भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.67

5.67.5.67

सप्तषष्टितमोऽध्यायः

5.67.1

शेष उवाच।
अथ सौमित्रिरागत्य जानकीं नतवान्मुहुः ।
प्रेमगद्गदया शंसन्वाचं रामप्रणोदिताम्

5.67.2

सीता समागतं दृष्ट्वा लक्ष्मणं विनयान्वितम् ।
तन्मुखाद्रामसंदेशं श्रुत्वोवाच विलज्जिता

5.67.3

सौमित्रे कथमागच्छे रामत्यक्ता महावने ।
तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहम्

5.67.4

तस्या मुखोदितं वाक्यं श्रुत्वा सौमित्रिरब्रवीत् ।
मातः पतिव्रते रामस्त्वामाकारयते मुहुः

5.67.5

पतिव्रता पतिकृतं दोषं नानयते हृदि ।
तस्मादागच्छ हि मया स्थित्वा स्यंदन उत्तमे

5.67.6

इत्यादि वचनं श्रुत्वा जानकी पतिदेवता ।
मनोरोषं परित्यज्य तस्थौ सौमित्रिणा रथे

5.67.7

तापसीः सकला नत्वा मुनींश्च निगमोज्ज्वलान् ।
रामं स्मरंती मनसा रथे स्थित्वागमत्पुरीम्

5.67.8

क्रमेण नगरीं प्राप्ता महार्हाभरणान्विता ।
सरयूं सरितं प्राप यत्र रामः स्वयं स्थितः

5.67.9

रथादुत्तीर्य ललिता लक्ष्मणेन समन्विता ।
रामस्य पादयोर्लग्ना पतिव्रतपरायणा

5.67.10

रामस्तामागतां दृष्ट्वा जानकीं प्रेमविह्वलाम् ।
साध्वि त्वया सहेदानीं कुर्वे यज्ञसमापनम्

5.67.11

वाल्मीकिं सा नमस्कृत्य तथान्यान्विप्रसत्तमान् ।
जगाम मातृपदयोः सन्नतिं कर्तुमुत्सुका

5.67.12

कौशल्या तामथायांतीं वीरसूं जानकीं प्रियाम् ।
आशीर्भिरभिसंयुज्य ययौ हर्षमनेकधा

5.67.13

कैकेयीपदयोर्नम्रां वीक्ष्य वैदेहपुत्रिकाम् ।
भर्त्रा सह चिरं जीव सपुत्रेत्याशिषं व्यधात्

5.67.14

सुमित्रा स्वपदेनम्रां वीक्ष्य वैदेहपुत्रिकाम् ।
आशिषं व्यदधात्तस्याः पुत्रपौत्रप्रदायिनीम्

5.67.15

सीता ताः सर्वतो नत्वा रामचंद्र प्रिया सती ।
परमं हर्षमापन्ना बभूव किल वाडव

5.67.16

समागतां वीक्ष्य पत्नीं रामचंद्रस्य कुंभजः ।
सुवर्णपत्नीं धिक्कृत्य तामधाद्धर्मचारिणीम्

5.67.17

रामस्तदा यज्ञमध्ये शुशुभे सीतया सह ।
तारयानुगतो यद्वच्छशीव शरदुत्प्रभः

5.67.18

प्रयोगमकरोत्तत्र काले प्राप्ते मनोरमे ।
वैदेह्या धर्मचारिण्या सर्वपापापनोदनम्

5.67.19

सीतया सहितं रामं प्रसक्तं यज्ञकर्मणि ।
निरीक्ष्य जहृषुस्तत्र कौतुकेन समन्विताः

5.67.20

वसिष्ठं प्राह सुमतिं रामस्तत्र क्रतौ वरे ।
किं कर्तव्यं मया स्वामिन्नतः परमवश्यकम्

5.67.21

रामस्य वचनं श्रुत्वा गुरुः प्राह महामतिः ।
ब्राह्मणानां प्रकर्तव्या पूजा संतोषकारिका

5.67.22

मरुत्तेन क्रतुः सृष्टः पूर्वं संभारसंभृतः ।
ब्राह्मणास्तत्र वित्ताद्यैस्तोषिता अभवंस्तदा

5.67.23

अत्यंतं वित्तसंभारं नेतुं विप्राशकन्नहि ।
प्राक्षिपन्हिमवद्देशे वित्तभारासहा द्विजाः

5.67.24

तस्मात्त्वमपि राजाग्र्य लक्ष्मीवान्नृपसत्तम ।
देहि दानादि विप्रेभ्यो यथा स्यात्प्रीतिरुत्तमा

5.67.25

एतच्छ्रुत्वा स राजाग्र्यः पूज्यं मत्वा घटोद्भवम् ।
प्रथमं पूजयामास ब्रह्मपुत्रं तपोधनम्

5.67.26

अनेकरत्नसंभारैः स्वर्णभारैरनेकधा ।
देशैर्जनैः परिवृतैरत्यंतप्रीतिदायकैः

5.67.27

अगस्त्यं पूजयामास सपत्नीकं मनोरमम् ।
तथैव रत्नैः स्वर्णैश्च देशैश्च विविधैरपि

5.67.28

व्यासं सत्यवतीपुत्रं तथैव समपूजयत् ।
च्यवनं भार्यया साकं सुरत्नैः समपूजयत्

5.67.29

अन्यानपि मुनीन्सर्वानृत्विजस्तपसां निधीन् ।
पूजयामास रत्नौघैः स्वर्णभारैरनेकधा

5.67.30

अदात्तदा क्रतौ रामो विप्रेभ्यो भूरिदक्षिणाम् ।
लक्षंलक्षं सुवर्णस्य प्रत्येकं त्वग्रजन्मने

5.67.31

दीनांधकृपणेभ्यश्च ददौ दानमनेकधा ।
यथासंतोषविहितैर्वित्तै रत्नैर्मनोहरैः

5.67.32

वासांसि च विचित्राणि भोजनानि मृदूनि च ।
तत्र प्रादाद्यथाशास्त्रं सर्वेषां प्रीतिदायकम्

5.67.33

हृष्टपुष्टजनाकीर्णं सर्वसत्त्वोपबृंहितम् ।
अत्यंतमभवद्धृष्टं पुरं पुंस्त्रीसमावृतम्

5.67.34

दानं ददंतं सर्वेषां वीक्ष्य कुंभोद्भवो मुनिः ।
अत्यंतपरमप्रीतिं ययौ क्रतुवरे द्विजः

5.67.35

तदाभिषेकस्नानार्थं पानीयममृतोपमम् ।
आनेतुं च चतुःषष्टि नृपान्सस्त्रीन्समाह्वयत्

5.67.36

रामस्तु सीतया सार्द्धमानेतुमुदकं ययौ ।
घटेन स्वर्णवर्णेन सर्वालंकारशोभया

5.67.37

सौमित्रिरप्यूर्मिलया मांडव्या भरतो नृपः ।
शत्रुघ्नः श्रुतकीर्त्या च कांतिमत्या च पुष्कलः

5.67.38

सुबाहुः सत्यवत्या च सत्यवान्वीरभूषया ।
सुमदस्तत्र सत्कीर्त्या राज्ञ्या च विमलो नृपः

5.67.39

राजावीरमणिस्तत्र श्रुतवत्या मनोज्ञया ।
लक्ष्मीनिधिः कोमलया रिपुतापोंगसेनया

5.67.40

विभीषणो महामूर्त्या प्रतापाग्र्यः प्रतीतया ।
उग्राश्वः कामगमया नीलरत्नोधिरम्यया

5.67.41

सुरथः सुमनोहार्या तथा मोहनया कपिः ।
इत्यादीन्नृपतीन्विप्रो वसिष्ठः प्राहिणोन्मुनिः

5.67.42

वसिष्ठः सरयूं गत्वा शिवपुण्यजलाप्लुताम् ।
उदकं मंत्रयामास वेदमंत्रेण मंत्रवित्

5.67.43

पयः पुनीह्यमुं वाहमुदकेन मनोहृता ।
यज्ञार्थं रामचंद्रस्य सर्वलोकैकरक्षितुः

5.67.44

उदकं तन्मुनिस्पृष्टं सर्वे रामादयो नृपाः ।
आजह्रुर्मंडपतले विप्रवर्यैरुपस्तुते

5.67.45

पयोभिर्निर्मलैः स्नाप्य वाजिनं क्षीरसन्निभम् ।
मंत्रेण मंत्रयामास राम हस्तेन कुंभजः

5.67.46

पुनीहि मां महावाह अस्मिन्ब्रह्मसमाकुले ।
त्वन्मेधेनाखिला देवाः प्रीणंतु परितोषिताः

5.67.47

इत्युक्त्वा स नृपो रामः सीतया सममस्पृशत् ।
तदा सर्वे द्विजाश्चित्रममन्यंत कुतूहलात्

5.67.48

परस्परमवोचंस्ते यन्नामस्मरणान्नराः ।
महापापात्प्रमुच्यंते स रामः किं वदत्यहो

5.67.49

इत्युक्तवति भूमीशे रामे कुंभोद्भवो मुनिः ।
करवालं चाभिमंत्र्य ददौ रामकरे मुनिः

5.67.50

करवाले धृते स्पृष्टे रामेण स हयः क्रतौ ।
पशुत्वं तु विहायाशु दिव्यरूपमपद्यत

5.67.51

विमानवरमारूढश्चाप्सरोभिः समंततः ।
चामरैर्वीज्यमानश्च वैजयंत्या विभूषितः

5.67.52

तदा तं वाजितां त्यक्त्वा दिव्यरूपधरं वरम् ।
वीक्ष्य लोकाः क्रतौ सर्वे विस्मयं प्राप्नुवंस्तदा

5.67.53

तदा रामः स्वयं जानञ्ज्ञापयन्सर्वतो नरान् ।
पप्रच्छ दिव्यरूपं तं सुरं परमधार्मिकः

5.67.54

कस्त्वं दिव्यवपुः प्राप्तः कस्मात्त्वं वाजितां गतः ।
कथं सुरस्त्रीसहितः किं चिकीर्षसि तद्वद

5.67.55

रामस्य वचनं श्रुत्वा देवः प्रोवाच भूमिपम् ।
हसन्मेघरवां वाणीमवदत्सुमनोहराम्

5.67.56

तवाज्ञातं न सर्वत्र बाह्याभ्यंतरचारिणः ।
तथापि पृच्छते तुभ्यं कथयामि यथातथम्

5.67.57

अहं पुराभवे राम द्विजः परमधार्मिकः ।
अचरं प्रतिकूलं वै वेदस्य रिपुतापन

5.67.58

कदाचिद्धुतपापायास्तीरेऽहं गतवान्पुरा ।
अनेकवृक्षललिते सर्वत्रसुमनोरमे

5.67.59

तत्र स्नात्वा पितॄंस्तृप्त्वा दानं दत्त्वा यथाविधि ।
ध्यानं तव महाबाहो कृतवान्वेदसंमितम्

5.67.60

तदा जनाः समायाता बहवस्तत्र भूपते ।
तेषां प्रवंचनार्थाय दंभमेनमकारिषम्

5.67.61

अनेकक्रतुसंभारैः पूर्णमजिरमुत्तमम् ।
वासोभिश्छादितं रम्यं चषालादियुतं महत्

5.67.62

अग्निहोत्रोद्भवोधूमः सर्वतो नभसोंगणम् ।
चकार रम्यमतुलं चित्रकारिवपुर्धरः

5.67.63

अनेकतिलकश्रीभिः शोभितांगो महत्तपाः ।
दर्भशोभः समित्पाणिर्दंभो मूर्तिधरः किमु

5.67.64

दुर्वासास्तत्र स्वच्छंदं पर्यटञ्जगतीतलम् ।
प्राप तत्र महातेजा धूतपापसरित्तटे

5.67.65

ददर्श मां दंभकरं मौनधारिणमग्रतः ।
अनर्घ्यकरमुन्मत्तमस्वागतवचः करम्

5.67.66

दृष्ट्वातीव क्रुधाक्रांतः समुद्र इव पर्वणि ।
शशापासौ मुनिस्तीव्रो दंभिनं मां महामतिः

5.67.67

दंभं करोषि चेत्तीरे सरितस्त्वं सुदुर्मते ।
तस्मात्प्राप्नुहि निर्वाच्यं पशुत्वं तापसाधम

5.67.68

शापं प्रदत्तं संश्रुत्य दुःखितोऽहं तदाभवम् ।
अग्राहिषं पदे तस्य मुनेर्दुर्वाससः किल

5.67.69

तदा मे कृतवान्राम द्विजोऽनुग्रहमुत्तमम् ।
वाजितां प्राप्नुहि मखे राजराजस्य तापस

5.67.70

पश्चात्तद्धस्तसंपर्काद्याहि तत्परमं पदम् ।
दिव्यं वपुर्मनोहारि धृत्वा दंभविवर्जितम्

5.67.71

तेन शापोपिसंदिष्टो ममानुग्रहतां गतः ।
यदहं तव हस्तस्य स्पर्शं प्राप्तो मनोरमम्

5.67.72

यदेव राम देवादिदुर्लभं बहुजन्मभिः ।
तत्तेऽहं करजस्पर्शं प्राप्तवानिह दुर्लभम्

5.67.73

आज्ञापय महाराज त्वत्प्रसादादहं महत् ।
गच्छामि शाश्वतं स्थानं तव दुःखादिवर्जितम्

5.67.74

न यत्र शोको न जरा न मृत्युः कालविभ्रमः ।
तत्स्थानं देव गच्छामि त्वत्प्रसादान्नराधिप

5.67.75

इत्युक्त्वा तं परिक्रम्य विमानवरमारुहत् ।
अनेकरत्नखचितं सर्वदेवाधिवंदितम्

5.67.76

गतोऽसौ शाश्वतस्थानं रामपादप्रसादतः ।
पुनरावृत्तिरहितं शोकमोहविवर्जितम्

5.67.77

तेन तत्कथितं श्रुत्वा रामं ज्ञात्वेतरे जनाः ।
विस्मयं प्रापिरे सर्वे परस्परमुदुन्मदाः

5.67.78

शृणु द्विजमहाबुद्धे दंभेनापि स्मृतो हरिः ।
ददाति मोक्षं सुतरां किं पुनर्दंभवर्जनात्

5.67.79

यथाकथंचिद्रामस्य कर्तव्यं स्मरणं परम् ।
येन प्राप्नोति परमं पदं देवादिदुर्लभम्

5.67.80

तच्चित्रं वीक्ष्य मुनयः कृतार्थं मेनिरे निजम् ।
यद्रामचरणप्रेक्षा करस्पर्शपवित्रितम्

5.67.81

गते तस्मिन्सुरे स्वर्गं हयरूपधरे पुरा ।
उवाच रामस्तपसां निधीन्वेदविदुत्तमान्

5.67.82

किं कर्तव्यं मयाब्रह्मन्हयो नष्टो गतः सुखम् ।
होमः कथं पुरोभावी सर्वदैवततर्पकः

5.67.83

यथा स्यात्सुरसंतृप्तिर्यथा मे मख उत्तमः ।
तथा कुर्वंतु मुनयो यथा मे स्याद्विधिश्रुतम्

5.67.84

इति वाक्यं समाश्रुत्य जगाद मुनिसत्तमः ।
वसिष्ठः सर्वदेवानां चित्ताभिज्ञानकोविदः

5.67.85

कर्पूरमाहर क्षिप्रं येन देवाः स्वयं पुरा ।
प्राप्य हव्यं ग्रहीष्यंति मद्वाक्यप्रेरिताधुना

5.67.86

इति वाक्यं समाकर्ण्य रामः क्षिप्रमुपाहरत् ।
कर्पूरं बहुदेवानां प्रीत्यर्थं बहुशोभनम्

5.67.87

तदा मुनिः प्रहृष्टात्मा देवानाह्वयदद्भुतान् ।
ते सर्वे तत्क्षणात्प्राप्ताः स्वपरीवारसंवृताः

5.67.67

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे यज्ञप्रारंभोनाम सप्तषष्टितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc