भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.126

6.126.1

वसिष्ठ उवाच।
अधुना माघमाहात्म्यं प्रवक्ष्यामि नृपोत्तम ।
पृच्छते कार्तवीर्याय दत्तात्रेयेण भाषितम्

6.126.2

दत्तात्रेयं हरिं साक्षाद्वसंतं सह्य पर्वते ।
पप्रच्छ तं द्विजं गत्वा राजा माहिष्मतीपतिः

6.126.3

सहस्रार्जुन उवाच।
भगवन्योगिनां श्रेष्ठ सर्वे धर्माः श्रुता मया ।
माघस्नानफलं ब्रूहि कृपया मम सुव्रत

6.126.4

दत्तात्रेय उवाच।
श्रूयतां नृपशार्दूल एतत्प्रश्नोत्तरं शुभम् ।
ब्रह्मणोक्तं पुरा ह्येतन्नारदाय महात्मने

6.126.5

तत्सर्वं कथयिष्यामि माघस्नानफलं महत् ।
यथादेशं यथातीर्थं यथाविधि यथाक्रियम्

6.126.6

अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः ।
अमाघस्नायिनां नॄणां निष्फलं जन्मकीर्तितम्

6.126.7

असूर्यं गगनं यद्वदचन्द्रमुडुमंडलम् ।
तद्वन्नाभाति सत्कर्म माघस्नानं विना नृप

6.126.8

व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः ।
माघमज्जनमात्रेण यथा प्रीणाति केशवः

6.126.9

न समं विद्यते किंचित्तेजः सौरेण तेजसा ।
तद्वत्स्नानेन माघस्य न समाः क्रतुजाः क्रियाः

6.126.10

प्रीतये वासुदेवस्य सर्वपापापनुत्तये ।
माघस्नानं प्रकुर्वीत स्वर्गलाभाय मानवः

6.126.11

किं रक्षितेन देहेन सुपुष्टेन बलीयसा ।
अध्रुवेणाप्यशुचिना माघस्नानं विना भवेत्

6.126.12

अस्थिस्तंभं स्नायुबद्धं मांसक्षतज लेपनम् ।
चर्मावनद्धं दुर्गंधं पात्रं मूत्रपुरीषयोः

6.126.13

जराशोकविपद्व्याप्तं रोगमंदिरमातुरम् ।
रजस्वलमनित्यं च सर्वदोषसमाश्रयम्

6.126.14

परोपतापितापार्तं परद्रोहि परं विषम् ।
लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा

6.126.15

दुष्पूरं दुर्धरं दुष्टं दोषत्रयसमन्वितम् ।
अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम्

6.126.16

निसर्गतोऽधर्मरतं तृष्णाशत समाकुलम् ।
कामक्रोध महालोभ नरकद्वार संस्थितम्

6.126.17

क्रिमिविड्भस्मभवति परिणामे शुनां हविः ।
ईदृक्शरीरं व्यर्थं हि माघस्नानविवर्जितम्

6.126.18

बुद्बुदाइव तोयेषु पूतिका इव जंतुषु ।
जायंते मरणायैव माघस्नानविवर्जिताः

6.126.19

अवैष्णवो हतो विप्रो हतं श्राद्धमयोगि च ।
अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम्

6.126.20

सदंभश्च हतो धर्मः क्रोधेनैव हतं तपः ।
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम्

6.126.21

गुर्वभक्ता हता नारी ब्रह्मचारी तया हतः ।
अदीप्तेऽग्नौ हतो होमो हता भुंक्तिरसाक्षिका

6.126.22

उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।
शूद्रभिक्षो हतो यागः कृपणस्य हतं धनम्

6.126.23

अनभ्यासा हता विद्या हतो राजा विरोधकृत् ।
जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम्

6.126.24

असत्या च हता वाणी तथा पैशुन्यवादिनी ।
संदिग्धश्च हतो मंत्रो व्यग्रचित्तो हतो जपः

6.126.25

हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः ।
अश्रद्धया हतं सर्वं कृतं यत्पारलौकिकम्

6.126.26

इहलोको हतो नॄणां दरिद्राणां यथा नृप ।
मनुष्याणां तथा जन्म माघस्नानं विना हतम्

6.126.27

मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ ।
कथं पापैः प्रमुच्येत कथं स त्रिदिवं व्रजेत्

6.126.28

ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।
माघस्नायी विपापः स्यात्तत्संसर्गी च पंचमः

6.126.29

माघमासे रटंत्यापः किंचिदभ्युदिते रवौ ।
ब्रह्मघ्नं वा सुरापं वा कंपंतं तं पुनीमहे

6.126.30

उपपापानि सर्वाणि पातकानि महांत्यपि ।
भस्मीभवंति सर्वाणि माघस्नानोद्यतं नरम्

6.126.31

कंपंति सर्वपापानि माघस्नानसमागमे ।
नाशकालोऽयमस्माकं यदि स्नास्यति वारिणि

6.126.32

एवं क्रोशंति पापानि दृष्ट्वा स्नानोद्यतं नरम् ।
पावका इव दीप्यंते माघस्नानैर्नरोत्तमाः

6.126.33

विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः ।
आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम्

6.126.34

माघस्नानं दहेत्पापं पावकः समिधो यथा ।
प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत्

6.126.35

स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरे ।
निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम्

6.126.36

संदेहो नात्र कर्तव्यो माघस्नाने नराधिप ।
सर्वेऽधिकारिणो माघे विष्णुभक्तौ यथा नृप

6.126.37

सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनः ।
एष एव परो मंत्रो ह्येतदेव परं तपः

6.126.38

प्रायश्चित्तं परं चैतन्माघस्नानमनुत्तमम् ।
नृणां जन्मांतराभ्यासान्माघस्नाने मतिर्भवेत्

6.126.39

अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ।
संसारकर्दमालेप प्रक्षालन विशारदम्

6.126.40

पावनं पावनानां च माघस्नानपरं नृप ।
स्नांति माघे न ये राजन्सर्वकामफलप्रदे

6.126.41

कथं ते भुंजते भोगांश्चंद्रसूर्यग्रहोपमान् ।
शृणु राजन्महाश्चर्यं माघस्नानप्रभावजम्

6.126.42

कुब्जिका नाम कल्याणी ब्राह्मणी भृगुवंशजा ।
बालवैधव्यदुःखार्ता तपस्तेपे सुदुस्तरम्

6.126.43

विंध्यपादे महाक्षेत्रे रेवाकपिलसंगमे ।
तत्र सा व्रतिनी भूत्वा नारायणपरायणा

6.126.44

सदाचारवती नित्यं नित्यं संगविवर्जिता ।
जितेंद्रिया जितक्रोधा सत्यवागल्पभाषिणी

6.126.45

सुशीला दानशीला च देहशोषणशालिनी ।
पितृदेवद्विजेभ्यश्च दत्वा हुत्त्वा तथानले

6.126.46

षष्ठे काले च सा भुङ्क्ते ह्युंच्छवृत्तिः सदा नृप ।
कृच्छ्रातिकृच्छ्र पाराक तप्तकृच्छ्रादिभिर्व्रतैः

6.126.47

पुण्यान्नयति सा मासान्नर्मदायाश्च रोधसि ।
एवं तया तपस्विन्या वल्कलिन्या सुशीलया

6.126.48

सुमहासत्त्वशालिन्या धृति संतोषयुक्तया ।
षष्टिर्माघास्तया स्नाता रेवाकपिलसंगमे

6.126.49

ततः सा तपसा क्षीणा तस्मिंस्तीर्थे मृता नृप ।
माघस्नानजपुण्येन तेन सा वैष्णवे पुरे

6.126.6.126.50

उवास प्रमुदा युक्ता चतुर्युगसहस्रकम् ।
सुंदोपसुंदनाशाय पश्चात्पद्मभवात्पुनः

6.126.51

तिलोत्तमेति नाम्ना सा ब्रह्मलोकेऽवतारिता ।
तेन पुण्यस्यशेषेण रूपस्यैकायनं ययौ

6.126.52

अयोनिजाबलारत्नं देवानामपि मोहिनी ।
लावण्यहृदनी तन्वी साभूदप्सरसां वरा

6.126.53

निपुणस्य विधेः स्रष्टुर्नूनमाश्चर्यकारिणी ।
तामुत्पाद्य विधाता वै तुष्टोऽनुज्ञां तदा ददौ

6.126.54

एणशावाक्षि गच्छ त्वं दैत्यनाशाय सत्वरम् ।
ततः सा ब्रह्मणो लोकाद्वीणामादाय भामिनी

6.126.55

गता पुष्करमार्गेण यत्र तौ देववैरिणौ ।
तत्र स्नात्वा तु रेवायाः पवित्रे निर्मले जले

6.126.56

परिधायांबरं रक्तं बंधूककुसुमप्रभम् ।
रणद्वलयिनीचारु सिंजन्मेखलनूपुरा

6.126.57

लोलमुक्तावलीकंठी चलत्कुंडलशोभना ।
माधवी कुसुमापीडा कंकेली विटपे स्थिता

6.126.58

गायंती सुस्वरं सापि पीडयंती तु वल्लकीम् ।
मूर्च्छयंती स्वरषट्कं सुस्निग्धं कोमलं कलम्

6.126.60

इत्थं तिलोत्तमा बाला तिष्ठंत्यशोककानने ।
दृष्ट्वा दैत्यभटैरिंदोः कलेव सुखदा हृदि ५९पु।
तां दृष्ट्वा विस्मितै राजन्सानंदैः सैनिकैर्भृशम् ।
त्वरमाणैरदृष्ट्वैव गत्वा सुंदोपसुंदयोः

6.126.61

कथिता संभ्रमेणैव वर्णयित्वा पुनः पुनः ।
हे दैत्यौ न विजानीमो देवी वा दानवी नु किम्

6.126.62

नागांगनाथ वा यक्षी स्त्रीरत्नं सर्वथा तु सा ।
युवां रत्नभुजौ लोके रत्नभूता हि साबला

6.126.63

वर्तते नाति दूरेऽग्रे अशोके शोकहारिणी ।
गत्वा तां पश्यतं शीघ्रं मन्मथस्यापि मोहिनीम्

6.126.64

इति सेनापतीनां तौ श्रुत्वा वाचं मनोहराम् ।
चषकं सीधुनस्त्यक्त्वा विहाय जलसेचनम्

6.126.65

उत्तमस्त्रीसहस्राणि त्यक्त्वा तस्माज्जलाशयात् ।
शतभारायसीं क्रूरां कालदंडोपमां गदाम्

6.126.66

भिन्नाभिन्नां गृहीत्वा तु जवेनाभिप्लुतं गतौ ।
यत्र शृंगारसज्जा सा हंतुं चंडीव संस्थिता

6.126.67

राजन्संधुक्षयंतीव दैत्ययोर्मन्मथानलम् ।
स्थित्वा तस्याः पुरो जाल्मौ तद्रूपेणविमोहितौ

6.126.68

विशेषान्मधुनामत्तावूचतुस्तौपरस्परम् ।
भ्रातर्विरम भार्येयं ममास्तु वरवर्णिनी

6.126.69

त्वमेवार्य त्यजैतां मे भार्यां तु मदिरेक्षणाम् ।
इत्याग्रहेण संरब्धौ मातंगाविव सोन्मदौ

6.126.70

अन्योन्यं कालनिर्दिष्टौ गदया जघ्नतुस्तदा ।
परस्परप्रहारेण गतासू पतितौ भुवि

6.126.71

तौ मृतौ सैनिकैर्दृष्ट्वा कृतः कोलाहलो महान् ।
कालरात्रिसमा केयं हा किमेतदुपस्थितम्

6.126.72

एवं वदत्सु सैन्येषु दैत्यौ सुंदोपसुंदकौ ।
पातयित्वा गिरेः शृंगे ह्रादिनीव त्तिलोत्तमा

6.126.73

प्रस्थिता गगनं शीघ्रं द्योतयंती दिशो दश ।
देवकार्यं ततः कृत्वा आगता ब्रह्मणः पुरः

6.126.74

ततस्तुष्टेन देवेन विधिना सानुमोदिता ।
स्थानं सूर्यरथे दत्तं तव चंद्रानने मया

6.126.75

भुंक्ष्व भोगाननेकांस्त्वं यावत्सूर्योंबरे स्थितः ।
इत्थं सा ब्राह्मणी राजन्भूत्वा चाप्सरसां वरा

6.126.76

भुंक्तेद्यापि रवेर्लोके माघस्नानफलं महत् ।
तस्मात्प्रयत्नतो राजन्श्रद्दधानैः सदा नरैः

6.126.77

स्नातव्यं मकरादित्ये वांच्छद्भिः परमां गतिम् ।
नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन

6.126.78

नाक्षीणं पातकं कंचिन्माघे मज्जति यो नरः ।
तुलयंति न तेनात्र यज्ञाः सर्वे सदक्षिणाः

6.126.79

माघस्नानेन राजेंद्र तीर्थे चैव विशेषतः ।
न चान्यत्स्वर्गदं कर्म न चान्यत्पापनाशनम्

6.126.80

न चान्यन्मोक्षदं यस्मान्माघस्नानसमं भुवि

6.126.126

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे माघस्नानप्रशंसायां सुंदोपसुंददैत्यवधोनाम षड्विंशत्यधिकशततमोध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc