पद्म पुराण · अध्याय 6.114
श्रीकृष्णोवाच।
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् ।
प्रदर्शयिष्यंस्तान्सर्वान्यमस्यानुचरस्तदा
प्रेतप उवाच।
पश्येमान्निरयान्घोरान्धनेश्वर महाभयान् ।
येषु पापकरा नित्यं पच्यंते यमकिंकरैः
तप्तवालुकनामायं निरयो घोरदर्शनः ।
यस्मिन्नेते दग्धदेहाः क्रंदंते पापकारिणः
अतिथीन्वैश्वदेवान्ते क्षुत्क्षामानागतान्गृहे ।
ये नार्चंति नरास्ते हि पच्यंते स्वेन कर्मणा
गुर्वग्निब्राह्मणान्देवांस्तथा मूर्द्धाभिषिक्तकान् ।
ताडयंति पदा ये वै ते निर्दग्धांघ्रयस्त्विमे
षड्भेदस्त्वेषनिरयो नानापापैः प्रपद्यते ।
तथैव चांधतामिस्रो द्वितीयो निरयो महान्
पश्य सूचीमुखैर्देहो भिद्यते पापकर्मणा ।
क्रिमिभिर्घोरवक्त्रैश्च तत्संपर्कागमैर्द्विज
असावपि स्थितः षोढा श्वकाकमृगपक्षिभिः ।
परमर्मभिदो मर्त्याः पच्यंते तेषु पापिनः
तृतीयः क्रकचो ह्येष निरयो घोरदर्शनः ।
यत्रेमे क्रकचैर्मर्त्याः पाट्यंते पापकारिणः
असिपत्रवनाद्यैस्तु षट्प्रकारो व्यवस्थितः ।
पत्नीपुत्रादिभिर्ये वै वियोगं कारयंति हि
इष्टैरन्यैरपि परान्पच्यंते त इमे नराः ।
असिपत्रैश्छिद्यमाना छेदभीत्या पलायिताः
पच्यंते पापिनः पश्य क्रंदमाना इतस्ततः ।
अर्गलाख्यो महाघोरश्चतुर्थो निरयो ह्ययम्
पश्य नानाविधैः पाशैराबध्य यमकिंकरैः ।
मुद्गराद्यैर्वध्यमानाः क्रंदंते ते च पापिनः
सज्जनान्ब्राह्मणाद्यांश्च विरुंधंतीह ये नराः ।
कंठग्रहाद्यैस्ते पापाः पच्यंते यमकिंकरैः
असावपि हि षड्भेदो वधभेदादिभिः स्थितः ।
कूटशाल्मलिनामानं निरयं पश्य पंचमम्
यत्रांगारनिभा एते शाल्मल्याद्याः स्थिता द्विज ।
यत्र षोढा विपच्यंते यातनाभिरिमे नराः
परदारा परद्रव्य परद्रोह रताः सदा ।
रक्तपूयमिमं पश्य षष्ठं निरयमद्भुतम्
अधोमुखा विपच्यंते यत्र पापकृतो नराः ।
अभक्ष्यभक्षका निंदा पैशुन्यादि रता इमे
भज्यमाना वध्यमानाः क्रंदंते भैरवान्स्वरान् ।
षट्प्रकारैर्विगंधाढ्यैरसावपि च संस्थितः
कुंभीपाकः सप्तमोऽयं निरयो घोरदर्शनः ।
षोढास्तैलादिभिर्द्रव्यैर्धनेश्वर विलोकय
महापातकिनो यत्र क्वथ्यंते यमकिंकरैः ।
बहून्यब्दसहस्राणि सोन्मज्जननिमज्जनैः
चत्वारिंशन्मितानेतान्द्व्यधिकान्पश्य रौरवान् ।
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम्
आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान् ।
चतुरशीतिसंख्याकैः पृथग्भेदैरवस्थितान्
यत्प्रकीर्णमपांक्तेयं मलिनीकरणं तथा ।
ज्ञातिभ्रंशकरं तद्वदुपपातकसंज्ञकम्
अतिपापं महापापं सप्तधा पातकं स्मृतम् ।
एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम्
कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव ।
तत्पुण्योपचयादेते निर्हृता निरयाः खलु
श्रीकृष्ण उवाच।
दर्शयित्वेति निरयान्प्रेतपस्तमथाहरत् ।
धनेश्वरं यक्षलोकं पश्चादासीत्स तत्र हि
धनदस्यानुगः सोऽयं धनयक्षेति स स्मृतः ।
यदाख्यायाकरोत्तीर्थमयोध्यायां तु गाधिजः
एवं प्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो मुक्तिकरश्च यस्मात् ।
प्रयात्यनेकार्जितपातकोऽपि व्रतस्थसंदर्शनतोऽपि मुक्तिम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये धनेश्वरोपाख्याने चतुर्दशाधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0