलं ज्ञानवत्तरम्

6.201.83

वैश्य उवाच-
मुने यथा प्रतिश्रुता पूजा ते स्नुषया तया ।
तथैवाकारि पार्वत्या विषादे कारणं वद

6.201.84

यतोऽसौ न गता तत्र तज्जानाति शिवास्वतः ।
सखीभ्यश्चोक्तमस्यास्तद्विषण्णा सा कुतोभवत्

6.201.85

देवल उवाच-।
वैश्यवर्य शृणुष्वेदं कारणं कथयामि ते ।
यतस्तस्या विषादोऽभूत्पार्वत्या गर्भनाशकः

6.201.86

निवृत्तासु सखीष्वस्याः संपूज्य स्कंदमातरम् ।
विजया पार्वतीं प्राह कौतूहलसमन्विता

6.201.87

विजयोवाच-
गिरिजे श्रद्धया तुभ्यं दत्तोमूभिरयं बलि ।
मानुषीभिः कुतः प्रीता नाभवस्त्वं वरानने

6.201.88

धूपदीपकनैवेद्यैः पूजिता तोषहेतवे ।
प्रत्युताकारणं देवि त्वं विषादं कुतो गता

6.201.89

देवल उवाच-
इत्याकर्ण्य वचः सख्या देवी देववरार्चिता ।
अब्रवीद्विजयां वैश्य विषादे कारणं सखीम्

6.201.90

पार्वत्युवाच-
विजये सखि जानामि वैश्यभार्या गृहाद्बहिः ।
निर्गंतुमक्षमां गर्भधारणास्वविवेकतः

6.201.91

समागतास्तु तत्सख्यो मत्पूजायै तदीरिताः ।
मादृशो न च गृह्णंति परहस्तकृतं बलिम्

6.201.92

तत्पतिश्चेत्समायास्यदभविष्यत्तदा शिवम् ।
तस्यास्तु मदवज्ञातो गर्भपातो भविष्यति

6.201.93

यद्व्रतं पूजनं यच्च कर्तुं न क्षमतेंगना ।
तत्कारयति नाथेन न भंगः स्यात्तयोःसखि

6.201.94

अथवा विप्रमुख्येन पृष्ट्वा पतिमनन्यधीः ।
यतः स्वयमनागत्य तत्कृतं मे तयार्चनम्

6.201.95

न कारितं च भर्त्रातो भविता दोहदोऽफलः ।
यद्युभौ तौ समागत्य दंपती श्रद्धया पुनः

6.201.96

मां पूजयिष्यतः पुत्रो भविष्यति तदा तयोः ।
देवल उवाच-
सशापो न त्वया वैश्य न चैव तव भार्यया

6.201.97

श्रुतः सखीभिरस्या नो प्रसादश्च तयार्पितः ।
तयोरज्ञानतो वैश्य युवयोर्नाभवत्सुतः

6.201.98

अजानतो प्रतिविधिं परत्रात्र सुखप्रदम् ।
एतत्ते कथितं वैश्य संतानाभावकारणम्

6.201.99

वसिष्ठेन यथापूर्वं दिलीपस्य महीपतेः ।
तच्छ्रुत्वा स यथा राजा नंदिनीं समतोषयत्

6.201.100

सस्त्रीकस्त्वं तथा वैश्य गौरिं तोषय कामदाम् ।
सा यथाराधिता राज्ञे दिलीपाय ददौ सुतम्

6.201.101

आराधय तथा गौरीं त्वं सा तुभ्यं च दास्यति ।
वैश्य उवाच-
दिलीप इति भूपः कः का च सा नंदिनी मुने

6.201.102

यामाराध्यसुतंलेभेसभूयोभूपसत्तमः ।
महेशादिसुरान्मुक्त्वा त्रिवर्णफलदायिनः

6.201.103

आराधिता कुतः सैव सुतार्थं तेन भूभुजा ।
एतत्सर्वं समाख्याहि मुने यत्पृष्टवानहम् ।
श्रुत्वा ततो गिरिसुतां सेविष्ये सह भार्यया

6.201.104

शिवशर्मोवाच-
गदितमिति निशम्य विष्णुशर्मन्विनययुतेन विशा मदीय पित्रा ।
मुनिरिति गदितुं दिलीपवृत्तं जगति पवित्रतरं विचक्रमे सः

6.201.201

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदी।
माहात्म्ये एकाधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc