भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.20

6.20.1

श्रीमहादेवौवाच-
हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम ।
यत्र गंगा वहत्येव तत्रोक्तं तीर्थमुत्तमम्

6.20.2

यत्र देवा वसंतीह ऋषयो मनवस्तथा ।
यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः

6.20.3

पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा ।
यस्य दर्शनमात्रेण दूरतो याति पातकम्

6.20.4

यत्र गंगा महारम्या जाता पुण्य विशेषतः ।
विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः

6.20.5

भगीरथेन भो विद्वन्नानीता तत्र मार्गतः ।
उद्धारः पूर्वजानां तु कृतस्तेन महात्मना

6.20.6

नारदौवाच-
कोऽयं देव समाख्यातो भगीरथ महातपाः ।
येन तीर्थं समानीतं लोकानां हितकारणात्

6.20.7

गंगातीर्थं महत्पुण्यं सर्वपापप्रणाशनम् ।
लोकाः सर्वे वदंत्येवमेतत्तीर्थोत्तमोत्तमम्

6.20.8

गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

6.20.9

कथं तेन समानीता किं कार्यं वद सुव्रत ।
महादेव उवाच-
येन गंगा यथानीता गंगाद्वारेऽतिशोभने

6.20.10

तत्सर्वं संप्रवक्ष्यामि क्रमानुक्रमयोगतः ।
पूर्वमासीद्धरिश्चंद्रस्त्रैलोक्ये सत्यपालकः

6.20.11

रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः ।
तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः

6.20.12

तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा ।
तस्य पुत्रो गरो नाम नात्यंतं धार्मिकोऽभवत्

6.20.13

कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात् ।
राजा तु तत्र देशेन तर्जितो धर्मकारणात्

6.20.14

स्वकुटुंबं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे ।
रक्षितो भार्गवेणाथ कृपया तत्र वै तदा

6.20.15

तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज ।
ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः

6.20.16

उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम् ।
शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च

6.20.17

आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः ।
जघान पृथिवीं गत्वा तालजंघान्सहैहयान्

6.20.18

सशकान् पारदांश्चैव जघान स महातपाः ।
नारद उवाच-
माहात्म्यं सगरस्याथ वद शंकर विस्तरात्

6.20.19

महादेव उवाच-
सूर्यवंशी महाराजो विख्यातः स महाबली ।
गरस्य व्यसने तात हृतं राज्यमभूत्किल

6.20.20

हैहयैस्तालजंघाद्यैः शकैः सार्द्धं च नारद ।
यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा

6.20.21

एते पंचगणा ब्रह्मन्हैहयार्थे पराक्रमान् ।
हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ

6.20.22

पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत् ।
तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता

6.20.23

सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया ।
सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह

6.20.24

और्वस्तां वारयित्वा च गरपत्नीं तु नारद ।
न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम्

6.20.25

निवेदिते ततो बाले मरणात्सा न्यवर्त्तत ।
ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे

6.20.26

जातकर्मादियोगश्च और्वेण च तथा कृतः ।
उपवीतादिकं सर्वं जातं तत्र महामुनेः

6.20.27

तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत्

6.20.28

आग्नेयं तं महाभाग अमरैरपि दुःसहम् ।
स तेनासुबलेनाजौ बलेन च समन्वितः

6.20.29

हैहयान्वै जघानाशु संक्रुद्धः स्वबलेन च ।
आजहार च लोकेषु स च कीर्तिमवाप सः

6.20.30

ततः शकाः सयवनाः कांबोजाः पल्लवास्तथा ।
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः

6.20.31

वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः ।
सगरं वारयामास तेषां दत्त्वाऽभयं नृपः

6.20.32

सगरः स्वां प्रतिज्ञांतु गुरोर्वाक्यं निशम्य च ।
धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह

6.20.33

अर्द्धंशकनांशिरसो मुंडं कृत्वा विसर्जयत् ।
यवनानां शिरः सर्वं कांबोजानां तथैव च

6.20.34

पारदा मुंडकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः ।
एवं विजित्य सर्वान्वै कृतवान्धर्मसंग्रहम्

6.20.35

सर्वधर्मजयी राजा विजित्येमां वसुंधराम् ।
आशु संस्कारयामास वाजिमेधाय पार्थिवः

6.20.36

तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः

6.20.37

स तं देशं तदा पुत्रैः खानयामास सर्वतः ।
नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे

6.20.38

तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः ।
तमादिपुरुषं देवं कपिलं जगतां प्रभुम्

6.20.39

तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः ।
दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः

6.20.40

हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः ।
शूरः पंचजनश्चैव तस्य वंशकरा द्विज

6.20.41

प्रादाच्च तस्मै भगवान्हरिः पंचवरान्स्वयम् ।
वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः

6.20.42

सागरत्वं च लेभेथ कर्मणा तेन तस्य वै ।
तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ।
आजहाराश्वमेधानां शतं स च महायशाः

6.20.20

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे विंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc