भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.48

5.48.1

शेष उवाच।
इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा ।
विस्मयं मानयामास हृदि शौनकमब्रवीत्

5.48.2

शत्रुघ्न उवाच।
कर्मणो गहना वार्ता यया सात्वकनामधृत् ।
दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः

5.48.3

स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा ।
येन कर्मविपाकेन यादृशं नरकं भवेत्

5.48.4

शौनक उवाच।
धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा ।
जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः

5.48.5

कथयामि विचित्राणां कर्मणां विविधा गतीः ।
ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात्

5.48.6

परवित्तं परापत्यं कलत्रं पारकं च यः ।
बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः

5.48.7

कालपाशेन संबद्धो यमदूतैर्महाबलैः ।
तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम्

5.48.8

तत्र ताडनमुद्धूताः कुर्वंति यमकिंकराः ।
पापभोगेन संतप्तस्ततो योनिं तु शौकरीम्

5.48.9

तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति ।
रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम्

5.48.10

भूतद्रोहं विधायैव केवलं स्वकुटुंबकम् ।
पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत्

5.48.11

ये नरा इह जंतूनां वधं कुर्वंति वै मृषा ।
ते रौरवे निपात्यंते भिद्यंते रुरुभी रुषा

5.48.12

यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम् ।
महारौरवसंज्ञे तु पात्यते स यमाज्ञया

5.48.13

यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत् ।
कालसूत्रे महादुष्टे योजनायुतविस्तृते

5.48.14

यावंति पशुरोमाणि गवां द्वेषं करोति यः ।
तावद्वर्षसहस्राणि पच्यते यमकिंकरैः

5.48.15

यो भूमौ भूपतिर्भूत्वा दंडायोग्यं तु दंडयेत् ।
करोति ब्राह्मणस्यापि देहदंडं च लोलुपः

5.48.16

स सूकरमुखैर्दुष्टैः पीड्यते यमकिंकरैः ।
पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये

5.48.17

ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम् ।
वृत्तिं वा गृह्णते मोहाल्लुंपंति स्वबलान्नराः

5.48.18

ते परत्रांधकूपे च पात्यंते च महार्दिताः ।
योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः

5.48.19

न देवाय न सुहृदे ददाति रसनापरः ।
स पतत्येव नरके कृमिभोजनसंज्ञिते

5.48.20

अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत् ।
ब्रह्मस्वं वा महादुष्टे संदंशे नरके पतेत्

5.48.21

यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः ।
स पात्यते तैलतप्ते कुंभीपाकेऽतिदारुणे

5.48.22

यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत् ।
तं तया किंकराः सूर्म्या परिरंभं च कुर्वते

5.48.23

ये बलाद्वेदमर्यादां लुंपंति स्वबलोद्धताः ।
ते वैतरण्यां पतिता मांसशोणितभक्षकाः

5.48.24

वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् ।
पूयोदे निपतत्येव महादुःखसमन्वितः

5.48.25

ये दंभमाश्रयंते वै धूर्ता लोकस्य वंचने ।
वैशसे नरके मूढाः पतंति यमताडिताः

5.48.26

ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययंति च ।
रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः

5.48.27

ये चौरा वह्निदा दुष्टा गरदा ग्रामलुंठकाः ।
सारमेयादने ते वै पात्यंते पातकान्विताः

5.48.28

कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसंभृतः ।
परकीयं तु द्रव्यं यो हरति प्रसभं बली

5.48.29

सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः ।
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत्

5.48.30

यो नरो रसनास्वादात्सुरां पिबति मूढधीः ।
तं पाययंति लोहस्य रसं धर्मस्य किंकराः

5.48.31

यो गुरूनवमन्येत स्वविद्याचारदर्पितः ।
स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान्

5.48.32

विश्वासघातं कुर्वंति ये नरा धर्मनिष्कृताः ।
शूलप्रोते च नरके पात्यंते बहुयातने

5.48.33

पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः ।
दंदशूके च पतितो दंदशूकैः स दश्यते

5.48.34

एवं राजन्ननेके वै नरकाः पापकारिणाम् ।
पापं कृत्वा प्रयांत्येते पीडां यांति सुदारुणाम्

5.48.35

यैर्न श्रुता रामकथा न परोपकृतिः कृता ।
तेषां सर्वाणि दुःखानि भवंति नरकांतरे

5.48.36

अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते ।
ये दुःखिनो रोगयुता नरकादागताश्च ते

5.48.37

शेष उवाच।
एतच्छ्रुत्वा महीपालः कंपमानः क्षणे क्षणे ।
पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये

5.48.38

तत्तत्पापस्य चिह्नानि कथयस्व महामुने ।
केन पापेन किं चिह्नं भूलोके उपजायते

5.48.39

इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम् ।
शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम्

5.48.40

शौनक उवाच।
सुरापः श्यामदंतश्च नरकांते प्रजायते ।
अभक्ष्यभक्षकारी च जायते गुल्मकोदरः

5.48.41

उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः ।
श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गंधिमान्भवेत्

5.48.42

अनिवेद्य सुरादिभ्यो भुंजानो जायते नरः ।
उदरे रोगवान्दुःखी महारोगप्रपीडितः

5.48.43

परान्नविघ्नकरणादजीर्णमभिजायते ।
मंदोदराग्निर्भवति सति द्रव्ये कदन्नदः

5.48.44

विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान् ।
पिशुनो नरकस्यांते जायते श्वासकासवान्

5.48.45

धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः ।
दावाग्निदायकश्चैव रक्तातीसारवान्भवेत्

5.48.46

सुरालये जले वापि शकृत्क्षेपं करोति यः ।
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः

5.48.47

गर्भपातनजा रोगाः क्षयमेहजलोदराः ।
प्रतिमा भंगकारी च अप्रतिष्ठश्च जायते

5.48.48

दुष्टवादी खंडितः स्यात्खल्वाटः परनिंदकः ।
सभायां पक्षपाती च जायते पक्षघातवान्

5.48.49

परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत् ।
तुंदीवरी ताम्रचौरः कांस्यहृत्पुंडरीकिकः

5.48.50

त्रपुहारी च पुरुषो जायते पिंगमूर्द्धजः ।
शीसहारी च पुरुषो जायते शीर्षरोगवान्

5.48.51

घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् ।
लोहहारी च पुरुषो बर्बरांगः प्रजायते

5.48.52

चर्महारी च पुरुषो जायते मेदसा वृतः ।
मधुचौरस्तु पुरुषो जायते बस्तिगंधवान्

5.48.53

तैलचौर्येण भवति नरः कण्ड्वातिपीडितः ।
आमान्नहरणाच्चैव दंतहीनः प्रजायते

5.48.54

पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत् ।
मातृगामी च पुरुषो जायते लिंगवर्जितः

5.48.55

गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते ।
भगिनीं चैव गमने पीतकुष्ठः प्रजायते

5.48.56

स्वसुतागमने चैव रक्तकुष्ठः प्रजायते ।
भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते

5.48.57

स्वामिगम्यादिगमने जायते दद्रुमंडलम् ।
विश्वस्तभार्यागमने गजचर्मा प्रजायते

5.48.58

पितृष्वस्रभिगमने दक्षिणांगे व्रणी भवेत् ।
मातुलान्यास्तु गमने वामांगे व्रणवान्भवेत्

5.48.59

पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते ।
मित्रभार्याभिगमने मृतभार्यः प्रजायते

5.48.60

स्वगोत्रस्त्रीप्रसंगेन जायते च भगंदरः ।
तपस्विनीप्रसंगेन प्रमेहो जायते नरे

5.48.61

श्रोत्रियस्त्रीप्रसंगेन जायते नासिकाव्रणी ।
दीक्षितस्त्रीप्रसंगेन जायते दुष्टरक्तसृक्

5.48.62

स्वजातिजायागमने जायते हृदयव्रणी ।
जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी

5.48.63

पशुयोनौ च गमनान्मूत्रघातः प्रजायते ।
एते दोषा नराणां स्युर्नरकांते न संशयः

5.48.64

स्त्रीणामपि भवंत्येते तत्तत्पुरुषसंगमात् ।
एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम्

5.48.65

दानपुण्यप्रसंगेन तीर्थादिक्रियया तथा ।
रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत्

5.48.66

सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम् ।
क्षालयेत्पापिनां पंकं नात्र कार्या विचारणा

5.48.67

यो नावमन्येत हरिं तस्य यागाविधि श्रुताः ।
तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम्

5.48.68

हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः ।
न तस्य नरकान्मुक्तिः कल्पांतेऽपि भविष्यति

5.48.69

या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह ।
श्रावय श्रीशचरितं यतो वाहगतिर्भवेत्

5.48.70

शेष उवाच।
इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा ।
प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः

5.48.71

तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः ।
उवाच रामचरितं महादुर्गतिनाशकम्

5.48.72

याहि देव विमानं स्वं रामकीर्तनपुण्यतः ।
स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः

5.48.73

इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः ।
तावद्ददर्श विमलं देवं वैमानिकं वरम्

5.48.74

स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः ।
यामि स्वं भवनं राजन्नाज्ञापय महामते

5.48.75

इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः ।
तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः

5.48.76

ततो वाहो विनिर्मुक्तो गात्रस्तंभाच्च भूतलात् ।
ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम्

5.48.48

इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे हयनिर्मुक्तिर्नामाष्टचत्वारिंशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc