भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.86

5.86.1

सूत उवाच-
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः ।
अंबरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत्

5.86.2

अंबरीष उवाच-
मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने ।
सर्वमासाधिकं मासं वैशाखं किं प्रशंससि

5.86.3

सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियः ।
को विधिस्तत्र किं दानं किं तपः का च देवता

5.86.4

त्वत्पादांभोजरजसा पावितस्य च मे मुने ।
उपदेशप्रसादेन प्रसादं कर्तुमर्हसि

5.86.5

धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने ।
त्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः

5.86.6

कर्तोपदेष्टा मंता वानुमंतापि प्रयोजकः ।
शास्त्रविद्भिर्मुनिवर स्मर्यंते समभागिनः

5.86.7

व्रतसत्रतपोदानैर्यत्फलं समवाप्यते ।
धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते

5.86.8

तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुने ।
अपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत्

5.86.9

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते

5.86.10

तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम् ।
दुर्ल्लभो गुरुसंबोधो देशकालोपपत्तयः

5.86.11

न केचन तथा भावाश्चेतः शीतलयंतिनः ।
राज्यलाभादयोऽप्येते यथा तव समागमः

5.86.12

सूत उवाच-।
अथ मंदमृदुस्मेरस्फुरद्दंतप्रभानुगः ।
अंबरीषं प्रत्युवाच नारदो मुनिसत्तमः

5.86.13

नारद उवाच-।
शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तव ।
विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा

5.86.14

दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता ।
मानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम्

5.86.15

ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभा ।
तत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः

5.86.16

तमवाप्य ततो मासं स्नानदानजपादिकम् ।
कुर्वंति विधिना ये तु धन्यास्ते कृतिनो नराः

5.86.17

तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः ।
भवंति भगवद्भावभाविता धर्मकांक्षिणः

5.86.18

माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः ।
ते कोटिवर्षपर्यंतं क्रीडंते नंदने वने

5.86.19

यथा न वारिधिसमो लोके कोऽपि जलाशयः ।
तथा मासो न वैशाखसदृशो माधवप्रियः

5.86.20

तावत्पापानि तिष्ठंति मनुष्याणां कलेवरे ।
यावत्किलमलध्वंसी मासो नायाति माधवः

5.86.21

अवशिष्टदिनान्येव पंचमासस्य तस्य वै ।
एकादशीं समारभ्य सर्वमाससमानि वै

5.86.22

वैशाखे पूजितो देवो माधवो मधुहा तु यैः ।
नानोपचारै राजेंद्र तैः प्राप्तं जन्मनः फलम्

5.86.23

किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवे ।
स्नानेन परमेशस्य पूजनेन यथाविधि

5.86.24

न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् ।
यैर्हि नारायणो नैव ध्यातो निखिलपापहा

5.86.25

तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप ।
द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः

5.86.26

अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम् ।
तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते

5.86.27

न दानेन विना भूप किंचिदप्युपतिष्ठति ।
वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात्

5.86.28

सत्कुले प्राप्यते जन्म वैभवं विविधं तथा ।
सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः

5.86.29

सुजन्ममरणं चापि सुभोगाः सुखमेव च ।
सदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम्

5.86.30

प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः ।
नारायणस्य जायंते सिद्धयो भूप वांच्छिताः

5.86.31

ऊर्जे मासि तपो मासि माधवे माधवप्रिये ।
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम्

5.86.32

विशेषेण समभ्यर्च्य दत्वा दानानि शक्तितः ।
एहिकं सुखमासाद्य नरो हरिपदं व्रजेत्

5.86.33

अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन ।
सूर्योदये भूप यथा तमिस्रं वचः स्वयंभूरिदमादिशन्मे

5.86.34

चकार विष्णुर्विपुलप्रचारं मासस्य वै माधवसंज्ञकस्य ।
यमस्य गुप्तं वचसा विचिंत्य मनुष्यलोकं गमितं चकार

5.86.35

तस्मादस्मिन्समायाते माधवे मासि वैष्णवैः ।
स्नात्वा पुण्यजले तीर्थे गंगायाः पावने नृणाम्

5.86.36

रेवाया वा महाराज यामुने शारदेऽथवा ।
प्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम

5.86.37

पूजयित्वा च देवेशं मुकुंदं मधुसूदनम् ।
पुत्रपौत्रधनैः श्रेयो वांच्छितानि सुखानि च

5.86.38

अनुभूय तपस्त्वंते स्वर्गमक्षयमाप्नुयात् ।
एवं ज्ञात्वा महाभाग मधुसूदनमर्चय

5.86.39

स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतः ।
देवमाराध्य गोविन्दं नारायणमनामयम्

5.86.40

प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदम् ।
देवदेवं नमस्कृत्य माधवं पापनाशनम्

5.86.41

प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृप ।
यमैश्च नियमैर्युक्तः शक्त्या किंचित्प्रदाय च

5.86.42

हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः ।
कृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि

5.86.43

एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम् ।
भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम्

5.86.44

अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान् ।
यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः

5.86.45

तथैव माधवो मासो मधुसूदनवल्लभः ।
एवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम्

5.86.46

उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये ।
इदं माधवमासस्य माहात्म्यं कथितं तव

5.86.47

यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप

5.86.86

इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये षडशीतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc