भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.51

5.51.1

शेष उवाच।
तच्छ्रुत्वा भाषितं तस्य सुरथस्यांगदाननात् ।
सज्जीभूता रणे सर्वे रथस्था रणकोविदाः

5.51.2

पटहानां निनादोऽभूद्भेरीनादस्तथैव च ।
वीराणां गर्जनानादाः प्रादुर्भूता रणांगणे

5.51.3

रथचीत्कारशब्देन गजानां बृंहितेन च ।
व्याप्तं तत्सकलं विश्वं दिवं यातो महारवः

5.51.4

रणोत्साहेन संयुक्ता वीरा रणविशारदाः ।
कुर्वंति विविधान्नादान्कातरस्य भयंकरान्

5.51.5

एवं कोलाहले वृत्ते सुरथो नाम भूमिपः ।
स्वसुतैः सैनिकैश्चाथ वृतः प्रायाद्रणांगणे

5.51.6

गजैरथैर्हयैः पत्तिव्रजैः पूर्णां तु मेदिनीम् ।
कुर्वन्समुद्रैव तां प्लावयन्ददृशे भटैः

5.51.7

शंखनादेन संघुष्टं जयनादैस्तथैव च ।
वीक्ष्य तं प्रधनोद्युक्तं सुमतिं प्राह भूमिपः

5.51.8

शत्रुघ्न उवाच।
एष राजा समायातो महासैन्यपरीवृतः ।
अत्र यत्कृत्यमस्माकं तद्वदस्व महामते

5.51.9

सुमतिरुवाच।
योद्धव्यमत्र बहुभिर्वीरै रणविशारदैः ।
पुष्कलादिभिरत्युग्रैः सर्वशस्त्रास्त्रकोविदैः

5.51.10

राज्ञा सह समीरस्य पुत्रः परमशौर्यवान् ।
युद्धं करोतु सुबलः परयुद्धविशारदः

5.51.11

शेष उवाच।
इति ब्रूते महामात्यो यावत्तावन्नृपात्मजाः ।
रणांगणे धनूंष्यद्धा स्फारयामासुरुद्धताः

5.51.12

तान्वीक्ष्य योधाः सुबलाः पुष्कलाद्या रणोत्कटाः ।
अभिजग्मुः स्यंदनैः स्वैर्धनुर्बाणकरा मताः

5.51.13

चंपकेन महावीरः पुष्कलः परमास्त्रवित् ।
द्वैरथेनैव युयुधे महावीरेण शालिना

5.51.14

मोहकं योधयामास जानकिः स कुशध्वजः ।
रिपुंजयेन विमलो दुर्वारेण सुबाहुकः

5.51.15

प्रतापिना प्रतापाग्र्यो बलमोदेन चांगदः ।
हर्यक्षेण नीलरत्नः सहदेवेन सत्यवान्

5.51.16

राजा वीरमणिर्भूरि देवेन युयुधे बली ।
असुतापेन चोग्राश्वो युयुधे बलसंयुतः

5.51.17

द्वैरथं तु महद्युद्धमकुर्वन्युद्धकोविदाः ।
सर्वे शस्त्रास्त्रकुशलाः सर्वे युद्धविशारदाः

5.51.18

एवं प्रवृत्ते संग्रामे सुरथस्य सुतैस्तदा ।
अत्यंतं कदनं तत्र बभूव मुनिसत्तम

5.51.19

पुष्कलश्चंपकं प्राह किं नामासि नृपात्मज ।
धन्योसि यो मया सार्धं रणमध्यमुपेयिवान्

5.51.20

इदानीं तिष्ठ किं यासि कथं ते जीवितं भवेत् ।
एहि युद्धं मया सार्धं सर्वशस्त्रास्त्रकोविद

5.51.21

इत्यभिव्याहृतं तस्य श्रुत्वा राजात्मजो बली ।
जगाद पुष्कलं वीरो मेघगंभीरया गिरा

5.51.22

चंपक उवाच।
न नाम्ना न कुलेनेदं युद्धमत्र भविष्यति ।
तथापि तव वक्ष्येऽहं स्वनामबलपूर्वकम्

5.51.23

मम माता राघवेशो मत्पिता राघवः स्मृतः ।
मम बंधू रामचंद्र स्वःजनो मम राघवः

5.51.24

मन्नाम रामदासश्च सदा रामस्य सेवकः ।
तारयिष्यति मां युद्धे रामो भक्तकृपाकरः

5.51.25

लोकानां मतमास्थाय प्रब्रवीमि तवाधुना ।
सुरथस्य सुतश्चाहं माता वीरवतीमम

5.51.26

मन्नामयो मधौ सर्वाञ्छोभनान्विदधाति वै ।
मधुपायंरसावा संत्यजंति मधुमोहिताः

5.51.27

वर्णेन स्वर्णसदृशो मध्ये लिंगवपुर्धरः ।
तदाख्ययाभिधां वीर जानीहि मम मोहिनीम्

5.51.28

युध्यस्व बाणैः प्रधनेन को जेतुं हि मां क्षमः ।
इदानीं दर्शयिष्यामि स्वपराक्रममद्भुतम्

5.51.29

शेष उवाच।
इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः ।
तं दुर्जयं मन्यमानः शरान्मुंचन्रणेऽभवत्

5.51.30

शरसंघं प्रमुंचंतं कोटिधा पुष्कलं ययौ ।
चंपकः कोपसंयुक्तो धनुः सज्यमथाकरोत्

5.51.31

मुमोच निशितान्बाणान्वैरिवृंदविदारणान् ।
स्वनामचिह्नितान्स्वर्णपुंखभागसमन्वितान्

5.51.32

तांश्चिच्छेद महावीरः पुष्कलः प्रधनांगणे ।
शरांधकारं सर्वत्र मुंचन्बाणाञ्छिलाशितान्

5.51.33

स्वबाणच्छेदनं दृष्ट्वा कृतं वीरेण चंपकः ।
आह्वयामास बलिनं पुष्कलं कोपपूरितः

5.51.34

मा प्रयाहि रणं त्यक्त्वेति ब्रुवन्समरे पुनः ।
पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन्

5.51.35

ते बाणाः पुष्कलस्याहो हृदये तीव्रवेगिनः ।
आगत्य सुभृशं लग्नाः शोणितं पपुरूर्जितम्

5.51.36

तैर्बाणैर्व्यथितो वीरः शरान्पंच समाददे ।
सुतीक्ष्णाग्रान्महाकोपाद्वारयन्पर्वतानिव

5.51.37

ते बाणास्तस्य बाणाश्च परस्परमथोर्जिताः ।
आकाशे रचिताश्छिन्नाः शतधा राजसूनुना

5.51.38

छित्त्वा बाणान्सुतीक्ष्णाग्रान्सुरथांगोद्भवो बली ।
बाणाञ्छतं समाधत्त पुष्कलं ताडितुं हृदि

5.51.39

ते बाणाः शतधाच्छिन्नाः पुष्कलेन महात्मना ।
अपतन्समरोपांते शरवेगप्रपीडिताः

5.51.40

तदा तत्सुमहत्कर्म दृष्ट्वा राज्ञः सुतो बली ।
सहस्रेण शराणां च ताडयन्वक्षसि स्फुटम्

5.51.41

तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् ।
पुनरप्याशु स्वे चापे समाधत्तायुतं शरान्

5.51.42

तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् ।
ततोऽत्यतं प्रकुपितः शरवृष्टिमथाकरोत्

5.51.43

शरवृष्टिं समायांतीं मत्वा चंपक वीरहा ।
साधुसाधुप्रशंसंतं पुष्कलं समताडयत्

5.51.44

पुष्कलश्चंपकं दृष्ट्वा महावीर्यसमन्वितम् ।
ब्रह्मणोऽस्त्रसमाधत्त स्वे चापे सर्वशस्त्रवित्

5.51.45

तेन मुक्तं महाशस्त्रं प्रजज्वाल दिशो दश ।
खं रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतम्

5.51.46

चंपको मुक्तमस्त्रं तद्दृष्ट्वा सर्वास्त्रकोविदः ।
तत्संहर्तुं तदेवास्त्रं मुमोच रिपुमुद्यतम्

5.51.47

द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः ।
संजहार तदास्त्रास्त्रमेकीभूतं परास्त्रकम्

5.51.48

तत्कर्मचाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठतिष्ठ च ।
ब्रुवञ्छरानमोघांस्तु चंपकं स क्रुधाहनत्

5.51.49

चंपकस्ताञ्छरान्मुक्तानगणय्य महामनाः ।
रामास्त्रं प्रमुमोचाथ पुष्कलं प्रति दारुणम्

5.51.50

तन्मुक्तमस्त्रमालोक्य चंपकेन महात्मना ।
छेत्तुं यावन्मनश्चक्रे तावद्ग्रस्तः शरेण सः

5.51.51

बद्धश्चंपकवीरेण रथे स्वे स्थापितः पुनः ।
पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः

5.51.52

हाहाकारो महानासीद्बद्धे पुष्कलसंज्ञिके ।
शत्रुघ्नं प्रययुर्योधाः पलायनपरायणाः

5.51.53

भग्नांस्तान्वीक्ष्य शत्रुघ्नो हनूमंतमुवाच ह ।
केन वीरेण मे भग्नं बलं वीरैरलंकृतम्

5.51.54

तदोवाच महीनाथ पुष्कलं परवीरहा ।
बद्ध्वा नयति वीरोऽसौ चंपकः स्वपदोद्धुरः

5.51.55

तस्येदृग्वाक्यमाकर्ण्य शत्रुघ्नः कोपसंयुतः ।
उवाच पवनोद्भूतं मोचयाशु नृपात्मजात्

5.51.56

महाबलः सुतश्चास्य बद्ध्वा यः पुष्कलं भटम् ।
तस्मान्मोचय वीराग्र्य कथं तिष्ठसि चाहवे

5.51.57

एतद्वाक्यं समाकर्ण्य हनूमानोमिति ब्रुवन् ।
जगाम तं मोचयितुं पुष्कलं चंपकाद्भटात्

5.51.58

हनूमंतमथालोक्य तं मोचयितुमागतम् ।
बाणैः शतैश्च साहस्रैर्जघान परकोपनः

5.51.59

बाणांस्तान्स बभंजाशु मुक्तांस्तेन महात्मना ।
पुनरप्येनमेवाशु बाणान्मुंचन्महानभूत्

5.51.60

तान्सर्वांश्चूर्णयामास नाराचान्वैरिमोचितान् ।
शालं करे समाधृत्य जघान नृपनंदनम्

5.51.61

शालं तेन विनिर्मुक्तं तिलशः कृतवान्बली ।
गजो हनूमता मुक्तो नृपनंदन मस्तके

5.51.62

सोऽप्याहतश्चंपकेन मृतो भूमौ पपातसः ।
शिलाः संमोचयामास हनूमान्परमास्त्रवित्

5.51.63

चंपकस्ताः शिलाः सर्वाः क्षणाच्चूर्णितवान्भृशम् ।
बाणयंत्रिकया ब्रह्मन्महच्चित्रमभूदिदम्

5.51.64

स्वमुक्तास्ताः शिलाः सर्वाश्चूर्णिता वीक्ष्य मारुतिः ।
चुकोप हृदयेऽत्यतं बहुवीर्यमिति स्मरन्

5.51.65

आगत्य च करे धृत्वा नभस्युत्पतितः कपिः ।
तावद्ययौ नेत्रपथादुपरि क्षिप्रवेगवान्

5.51.66

चंपकस्तं हनूमंतं युयुधे नभसि स्थितः ।
बाहुयुद्धेन महता ताडितः कपिपुंगवः

5.51.67

चुकोप मानसे वीरो गर्वपर्वतदारुणः ।
पदा धृत्वा चंपकं तं ताडयामास भूतले

5.51.68

ताडितोऽसौ कपींद्रेण क्षणादुत्थाय वेगवान् ।
हनूमंतं तु लांगूले धृत्वा बभ्राम सर्वतः

5.51.69

कपींद्रस्तद्बलं वीक्ष्य हसन्पादेऽग्रहीत्पुनः ।
भ्रामयित्वा शतगुणं गजोपस्थे ह्यपातयत्

5.51.70

पपात भूमौ सुबलो राजसूनुः स चंपकः ।
मूर्च्छितो वीरभूषाढ्यमलंकुर्वन्रणांगणम्

5.51.71

तदा हाहेति वै लोकाश्चुक्रुशुश्चंपकानुगाः ।
पुष्कलं मोचयामास बद्धं चंपकपाशतः

5.51.51

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधेपुष्कलमोचनं नामैकपंचाशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc