भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.105

6.105.1

नारद उवाच।
क्षिप्तेभ्यस्तत्रबीजेभ्यो वनस्पत्यस्त्रयोभवन् ।
धात्री च मालती चैव तुलसी च नृपोत्तम

6.105.2

धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ।
गौरीभवा च तुलसी तमः सत्त्व रजोगुणाः

6.105.3

स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप ।
उत्तस्थौ संभ्रमाद्वृंदारूपातिशयमोहितः

6.105.4

ददर्श तास्तदा मोहात्कामासक्तेन चेतसा ।
तं चापि तुलसीधात्र्यौ रागेणैवावलोकताम्

6.105.5

यच्चलक्ष्म्यापुराबीजंमाययैवसमर्पितम् ।
तस्मात्तदुद्भवानारीतस्मिन्नीर्ष्यायुताभवत्

6.105.6

अतःसाबर्बरीत्याख्यामाधवस्यातिगर्हिता ।
धात्रीतुलस्यैतद्रा गात्तस्यप्रीतिप्रदेसदा

6.105.7

ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ।
वैकुंठमगमद्धृष्टः सर्वदेवनमस्कृतः

6.105.8

कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते ।
तुलसीमूलदेशे तु प्रीतिदा सा यतः स्मृता

6.105.9

तुलसीकाननं राजन्गृहे यस्यावतिष्ठते ।
तद्गृहं तीर्थरूपं तु नायांति यमकिंकराः

6.105.10

सर्वपापहरं पुण्यं कामदं तुलसीवनम् ।
रोपयंति नरश्रेष्ठा न तेपश्यंति भास्करिम्

6.105.11

दर्शनं नर्मदायास्तु गंगास्नानं तथैव च ।
तुलसीवनसंसर्गः सममेतत्त्रयं स्मृतम्

6.105.12

रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् ।
तुलसी दहते पापं वाङ्मनःकाय संचितम्

6.105.13

तुलसीमंजरीभिर्यः कुर्याद्धरिहरार्चनम् ।
न स गर्भगृहं याति मुक्तिभागी न संशयः

6.105.14

पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ।
वासुदेवादयो देवास्तिष्ठंति तुलसीदले

6.105.15

तुलसीमंजरीयुक्तो यदि प्राणान्विमुंचति ।
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम

6.105.16

तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुचंति ।
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि

6.105.17

तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः ।
तद्देहं नस्पृशेत्पापं क्रियमाणमपीह यत्

6.105.18

तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप ।
तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां दत्तमक्षयम्

6.105.19

धात्रीछायासु यः कुर्यात्पिंडदानं नृपोत्तम ।
तृप्तिं च यांति पितरस्तस्य ये नरके स्थिताः

6.105.20

मूर्ध्नि पाणौ मुखे चैव देहे च नृपसत्तम ।
धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम्

6.105.21

धात्रीफलं च तुलसीमृत्तिका द्वारकोद्भवा ।
यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते

6.105.22

धात्रीफलविमिश्रैस्तु तुलसीदलमिश्रितैः ।
जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम्

6.105.23

देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैरपि ।
सुवर्णपुष्पैर्विविधैरर्चनस्याप्नुयात्फलम्

6.105.24

तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ।
नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलाश्रिते

6.105.25

द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके ।
लुनाति स नरो गच्छेन्निरयानतिगर्हितान्

6.105.26

धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः ।
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति

6.105.27

धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयते नरः ।
विष्णुक्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा

6.105.28

धात्रीतुलस्योर्माहात्म्यमपिदेवश्चतुर्मुखः ।
न समर्थो भवेद्वक्तुं यथा देवस्यशार्ङ्गिणः

6.105.29

धात्री तुलस्युद्भवकारणं च शृणोति यः श्रावयते च भक्त्या ।
विधूतपाप्मा सह पूर्वजैश्च स्वर्गं व्रजत्यग्र्यविमानसंस्थः

6.105.105

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यंनाम पंचाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc