पद्म पुराण · अध्याय 6.177
श्रीभगवानुवाच।
जनस्थाने जडो नाम द्विजन्मा कौशिकान्वयी ।
हित्वा जात्युचितं धर्मं वणिग्वृत्त्यां मनो दधे
व्यसनी परदारेषु दीव्यन्नक्षैः पिबन्मधु ।
मृगया निरतो नित्यं कालमेवं निनाय सः
क्षीणे वित्ते ततो रात्रौ चौर्यामारब्धवांस्ततः ।
प्रतिपेदे धनं तेन यज्वनां यष्टुमर्थिनाम्
स दूरमगमत्तेन वाणिज्यायोत्तरां दिशम् ।
कस्तूरिमगुरुं कृष्णं चामरांश्चंद्रिकोज्ज्वलान्
गृहीत्वा वृत्य चानिन्ये पंचषादध्वयोजनात् ।
अथापरस्मिन्नहनि प्रियादर्शनदोहनि
दूरमध्वानमुल्लंघ्य रवावस्तमिते सति ।
ध्वांते प्रसर्पति स्वैरं दिशो दश तरोस्तले
गतो वशं सदस्यूनां निजघ्ने तैश्च सत्वरम् ।
धर्मलोपादसौ जज्ञे घोरश्चोग्रतरो ग्रहः
पिपासितो बुभुक्षार्तो लेलिहानश्च सृक्किणी ।
उर्ध्वकेशोऽतिजंघालुः पृष्टलग्नोदरो महत्
अस्थिमात्रशरीरोऽभूद्दुर्वृत्तनयनो भृशम् ।
अत्रांतरे सुतस्तस्य धर्मात्मा वेदकोविदः
पर्यपालयदत्यर्थं दिदृक्षुस्तं तदागमत् ।
नित्यमन्वेषयन्वार्त्तां पांथेभ्यो नोपलब्धवान्
ततः कदाचिदायाते सहायिनि च मानवे ।
तस्माद्विदितवृत्तांतः शुशोच पितरं बहु
ततो विमृश्य मेधावी चिकीर्षुः पारलौकिकम् ।
वाराणसीं ससंभारः स गंतुमुपचक्रमे
मार्गे निवासान्सप्ताष्टौ नीत्वा तस्य तरोस्तले ।
संध्यां प्रचक्रमे कर्तुं यत्रास्य निहतः पिता
तत्राध्यायं स गीतानां तृतीयं संजजाप ह ।
ततो घोरस्वरस्तत्र व्योममध्ये परामृशत्
ददर्श घोरमाकाशात्पतंतं पितरं ततः ।
विस्मयेन भयेनापि विकलीकृतचेतनः
तेजसा भूयसा व्याप्तमालुलोके पुरोऽम्बरे ।
किंकिणीकोटिसंकीर्णं तेजसा व्याप्तदिङ्मुखम्
विमानमग्रतोऽपश्यद्दिव्यमध्यग्रचेतनः ।
तत्रापश्यत्समारूढं दिव्याभिः स्त्रीभिरावृतम्
संस्तूयमानं मुनिभिः पितरं पीतवाससम् ।
प्रणतस्तं समालोक्य युयुजे तेन चाशिषा
ततोऽपृच्छदिदं वृत्तं स च तस्मै न्यवेदयत् ।
दुस्त्यजात्कर्मणो वत्स वपुषो पुण्यकारणात्
मोचितोऽस्मि त्वया दैवादध्यायं जपतांतिके ।
तन्निवर्त्तस्व जपतः सांप्रतं त्वामुपस्थितम्
वाराणसीं यदर्थं यत्तदनुष्ठितमात्मनः ।
श्रीभगवानुवाच।
एवमुक्तः स च प्राह पितरं दीप्ततेजसम्
सुत उवाच।
हितं ममानुशाधि त्वं कार्यमन्यन्मयानु किम् ।
श्रीभगवानुवाच।
ततः प्राह पिता पुत्रं कार्यमेतत्त्वयानघ
यन्मयाचरितं कर्म भ्रात्रा मम तु तत्कृतम् ।
स यातो नरकं घोरं तं मोचयितुमर्हसि
अन्ये मदन्वये ये वै निरयं प्रतिपेदिरे ।
ते च मोचयितव्यास्ते इति मेऽस्ति मनोरथः
इत्येवमुक्तः पुत्रस्तं पुनः प्राह कृतांजलि ।
कर्मणा केन तान्सर्वान्मोचयामि तदादिश
एवं निवेदितो वाक्यं पिता सुतमुवाच ह ।
पितोवाच।
येनाहं मोचितो वत्स तदनुष्ठातुमर्हसि
अनुष्ठाय तदुत्पन्नं तेभ्यः पुण्यं समुत्सृज ।
ततोऽहमिव ते सर्वे पूर्वे संत्यज्य यातनाम्
गमिष्यंत्यचिरेणैव तद्विष्णोः परमं पदम् ।
स संदिष्टोवदत्पुत्रो यद्येवं तात नारकान्
सर्वानपि विमोक्ष्यामि यदि ते रोचते वचः ।
एवमस्तु शिवं भूयादुपपन्नं महत्प्रियम्
इत्यादिश्य पिता पुत्रं ययौ विष्णोः परं पदम् ।
सोऽपि तस्मात्परावृत्त्य जनस्थानं प्रपद्य च
सुंदरस्य पुरः शौरेश्चालये कालमभ्यगात् ।
स कुर्वाणोःसमादीनि पित्रा च यदुदीरितम्
उत्ससर्ज कृतं पुण्यं मोचयिष्यन्स नारकान् ।
अत्रांतरे पदे विष्णोर्यातनापदमीयुषः
नारकान्मोचयिष्यंतः किंकरा यममभ्ययुः ।
तेन ते पूजिताः सर्वे सत्क्रियाभिरनेकधा
कुशलं परिपृष्टास्ते सर्वतः सुखमूचिरे ।
एमं सत्कृत्य मेधावी पितृलोक महेश्वरः
हेतुमागमने पृच्छत्ते च तस्मै न्यवेदयन् ।
विद्धि कीनाशनाथ त्वं शेषपर्यंकशायिना
शौरिणा प्रहितानस्मान्समादेष्टुं त्वदंतिके ।
अस्मन्मुखेन देवस्त्वां कुशलं परिपृच्छति
नारकान्प्राणिनः सर्वान्विमोक्तुं च नियच्छति ।
इत्याकर्ण्य समादिष्टं विष्णोरमिततेजसः
न तेन मूर्ध्ना संभाव्य दध्यौ किंचन चेतसा ।
विमुक्तान्निरयात्सर्वांस्तान्विलोक्य मदोत्कटान्
स तैरनुगतः सर्वैर्विष्णोरायतनं ततः ।
ययौ स वरयानेन यत्रास्ते दुग्धवारिधिः
तदंत उदितानेकसूर्यकोटिसमप्रभम् ।
इंदीवरदलश्याममालुलोक जगद्गुरुम्
शय्याफणिफणारत्नमरीच्यामिश्रतेजसम् ।
विलोक्यमानमानंदनिर्भरं प्रीतमानसम्
भावानुगैर्दृगालीकैः श्रिया प्रेम्णेक्षितं मुहुः ।
योगिभिः परितो जुष्टं ध्याननिष्पंदतारकैः
स्तूयमानं महेंद्रेण पराजेतुं विरोधिनः।
आम्नायवचसामंते ब्रह्मणो निःसृतैर्मुखात्
मूर्तिमद्भिर्वचोभिश्च गीयमानं गुणोत्करम् ।
संप्रीतं चाप्युदासीनमपि सर्वासु योनिषु
योगसंचितपुण्यानां यौगपद्येन जंतुषु ।
विलोकमानमात्मानमखिलं सचराचरम्
आमोद्यन्नमालोकैरात्मानं दीप्तिपूरितैः ।
आबिभ्राणं वपुर्व्यापि द्योतितं भोगिनस्विषा
इंदीवरदलश्यामं ज्योत्स्नयेव नभस्तलम् ।
विलोक्य तं स तुष्टाव धिया बहुलयानतः
यम उवाच।
नमः समस्तनिर्माणनिर्मलीभूतचेतसे ।
वद नोद्गीर्णवेदाय विश्वरूपाय वेधसे
बलवेगसुदुर्द्धर्ष दानवेंद्र मदद्रुहे ।
नमः स्थितौ च सत्वाय विश्वाधाराय विष्णवे
नमः पातकसंघात जिष्णवेऽखिलदेहिनाम् ।
ईषदुन्मीलल्लालाटनेत्राग्निप्रभवार्चिषे
त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः ।
विसृज्य वैष्णवान्सर्वानतस्त्वमनुकंपसे
व्यापयन्नखिलं लोकं मायया परिबृंहितम् ।
न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः
अंतरावर्तमानोऽपि न ताभ्यामभिभूयसे ।
दृशा विषयवर्तिन्या निग्रहीतमना अपि
तया फलाभिगामिन्या आत्मन्येवाभिलीयसे ।
न तवास्ति महिम्नोंतो यथा निरवधिः स्वयम्
मौनमेवात्रयुक्तं मे विषयोऽसि कथं गिराम् ।
इति स्तुत्वा ततो वाक्यमिदमाह कृतांजलि
विनियोगादमी युक्ता देहिनो निर्गुणा मया ।
समादिश यदन्यन्मे कार्यमस्ति जगद्गुरो
इति विज्ञापितस्तेन तमाह मधुसूदनः ।
मेघगंभीरया वाचा सिंचन्निव सुधारसैः
पापादुद्धार्य ते लोको मया समयवर्तिना ।
त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः
तदाचर निजं कर्म प्रयाहि स्वं निकेतनम् ।
श्रीभगवानुवाच।
इत्युक्त्वांतर्दधे देवः सोऽपि स्वपुरमाययौ
सोऽपि स्वजातिजान्सर्वान्निरयस्थाननेकशः ।
उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये सप्तसप्तत्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0