भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.93

5.93.1

नारद उवाच-
जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः ।
तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात्

5.93.2

दिवोदास उवाच-
कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना ।
जातूकर्ण उवाच-।
कथयामि महत्पुण्यं येनेयं सुखिता भवेत्

5.93.3

अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः ।
स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम्

5.93.4

यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम् ।
प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति

5.93.5

यथा हरेर्भीतिभयेन नागा नश्यंति सर्वे निचयास्तथैव ।
नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन

5.93.6

तेजसा वैनतेयस्य पन्नगा इव पातकाः ।
विद्रवंति च वैशाखस्नानेनोषसि निश्चितम्

5.93.7

तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम् ।
कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम्

5.93.8

भवित्री भर्तुः संयोगसुखसंभोगभागिनी ।
सुदेवोऽपि स जातोस्ति पांड्यदेशाधिपो बली

5.93.9

वैशाखमासि रेवायां स्नानपुण्येन भूपते ।
तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा

5.93.10

माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च ।
संदेहो नात्र कर्तव्यो विचित्रं पश्य भूपते

5.93.11

इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः ।
नारद उवाच-
इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः

5.93.12

कारयामास तां पुत्रीं जातूकर्णोदितं विधिम् ।
वीरसेनेन तेनैव पांड्यदेशाधिपेन सा

5.93.13

पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता ।
बुभुजे भूरिविषयांश्चिरं सुचरितव्रता

5.93.14

वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च ।
एतत्ते किंचिदाख्यातमंबरीष समासतः

5.93.15

वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि

5.93.93

इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने।
त्रिनवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc