भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.60

5.60.1

शेष उवाच।
शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन् ।
उवाच तान्सुकुपितो रोषसंदंशिताधरः

5.60.2

केन वीरेण वो बाहुकृंतनं समकारि भोः ।
तस्याहं बाहू कृंतामि देवगुप्तस्य वै भटाः

5.60.3

न जानाति महामूढो रामचंद्र बलं महत् ।
इदानीं दर्शयिष्यामि पराक्रांत्या बलं स्वकम्

5.60.4

स कुत्र वर्तते वीरो हयः कुत्र मनोरमः ।
को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम्

5.60.5

इति ते कथिता वीरा विस्मिता दुःखिता भृशम् ।
रामचंद्र प्रतिनिधिं बालकं समशंसत

5.60.6

स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम् ।
सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः

5.60.7

सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया ।
रिपुः संप्रति गंतव्यो महाबलपराक्रमः

5.60.8

नायं बालो हरिर्नूनं भविष्यति हयंधरः ।
अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत्

5.60.9

अवश्यं कदनं भाविसैन्यस्य बलिनो महत् ।
स्वच्छंदचरितैः खेलन्नास्ते निर्भयधीः शिशुः

5.60.10

तत्र गंतव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः ।
एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः

5.60.11

सज्जीचकार सेनां तां दुर्व्यूढां चतुरंगिणीम् ।
सज्जां तां शत्रुजिद्दृष्ट्वा चतुरंगयुतां वराम्

5.60.12

आज्ञापयत्ततो गंतुं यत्र बालो हयंधरः ।
सा चचाल तदा सेना चतुरंगसमन्विता

5.60.13

कंपयंती महीभागं त्रासयंती रिपून्बलात् ।
सेनानीस्तं ददर्शाथ बालकं रामरूपिणम्

5.60.14

विचार्य रामप्रतिममब्रवीद्वचनं हितम् ।
बाल मुंच हयश्रेष्ठं रामस्य बलशालिनः

5.60.15

सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः ।
त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते

5.60.16

अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति ।
एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि

5.60.17

जहास किंचिदाकोपादुवाच च वचोद्भुतम् ।
गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम्

5.60.18

त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना ।
ममात्र गणना नास्ति त्वादृशाः कोटयो यदि

5.60.19

मातृपादप्रसादेन तूलीभूता न संशयः ।
कालजित्तव यन्नाम मात्राकारि मनोज्ञया

5.60.20

पक्वबिंबफलस्येव वर्णतो न च वीर्यतः ।
दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः

5.60.21

मां कालं तव संजित्य सत्यनामा भविष्यसि ।
शेष उवाच।
स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः

5.60.22

चुकोप हृदयेऽत्यतं जगाद वचनं पुनः ।
कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक ।
त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा

5.60.23

पादचारं रथस्थोऽहमधर्मेण कथं जये ।
तदात्यंतं प्रकुपितो जगाद वचनं पुनः

5.60.24

कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा ।
लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान्

5.60.25

इदानीं त्वामपि भटं करिष्ये पादचारिणम् ।
इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली

5.60.26

टंकारयामास तदा वीरानाकंपयन्हृदि ।
वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः

5.60.27

मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः ।
कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः

5.60.28

ताडयामास जवनो लवं रणविशारदः ।
तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः

5.60.29

सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः ।
विरथो गजमानीतमारुरोह भटैर्निजैः

5.60.30

मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम् ।
गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः

5.60.31

बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी ।
कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः

5.60.32

गदां मुमोच महतीं महायस विनिर्मिताम् ।
आपतंतीं गदां वेगाद्भारायुतविनिर्मिताम्

5.60.33

त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः ।
परिघं निशितं घोरं वैरिप्राणहरोदितम्

5.60.34

मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः ।
छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः

5.60.35

गजोपस्थे समारूढं मन्यमानश्चुकोप ह ।
तत्क्षणादच्छिनत्तस्य शुंडां खड्गेन दंतिनः

5.60.36

दंतयोश्चरणौ धृत्वा रुरोह गजमस्तके ।
मुकुटं शतधा कृत्वा कवचं तु सहस्रधा

5.60.37

केशेष्वाकृष्य सेनान्यं पातयामास भूतले ।
पातितः स गजोपस्थात्सेनानीः कुपितः पुनः

5.60.38

हृदये ताडयामास मुष्टिना वज्रमुष्टिना ।
स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान्

5.60.39

मुमोच हृदये क्षिप्रं कुंडलीकृतधन्ववान् ।
स रराज रणोपांते कुंडलीकृत चापवान्

5.60.40

शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः ।
स विद्धः सायकैस्तीक्ष्णैस्तं हंतुं खड्गमाददे

5.60.41

दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः ।
खड्गहस्तं समायांतं शूरं सेनापतिं लवः

5.60.42

चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत् ।
छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः

5.60.43

वामेन गदया हंतुं प्रचक्राम भुजेन तम् ।
सोऽपि च्छिन्नो भुजस्तस्य सांगदस्तीक्ष्णसायकैः

5.60.44

तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम् ।
लवः पादाहतस्तस्य न चचाल रणांगणे

5.60.45

स्रजाहतो द्विप इव चरणच्छेदनं व्यधात् ।
तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे

5.60.46

तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम् ।
करवालं समादाय करे कालानलोपमम्

5.60.47

अच्छिनच्छिर एतस्य महामुकुटशोभितम् ।
हाहाकारो महानासीच्चमूनाथे निपातिते

5.60.48

सैनिकाः परिसंक्रुद्धा लवं हंतुं समागताः ।
लवस्तान्स्वशराघातैः पलायनपरान्व्यधात्

5.60.49

छिन्नाभिन्नांगकाः केचिद्गता केचिद्रणांगणात् ।
स निवार्याखिलान्योधान्विजगाह चमूं मुदा

5.60.50

वाराह इव निःश्वस्य प्रलये सुमहार्णवम् ।
गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही

5.60.51

दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा ।
अश्वाः कनकपल्याणा रुचिरारत्नराजिताः

5.60.52

अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः ।
रथिनः करमध्यस्थ धनुर्दंडसुशोभिनः

5.60.53

रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः ।
संदष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः

5.60.54

पतितास्तत्र दृश्यंते वीरा रणविशारदाः ।
सुस्राव शोणितसरिद्धयमस्तककच्छपा

5.60.55

महाप्रवाहललिता वैरिणां भयकारिका ।
केषांचिद्बाहविश्छिन्नाः केषां पादा विकर्तिता

5.60.56

केषां कर्णाश्च नासाश्च केषां कवचकुंडले ।
एवं तु कदनं जातं सेनान्यां पतिते रणे

5.60.57

सर्वे निपतिता वीरा न केचिज्जीवितास्ततः ।
लवो जयं रणे प्राप्य वैरिवृंदं विजित्य च

5.60.58

अन्यागमनशंकायां मनः कुर्वन्नवैक्षत ।
केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः

5.60.59

शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम् ।
गत्वा ते कथयामासुर्यथावृत्तं रणांगणे

5.60.60

कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम् ।
तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह

5.60.61

हसन्रोषाद्दशन्दंतान्बालग्राह हयं स्मरन् ।
रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः

5.60.62

किं वा वैकल्यमायातं कालजिन्मरणं कथम् ।
यः संख्ये वैरिवृंदानां दारुणः समितिंजयः

5.60.63

तं कथं बालको जीयाद्यमस्यापि दुरासदम् ।
शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः

5.60.64

नास्माकं मदमत्तादि न च्छलो न च देवनम् ।
कालजिन्मरणं सत्यं लवाज्जानीहि भूपते

5.60.65

बलं च कृत्स्नं मथितं बालेनातुलशौंडिना ।
अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः

5.60.66

बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम् ।
इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा

5.60.67

सुमतिं च मतिश्रेष्ठमुवाच रणकारणे

5.60.60

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवयुद्धे सैन्यपराजय कालजित्सेनानीमरणंनाम षष्टितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc