भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.89

5.89.5.89

एकोननवतितमोऽध्यायः

5.89.1

नारद उवाच-
एवं संबोधितो विप्रो देवशर्मा द्विजोत्तमः ।
पुनः प्राह प्रियां भार्यां सहितां ज्ञानवादिनीम्

5.89.2

सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् ।
तथा हि वंशमिच्छंति साधवः सत्यपंडिताः

5.89.3

यथा पुत्रस्य चिंता मे न धनस्य तथा प्रिये ।
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम्

5.89.4

सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ।
सुपुत्रेण महाभाग पितामाता प्रजीवतः

5.89.5

एकः पुत्रो वरः कांत बहुभिर्निर्गुणैस्तु किम् ।
एकस्तारयते वंशमन्ये संतापकारकाः

5.89.6

पूर्वमेव मया प्रोक्तमन्ये संबंधभागिनः ।
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम्

5.89.7

सुगर्भः प्राप्यते पुण्यैर्दुर्मृत्युः पातकैस्तथा ।
सुखानां निचयं कांत सत्यमेव वदाम्यहम्

5.89.8

ब्रह्मचर्येण सत्येन तपसा नित्यवर्तनैः ।
दानेन नियमैश्चापि क्षमा शौचेन वल्लभ

5.89.9

अहिंसया च शक्त्या वाऽस्तेयेनापि प्रवर्तते ।
एतैर्दशभिरंगैश्च धर्ममेवं प्रसूयते

5.89.10

संपूर्णो जायते धर्म अंगैर्गर्भो यथोदरे ।
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा

5.89.11

तस्य धर्मः प्रसन्नात्मा पुण्य सौख्यं प्रयच्छति ।
यंयं चिंतयते प्राज्ञस्तंतं प्राप्नोति दुर्लभम्

5.89.12

देवशर्म्मोवाच-
सर्वं देवि समाख्यातं धर्माख्यं ज्ञानमुत्तमम् ।
कथं पुत्रमहं विंद्यां वैष्णवं गुणसंयुतम्

5.89.13

वद त्वं मे महाभागे यदि जानासि सुव्रते ।
धर्ममार्गस्त्वया सर्व्वः पितुः प्राप्तः पुरानघे

5.89.14

ममैतद्विदितं कांते भवती ब्रह्मवादिनी ।
च्यवनस्य प्रसादेन विष्णोस्तुष्टस्य ते पुरा

5.89.15

सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञ तं प्रार्थय महामुनिम् ।
तस्मात्प्राप्स्यसि तं पुत्रं धर्मज्ञं धर्मवत्सलम्

5.89.16

एवमुक्ते तया वाक्ये देवशर्मा द्विजोत्तमः ।
करिष्ये तव कल्याणि मतमेवं न संशयः

5.89.17

एवमुक्त्वा जगामासौ देवशर्मा द्विजोत्तमः ।
वसिष्ठं सर्ववेत्तारं दीप्यंतं तपतां वरम्

5.89.18

गंगातीरे स्थितं पुण्यमासनस्थं द्विजोत्तमम् ।
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्

5.89.19

राजमानं महात्मानं ब्रह्मसिंहं द्विजोत्तमम् ।
भक्त्या प्रणम्य स मुनिं दंडवत्तं पुनःपुनः

5.89.20

तमुवाच महातेजा ब्रह्मसूनुरकल्मषम् ।
उपविशासने पुण्ये सुखेन सुमहामते

5.89.21

नारद उवाच-
उपविष्टः स योगींद्र पुनः प्राह तपोधनम् ।
गृहे पुरुष ते वत्स दारभृत्येषु सर्वदा

5.89.22

क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु ।
निरामयोऽसि चांगेषु धर्मं पालयसे सदा

5.89.23

एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरम् ।
किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम

5.89.24

नारद उवाच-
एवं संभाष्य तं विप्रं विरराम शुभं वचः ।
ततो विप्रो महाभागो वसिष्ठं मुनिपुंगवम्

5.89.25

स होवाच महात्मानं वसिष्ठं तपतां वरम् ।
भगवञ्छ्रूयतां वाक्यं विच्छेदय द्विजोत्तम

5.89.26

दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि ।
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे

5.89.27

महामोहेन संमुग्धः प्रियया बोधितो द्विज ।
तयाहं प्रेषितस्तात तव पार्श्वं समागतः

5.89.28

तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् ।
मुक्तिदाता भव स्वत्वं ममसंसारबंधनात्

5.89.29

वसिष्ठ उवाच-
पुत्रा मित्रास्तथा भ्राता अन्ये स्वजनबांधवाः ।
पंचभेदास्तु संबंधाः पुरुषस्य भवंति ते

5.89.30

तेते सुमनसा प्रोक्ताः पूर्वमेव तवाग्रतः ।
ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम

5.89.31

पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् ।
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा

5.89.32

शुद्धिमाञ्ज्ञानसंपन्नस्तपस्वी वाग्विदां वरः ।
सर्वकर्मसुसंवीतो वेदाध्ययनतत्परः

5.89.33

सर्वशास्त्रप्रवेदी च देवब्राह्मणपूजकः ।
याज्ञिकः सर्वयज्ञानां दाता त्यागी प्रियंवदः

5.89.34

विष्णुध्यानपरो नित्यं शांतोदांतः सुहृत्सदा ।
पितृमातृपरो नित्यं सर्वस्वजनवत्सलः

5.89.35

कुलस्य तारको विद्वान्स्वकुलं परिपोषकः ।
एवंगुणैस्तु संयुक्तः सुपुत्रः सुखदायकः

5.89.36

अन्ये संबंधयुक्ताश्च शोकसंतापकारकाः ।
उदासीनेन किं कार्यं फलहीनेन तेऽनघ

5.89.37

आयांति यांति ते सर्वे दुःखं दत्वा सुदारुणम् ।
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम

5.89.38

पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम् ।
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः

5.89.39

भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा ।
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः

5.89.40

एकभार्यः सदा द्वेषी बहुपुत्रो ह्यदत्तवान् ।
धर्मं नैव विजानासि सत्यं च परिनिष्ठितम्

5.89.41

दानं नैव त्वया दत्तं शास्त्रं नैव परिश्रुतम् ।
कृतं नैव त्वया तीर्थं न च यात्रा महामते

5.89.42

एवं कृतस्त्वया विप्र कृषिमार्गः पुनःपुनः ।
पशूनां पालनं पूर्वंग च्छंश्चैव द्विजोत्तम

5.89.43

महिषीणां तथाश्वीनां पालनं च पुनःपुनः ।
एवं पूर्वं कृतं कर्म त्वयैव च द्विजोत्तम

5.89.44

विपुलं तु धनं तद्वल्लोभेन परिसंचितम् ।
तस्य व्ययस्तु पुण्येन न कृतस्तु त्वया कदा

5.89.45

पात्रे दानं न दत्तं हि दृष्ट्वा वा दुर्बलं च तत् ।
कृषिं कृत्वा न दत्तं तु भवता धनमेव हि

5.89.46

गोमयं हि त्विदं सर्वं पशूनां संचयं च वै ।
विक्रयित्वा धनं विप्र संचितं विपुलं त्वया

5.89.47

तक्रं घृतं तथा क्षीरं विक्रीतं सततं दधि ।
दुष्कालश्चिंतितो विप्र मोहितो विष्णुमायया

5.89.48

कृत्वा महार्घमेवैतद्धनं ब्राह्मणसत्तम ।
निर्दयेन त्वया दानं न दत्तं तु तदा किल

5.89.49

देवानां पूजनं विप्र भवता न कृतं सदा ।
पर्वाणि प्राप्य विप्रेभ्यो द्रव्यं नैव समर्पितम्

5.89.50

श्राद्धकालं च संप्राप्य श्रद्धया न कृतं त्वया ।
भार्या वदति ते साध्वी दिनमध्ये समागते

5.89.51

श्वशुरश्राद्धकालश्च श्वश्र्वाश्चैव महामते ।
तच्छ्रुत्वा तद्वचस्तेषां गृहं त्यक्त्वा पलायसे

5.89.52

धर्ममार्गो न दृष्टो हि श्रुतो नैव कदा त्वया ।
लोभो मातापिता भ्राता लोभः स्वजनबांधवाः

5.89.53

पालितो लोभ एवैकस्त्यक्त्वा धर्मं सदैव हि ।
तस्माद्दुःखी भवाञ्जातो दारिद्रेणाति पीडितः

5.89.54

दिनेदिने महातृष्णा हृदये ते प्रवर्त्तते ।
यदायदा गृहे द्रव्यं वृद्धिमायाति ते सदा

5.89.55

तृष्णया दह्यमानस्तु तदा त्वं वह्निरूपया ।
रात्रौ वा त्वं प्रसुप्तस्तु लोभं चिंतयसेऽधिकम्

5.89.56

दिनं प्राप्य महामोहैर्व्यापितो हि सदैव हि ।
सहस्रं लक्षतः कोटिः कदावार्बुदमेव च

5.89.57

भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे ।
एवं सहस्रलक्षं च कोटिरर्बुदमेव च

5.89.58

खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति ।
एवं कालं परित्यज्य वृद्धिमायाति सर्वदा

5.89.59

नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया ।
निश्चितं भूमिमध्ये तत्क्षिप्तं पुत्रानजानते

5.89.60

अन्यमेवमुपायं तु द्रव्यागमनकारणात् ।
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान्

5.89.61

खनित्रमंजनं वादं धातुवादमतःपरम् ।
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः

5.89.62

सर्वांश्चिंतयसे नित्यं कल्पान्सिद्धि प्रदायकान् ।
प्रवेशं चित्रवर्णानां चिंतामणिं च पृच्छसि

5.89.63

तृष्णानलेनदग्धोसि सुखं नैव प्रगच्छसि ।
तृष्णानलप्रदीप्तोसि हाहाभूतोऽप्रचेतनः

5.89.64

एवंभूतोसि विप्रेंद्र गतस्त्वं कालवश्यताम् ।
दारपुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया

5.89.65

कथितं नैव तद्दत्तं प्राणांस्त्यक्त्वा गतो यमम् ।
एवं सर्वंम याख्यातं वृत्तांतं तव पूर्वकम्

5.89.66

अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान् ।
संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि

5.89.67

सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा ।
संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति

5.89.68

धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम् ।
सभुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान्

5.89.69

विना विष्णोः प्रसादेन दाराः पुत्रा भवंति न ।
सुजन्म च कुले विप्र तद्विष्णोः परमं पदम्

5.89.89

इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने एकोननवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc