भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.154

6.154.1

साभ्रमत्यास्तटे गुप्तं तीर्थं परमपावनम् ।
खङ्गधारमिति ख्यातं कलौ गुप्तं भविष्यति

6.154.2

यत्र प्रसंगतः स्नात्वा पीत्वा वापो यदृच्छया ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते

6.154.3

यत्र साभ्रमती पुण्या कश्यपानुगता सती ।
रुद्रेण हि जटाजूटे धृता पातालगामिनः

6.154.4

खङ्गधारेति वै नाम्ना रुद्रस्तत्रैव संस्थितः ।
यत्र स्नात्वा दिवं याताः पापिनोऽपि सुरेश्वरि

6.154.5

अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
किरातेन कृतं यच्च व्रतं परमदुष्करम्

6.154.6

पार्वत्युवाच।
किं नाम वै किरातोऽभूत्किं तेन व्रतमाहितम् ।
तत्सर्वं श्रोतुमिच्छामि यथातथ्येन कथ्यताम्

6.154.7

नह्यन्यो विद्यते लोके त्वां विना वदतां वरः ।
तस्मात्कथय भो देव सर्वं शुश्रूषणे हितम्

6.154.8

महादेव उवाच।
आसीत्पुरा महारौद्रश्चंडो नाम दुरात्मवान् ।
क्रूरः शठो नैष्कृतिको भूतानां च भयावहः

6.154.9

जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं ततः ।
भल्लैर्मृगान्श्वापदांश्च कृष्णसारान्सशल्लकान्

6.154.10

खगान्नानाविधांश्चैव विध्वा कांश्चित्प्रपातयेत् ।
पक्षिणो घातयन्क्रुद्धो बर्हिणश्च विशेषतः

6.154.11

लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः ।
भार्या तथाविधा तस्य पुंश्चली च महामया

6.154.12

एवं विहरतस्तस्य बहुकालो व्यवर्त्तत ।
एकदा निशि पापीयान्श्रीवृक्षोपरि संस्थितः

6.154.13

कोलं हंतुं धनुःपाणिः शरं संयोज्य कार्मुके ।
एवं निशा गता तस्य जाग्रतो निमिषस्य हि ।
माघमासे सितायां वै चतुर्दश्यां नगात्मजे

6.154.14

श्रीवृक्षपत्राणि बहूनि तत्र संच्छेदयामास रुषान्वितोऽपि ।
श्रीवृक्षमूले परिवर्त्तमानं लिगं च तस्योपरितानि पेतुः

6.154.15

श्रीवृक्षपर्णानि च दैवयोगात्जातं च सर्वं शिवपूजनं तत्

6.154.16

गंडूषकारिणा तेन स्नपनं च महत्कृतम् ।
अज्ञानिना च तेनैव पुष्कसेन दुरात्मना

6.154.17

माघमासे सिते पक्षे चतुर्दश्यां विधूदये ।
पुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः

6.154.18

तस्य भार्या प्रचंडा च आगता तस्य सन्निधौ ।
निराशा च निराहारा यत्रासौ पुष्कसः स्थितः

6.154.19

न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वा ।
अशनार्थं च तस्यैव अन्नमादाय भामिनी

6.154.20

तेन दृष्टा प्रचंडा सा आयांती क्रूरलोचना ।
सा तस्य भार्या नद्यां वै जलमध्ये पपात ह

6.154.21

तावत्तयोक्तश्चंडात्मा एहि शीघ्रं च भक्षय ।
समानीतं त्वदर्थं च मत्स्यमांसं मयाधुना

6.154.22

कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यते ।
नाशितं च त्वया मूढ कुटुंबं लंघते तव

6.154.23

एतच्छ्रुत्वा तु वचनं चंडायाश्चंडरूपवान् ।
शिवरात्र्युपवासेन रात्रौ जागरणेन च

6.154.24

शुद्धांतःकरणो जातः स्नातुं नद्यां शुचिव्रतः ।
यावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः

6.154.25

शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरि ।
चंडा प्रकुपिता तं च श्वानं हंतुमुपस्थिता

6.154.26

निवारिता हि चंडेन चंडा प्रकुपिता तदा ।
न हंतव्यस्त्वया चैष किमनेनाशुभं कृतम्

6.154.27

तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मना ।
किं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः

6.154.28

पुष्कस उवाच।
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः ।
किमनेन शरीरेण नश्वरेण गतायुषा

6.154.29

ये पुष्यंति शरीरं वै सर्वभावेन भामिनि ।
मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः

6.154.30

तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम् ।
स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव

6.154.31

अहमेतच्छरीरं वै खङ्गधारव्रतेन च ।
त्यक्ष्याम्यद्य वरारोहे किं चिरंजीवनेन मे

6.154.32

इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम् ।
आगताश्च गणास्तावद्बहवः शिवनोदिताः

6.154.33

विमानानि बहून्यत्र आगतानि तदंतिके ।
दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा

6.154.34

उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति ।
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः

6.154.35

सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः ।
कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः

6.154.36

श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं मम ।
पुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः

6.154.37

गणा ऊचुः।
प्रेषितास्मो वयं चंड शिवेन परमेष्ठिना ।
आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह

6.154.38

लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च ।
तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम्

6.154.39

तथोक्तो वीरभद्रेण उवाच प्रहसन्निव ।
किं मया सुकृतं चीर्णं पापिना पुष्कसेन हि

6.154.40

मृगयारसिकेनैव मूढेन च दुरात्मना ।
पापाचारोह्यहं नित्यं कथं स्वर्गे वसाम्यहम्

6.154.41

कथं लिगार्चनं चाद्या कृतमस्ति तदुच्यताम् ।
परं कौतुकमापन्नः पृच्छामि कृपया वद

6.154.42

वीरभद्र उवाच।
देवदेवो महादेवो यो गंगाधरसंज्ञकः ।
परितुष्टोऽद्य ते चंड सभार्यस्य उमापतिः

6.154.43

प्रासंगिकं त्वया चाद्य कृतमर्चनमेव च ।
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि

6.154.44

छेदितानि त्वया चंड पतितानि तदैव हि ।
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो

6.154.45

तवैवं जागरो जातो महावृक्षोपरि ध्रुवम् ।
तेनैव जागरेणैव तुतोष जगदीश्वरः

6.154.46

छलेनैव महाभाग कोलसंदर्शनेन हि ।
शिवरात्रिदिनं व्याध प्रसंगेनाप्युपोषितम्

6.154.47

तेनोपवासेन च जागरेणतुष्टो ह्यसौ देववरो महात्मा ।
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च

6.154.48

एवमुक्तस्तदा तेन वीरभद्रेण धीमता ।
पुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम्

6.154.49

गणानां देवतानां च सर्वेषां प्राणिनामपि ।
तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः

6.154.6.154.50

वीणावेणुमृदंगानि लास्यनाट्य युतानि च ।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः

6.154.51

चामरैर्विज्यमानो हि छत्रैश्च विविधैरपि ।
महोत्सवेन महता ह्यानीतः शिवसन्निधौ

6.154.52

पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नान शिवार्चनात् ।
किं पुनः श्रद्धया भक्त्या शिवाय परमात्माने

6.154.53

पुष्पादिकं फलं गंधं तांबूलाक्षतमेव च ।
ये प्रयच्छंति लोकेऽस्मिंस्ते रुद्रा नात्र संशयः

6.154.54

महादेव उवाच।
तदाप्रभृति तत्तीर्थं खङ्गधारेति विश्रुतम् ।
एतत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि

6.154.55

माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः ।
स्नानं येन प्रकुर्वंति मुक्तास्ते नगनंदिनि

6.154.56

वसिष्ठो वामदेवश्च भरद्वाजोऽथ गौतमः ।
स्नानार्थे वै समायांति देवं द्रष्टुं पिनाकिनम्

6.154.57

त्रियुगे वर्त्तते लिंगं कलौ नैव तु पार्वति ।
विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा

6.154.58

पार्वत्युवाच।
कथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वर ।
तदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः

6.154.59

महादेव उवाच।
एकस्मिन्समये देवि विश्वामित्रो महातपाः ।
आगतः खङ्गधारेऽस्मिंस्तीर्थे वै परमाद्भुते

6.154.60

साभ्रमत्यां कृतस्नानो दर्शनं कृतवान्मम ।
तत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकधा

6.154.61

तत्र कोऽपि महादुष्टः कौलिकः पापरुपधृक् ।
मांसं दत्तं तदा तेन शिवस्योपरि भामिनि

6.154.62

दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनः ।
अब्रवीच्च तदा तत्र दुष्कृतं पापिना कृतम्

6.154.63

न दत्तस्तस्य दंडो हि शर्वेण परमात्मना ।
तस्मादहं हि निश्चित्य शापं दास्ये न संशयः

6.154.64

विचार्यैवं तदा तेन शप्तोऽहं देवि वै तदा

6.154.65

अस्मिन्कलियुगे घोरे गुप्तस्त्वं भव सर्वथा ।
इति दत्वाथ वै शापं गतवान्मुनिसत्तमः

6.154.66

तदा प्रभृति भो देवि गुप्तोऽहं ऋषिशापतः ।
ममस्थाने विशेषेण पूजनं कुरुते यदि

6.154.67

तेषां हि दुरितं यच्च नश्यते तत्क्षणादपि ।
मृन्मयीं मामकीं मूर्तिं कृत्वा ये पूजयंति वै

6.154.68

अत्र स्थाने विशेषेण मामके तु वसंति हि ।
खङ्गधारेश्वर इति नाम्ना ख्यातः कलौयुगे

6.154.69

कृते वै मंदिरं नाम त्रेतायां गौरवः स्मृतः ।
द्वापरे विश्वविख्यातः कलौ खङ्गेश्वरः स्मृतः

6.154.70

दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि ।
इति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः

6.154.71

पूजनं कुरुते नित्यं वांछितं फलमाप्नुयात् ।
धर्मार्थकाममोक्षांश्च लभते मानवो भुवि

6.154.72

धूपं दीपं च नैवेद्यं तथा वै चंदनादिकम् ।
येऽर्पयंति हि देवेशि लोकनाथे महेश्वरि ।
न दुःखं तु भवेत्तेषां सत्यं सत्यं वरानने

6.154.154

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्रसंहितायामुउत्तरखंडे धारेश्वरमाहात्म्यं नाम चतुष्पंचाशदधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc