भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.56

5.56.1

शेष उवाच।
प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान् ।
हिरण्यदानैः संतर्प्य विधिवत्संसदं ययौ

5.56.2

लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम् ।
पुत्रवत्स्वप्रजाः सर्वाः पालयंतं ययुः सभाम्

5.56.3

लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेः ।
तदा भरतशत्रुघ्नौ चामरद्वंद्व धारिणौ

5.56.4

वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासत ।
सुमंत्रप्रमुखास्तत्र मंत्रिणो न्यायकर्तृकाः

5.56.5

एवं प्रवृत्ते समये षट्चारास्ते स्वलंकृताः ।
समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम्

5.56.6

तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः ।
सभायामंतरावेश्म रहः प्राविशदुत्सुकः

5.56.7

एकांते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपः ।
कथयंतु चरा मह्यं यथातथ्यमरिंदमाः

5.56.8

लोका ब्रुवंति मां कीदृग्भार्याया मम कीदृशम् ।
मंत्रिणां कीदृशं लोका वदंति चरितं कथम्

5.56.9

इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन् ।
मेघगंभीरया वाचा पृच्छंतं रघुनायकम्

5.56.10

चारा ऊचुः।
नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि ।
गृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता

5.56.11

विवस्वतो महान्वंशो भवता परमेष्ठिना ।
अलंकर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः

5.56.12

अनेके सगराद्याश्च कीर्तिमंतो महाबलाः ।
अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव

5.56.13

त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः ।
यासां नाकालमरणं न च रागाद्युपद्रुतिः

5.56.14

यादृशश्चंद्रमालोके यादृशी जाह्नवी सरित् ।
तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम्

5.56.15

ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम् ।
नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान्

5.56.16

वयं धन्यतमाः सर्वे ये चारास्तव भूपते ।
क्षणेक्षणे तव मुखं लोकयाम मनोहरम्

5.56.17

इत्यादिवाक्यं चाराणां पंचानां वीक्ष्य राघवः ।
षष्ठं पप्रच्छ चारं तं विलक्षणमुखांकितम्

5.56.18

राम उवाच।
सत्यं वद महाबुद्धे यच्छ्रुतं लोकसंकरे ।
तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत्

5.56.19

पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम् ।
तथापि न ब्रवीत्येव रामं लौकिकभाषितम्

5.56.20

तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम् ।
शपामि त्वां तु सत्येन शंस सर्वं यथातथम्

5.56.21

तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः ।
अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम्

5.56.22

चार उवाच।
स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका ।
अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो

5.56.23

कारुरेकस्तु रजको निशीथे महिलां स्वकाम् ।
अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत्

5.56.24

तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम् ।
गृहाण मा कृथा निंदां स्त्रियं मद्वाक्यमाचर

5.56.25

तदावोचत्स रजको नाहं रामो महीपतिः ।
यद्राक्षसगृहेध्युष्टां सीतामंगीचकार सः

5.56.26

सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो ।
अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत्

5.56.27

पुनः पुनरुवाचासौ नाहं रामो महीपतिः ।
चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम्

5.56.28

तदानीं शिर आच्छिद्य पातयामि महीतले।
कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु

5.56.29

अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते ।
आज्ञापयसि चेद्राम सांप्रतं मारयामि तम्

5.56.30

अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम् ।
राजा प्रमाणमत्रेदं विचारयतु संगतम्

5.56.31

शेष उवाच।
इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम् ।
निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत्

5.56.32

तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः ।
वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे

5.56.33

स लब्धसंज्ञो नृपतिर्मुहूर्तेन जगाद तान् ।
गच्छंतु भरतं शीघ्रं प्रेषयंतु च मां प्रति

5.56.34

ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः ।
कथयामासु रामस्य संदेशं नयहारकाः

5.56.35

भरतो रामसंदेशं श्रुत्वा धीमान्ययौ सदः ।
रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः

5.56.36

आगत्य तं प्रतीहारं प्रत्युवाच महामनाः ।
कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः

5.56.37

तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम् ।
रामं विलोक्य विक्लांतं भयमाप स मानसे

5.56.38

किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः ।
तदा प्रोवाच नृपतिं निःश्वसंतं मुहुर्मुहुः

5.56.39

स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम् ।
अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते

5.56.40

सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते ।
त्यज दुःखं महाराज कथं दुःखस्य भाजनम्

5.56.41

एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा ।
प्रोवाच भ्रातरं वीरो रामचंद्रश्च धार्मिकः

5.56.42

शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम् ।
तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते

5.56.43

वंशे वैवस्वते राजा न कश्चिदयशः क्षतः ।
मत्कीर्तिरद्य कलुषा गंगायमुनया गता

5.56.44

येषां यशो नृणां भूमौ तेषामेव सुजीवितम् ।
अपकीर्तिक्षतानां तु जीवितं मृतकैः समम्

5.56.45

येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः ।
अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः

5.56.46

अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता ।
तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम्

5.56.47

अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम् ।
किंचिद्वाच्यं ततो भ्रातः किं करोमि महीतले

5.56.48

किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम् ।
उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान्

5.56.49

इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभितांगकः ।
पपात भूमौ विरजो धार्मिकाणां शिरोमणिः

5.56.50

भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः ।
संवीक्ष्य शनकै रामं प्राप्तसंज्ञं चकार सः

5.56.51

संज्ञां प्राप्तं तु संवीक्ष्य रामचंद्रं सुदुःखितम् ।
उवाच दुःखनाशाय वाक्यं तु सुमनोहरम्

5.56.52

कोऽयं वै रजकः किंतु वाच्यं वाक्यं यथाब्रवीत् ।
जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः

5.56.53

तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम् ।
श्रुतं चारेण तत्सर्वं भरताय महात्मने

5.56.54

तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम् ।
जानकीवह्निशुद्धाभूल्लंकायां वीरपूजिता

5.56.55

ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तव ।
कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता

5.56.56

ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हि ।
सा कथं रजकोक्त्या वै कलुषाद्य भविष्यति

5.56.57

तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम् ।
कुरु राज्यं तया सार्धमंतर्वत्न्या सुभाग्यया

5.56.58

त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम् ।
वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम्

5.56.59

क्षणं सीता न जीवेत त्वां विना सुमहोदया ।
तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम्

5.56.60

इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः ।
पुनरेव जगादेमं वाक्यं वाक्यविदां वरः

5.56.61

यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम् ।
परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया

5.56.62

जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम् ।
लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम्

5.56.63

तस्मात्करे शितं धृत्वा करवालं सुदारुणम् ।
शिरश्छिंध्यथवा जायां जानकीं मुंच वै वने

5.56.64

इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत् ।
मूर्च्छितः सन्क्षितौ देहे कंपयुक्तः सबाष्पकः

5.56.56

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे भरतवाक्यंनाम षट्पंचाशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc