भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.101

6.101.1

नारद उवाच-
ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान् ।
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः

6.101.2

नंदिनं कालनेमिश्च शुंभो लंबोदरं तथा ।
निशुंभः षण्मुखं वेगादभ्यधावत दंशितः

6.101.3

निशुंभः कार्तिकेयस्य मयूरं पंचभिः शरैः ।
हृदि विव्याध वेगेन मूर्छितः स पपात च

6.101.4

ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः ।
तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत्

6.101.5

ततो नंदीश्वरो बाणैः कालनेमिमविध्यत ।
सप्तभिश्च हयान्केतूंस्त्रिभिः सारथिमच्छिनत्

6.101.6

कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः ।
तदपास्य सशूलेन तं वक्षस्य हनद्दृढम्

6.101.7

सशूलभिन्नहृदयो हताश्वो हतसारथिः ।
अद्रेः शिखरमामुच्य शैलाद्रिं सोऽप्यपातयत्

6.101.8

अथ शुंभो गणेशश्च रथमूषकवाहनौ ।
युध्यमानौ शरव्रातैः परस्परमविध्यताम्

6.101.9

अथ शुंभं गणाध्यक्षो हृदि विव्याध पत्रिणा ।
सारथिं पंचभिर्बाणैः पातयामास भूतले

6.101.10

ततः शुंभोऽतिक्रुद्धोऽपि बाणषष्ट्या गणाधिपम् ।
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः

6.101.11

मूषकः शरभिन्नांगश्चचाल कृतवेदनः ।
लंबोदरः समुत्तीर्य पदातिरभवन्नृप

6.101.12

ततो लंबोदरः शुंभं हत्वा परशुना हृदि ।
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः

6.101.13

कालनेमिर्निशुंभश्च उभौ लंबोदरं शरैः ।
युगपज्जघ्नतुः कोपात्तोत्रेणेव महाद्विपम्

6.101.14

तं पीड्यमानमालोक्य वीरभद्रो महाबलः ।
अभ्यधावत वेगेन भूतकोटियुतस्तदा

6.101.15

कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः ।
पिशाचा योगिनीसंघा गणाश्चापि तमन्वयुः

6.101.16

ततः किलकिलाशब्दैः सिंहनादैः सघुर्घुरैः ।
विनादिता डमरुकैः पृथिवी समकंपत

6.101.17

ततो भूतानि धावंति भक्षयंति स्म दानवान् ।
उत्पतंति पतंति स्म ननृतुश्चरणांगणे

6.101.18

नंदी च कार्तिकेयश्च समायातौ त्वरान्वितौ ।
निजघ्नतू रणे दैत्यान्निरंतर शरव्रजैः

6.101.19

छिन्नभिन्नाह तैर्दैत्यैः पातितैर्भर्त्सितैस्तथा ।
व्याकुला सा भवत्सेना विषण्णवदना तदा

6.101.20

प्रविध्वस्तां ततः सेनां दृष्ट्वा सागरनंदनः ।
रथेनातिपताकेन गणानभिययौ बली

6.101.21

हस्त्यश्वरथसंह्रादः शंखभेरीरवस्तदा ।
अभवत्सिंहनादश्च सेनयोरुभयोस्तदा

6.101.22

जालंधरशरव्रातैर्नीहारपटलैरिव ।
द्यावापृथिव्योराच्छन्नमंतरं समपद्यत

6.101.23

गणेशं पंचभिर्विध्वा शैलाद्रिमपि पंचभिः ।
वीरभद्रं च विंशत्या ननाद जलदस्वनः

6.101.24

कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरः ।
व्याघूर्णः शक्तिनिर्भिन्नः किंचिद्व्याकुलमानसः

6.101.25

ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः ।
गदया ताडयामास स च भूमितलेऽपतत्

6.101.26

तथैव नंदिनं वेगादपातयत भूतले ।
ततो गणेश्वरः क्रुद्धो गदां परशुनाच्छिनत्

6.101.27

वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ।
सप्तभिश्च हयान्केतून्धनुश्छन्नं च चिच्छिदे

6.101.28

ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम् ।
गणेशं पातयामास रथमन्यं समारुहत्

6.101.29

अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः ।
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम्

6.101.30

वीरभद्रस्तस्य हयांस्तथा बाणैरपातयत् ।
धनुश्चिच्छेद दैत्येंद्रो युयुधे परिघायुधः

6.101.31

स वीरभद्रं त्वरयाभिगम्य जघान दैत्यः परिघेन मूर्ध्नि ।
स चापि दैत्यः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन्

6.101.101

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनापराभवोनाम एकाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc