भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.45

5.45.1

शेष उवाच
गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराट् ।
ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम्

5.45.2

भयं तत्याज मनसि वानरात्समुपस्थितम् ।
जहर्ष चित्ते च भृशं वाचस्पतिमुवाच ह

5.45.3

इंद्र उवाच
कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि ।
देवानां जीवनं भूयः कथं स्यादिति मे वद

5.45.4

इदानीं पवनोद्भूतं प्रसादय यथातथम् ।
रामः प्रीतिं परां याति देवानां च सुखं भवेत्

5.45.5

देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा ।
शक्रं तु पुरतः कृत्वा सर्वदेवैः परीवृतम्

5.45.6

जगाम तत्र यत्रास्ते हनूमान्निर्भयः कपिः ।
गर्जति प्रसभं जित्वा सुरान्सर्वान्सुखासिनः

5.45.7

ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः ।
पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि

5.45.8

बृहस्पतिश्च तं वीरं जगाद प्रेरितोऽमुना ।
सुराधीशेन लोकस्य गुरुणा वदतां वरः

5.45.9

अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम् ।
श्रीरामचरणस्य त्वं सेवकोऽसि महामते

5.45.10

किमर्थमयमारंभः कथमत्र समागमः ।
तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम्

5.45.11

रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय ।
पवनात्मज दैत्यानां भयंकरवपुर्दधत्

5.45.12

शेष उवाच
इत्थं भाषितमाकर्ण्य देवानां स गुरोर्वचः ।
उवाच देवान्सकलान्गुरुं चैव महयशाः

5.45.13

राज्ञो वीरमणेः संख्ये हताः शर्वेण भूरिशः ।
भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतम्

5.45.14

तं ये निवारयिष्यंति स्ववीर्यबलदर्पिताः ।
तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति

5.45.15

तस्माद्वदत मे यूयं द्रोणं वाथ तदौषधम् ।
येन संजीवयिष्यामि मृतान्वीरान्रणांगणे

5.45.16

शेष उवाच
इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः ।
ते सर्वे प्रणतिं गत्वा ददुः संजीवनौषधम्

5.45.17

ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वर्गौकसः स्वयम् ।
ययुः सुरपतिं कृत्वा पुरः सौख्य समन्विताः

5.45.18

हनुमान्भेषजं तत्तु समादायागतो रणम् ।
स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः

5.45.19

तमागतं हनूमंतं वीक्ष्य सर्वेऽपि वैरिणः ।
साधुसाधुप्रशंसंतमद्भुतं मेनिरे कपिम्

5.45.20

कपिः समागत्य महामुदायुतः ।
पुरो भटं पुष्कलमागतं मृतम् ।
शिवेन संरक्षितमुग्रमंडले ।
श्रीरामचित्तं सविधे जगाम ह

5.45.21

सुमतिं च समाहूय मंत्रिणं महतां मतम् ।
उवाच जीवयाम्यद्य सर्वान्वीरान्रणे मृतान्

5.45.22

एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि ।
शिरः कायेन संधाय जगाद वचनं शुभम्

5.45.23

यद्यहं मनसा वाचा कर्मणा राघवं पतिम् ।
जानामि तर्हि एतेन भेषजेनाशु जीवतु

5.45.24

इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः ।
रणांगणेऽदशद्रोषाद्दंतान्वीरशिरोमणिः

5.45.25

क्व गतो वीरभद्रोऽसौ मां संमूर्च्छ्य रणांगणे ।
सद्योऽहं पातयाम्येनं क्वास्ति मे धनुरुत्तमम्

5.45.26

इति तं भाषमाणं वै प्राह वीरं कपींद्रकः ।
धन्योऽसि वीर यद्भूयो वदस्येनं रणांगणे

5.45.27

त्वं हतो वीरभद्रेण रघुनाथप्रसादतः ।
पुनः संजीवितोऽस्येहि शत्रुघ्नं याम मूर्च्छितम्

5.45.28

इत्युक्त्वा प्रययौ तत्र संग्रामवरमूर्धनि ।
श्वसन्नास्ते स शत्रुघ्नः शिवबाणप्रपीडितः

5.45.29

तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः ।
निधाय भेषजं तस्य वक्षसि श्वासमागते

5.45.30

उवाच हनुमांस्तं वै जीव शत्रुघ्नसत्तम ।
मूर्च्छितोऽसि रणे कस्मान्महाबलपराक्रम

5.45.31

यद्यहं ब्रह्मचर्यं च जन्मपर्यंतमुद्यतः ।
पालयामि तदा वीरः शत्रुघ्नो जीवतु क्षणात्

5.45.32

उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः ।
क्व शिवः क्व शिवो यातो विहायरणमंडलम्

5.45.33

अनेके निहताः संख्ये श्रीरुद्रेण पिनाकिना ।
ते सर्वे जीविता वीराः कपीन्द्रेण महात्मना

5.45.34

तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः ।
स्वेस्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः

5.45.35

पुष्कलो वीरभद्रं तु चंडं चैव कुशध्वजः ।
नंदिनं हनुमान्वीरः शत्रुघ्नः संगरे शिवम्

5.45.36

धनुर्विस्फारयंतं तं शत्रुघ्नं बलिनां वरम् ।
संग्रामे शिवमाहूय तिष्ठंतं प्रययौ नृपः

5.45.37

राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली ।
अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम्

5.45.38

राज्ञा च वीरमणिना रथा भग्नाः शताधिकाः ।
शत्रुघ्नस्य नरेंद्रस्य तिलशः क्षणतो द्विज

5.45.39

तदा प्रकुपितोऽत्यंतं शत्रुघ्नो रणमंडले ।
आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितम्

5.45.40

दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम् ।
अत्यंतं कुपितो राजा वारुणास्त्रं समाददे

5.45.41

वारुणास्त्रेण शीतार्तं वीक्ष्य रामानुजो बली ।
वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत्

5.45.42

वायुना संहता मेघा ययुस्ते सर्वतोदिशम् ।
इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ

5.45.43

सैन्ये पवनपीडार्ते नृपो वीरमतिर्महान् ।
पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने

5.45.44

पर्वतैः स्तंभितो वायुर्न चासर्पत संगरे ।
तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे

5.45.45

वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः ।
चूर्णतां प्रापुरेतस्मिन्रणे वीरवरार्चिते

5.45.46

वज्रास्त्रेण विदीर्णांगा वीराः शोणितशोभिताः ।
बभूवुः समरप्रांते चित्रं समभवद्रणम्

5.45.47

तदा प्रकुपितोऽत्यंतं राजा वीरमणिर्महान् ।
ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम्

5.45.48

शत्रुघ्नः शरमादाय सस्मार सुमनोहरम् ।
अस्त्रं तद्योगिनीदत्तं सर्ववैरिविमोहनम्

5.45.49

ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति ।
तावच्छत्रुघ्ननाम्ना तु तन्मुक्तं मोहनास्त्रकम्

5.45.50

मोहनास्त्रेण तद्ब्राह्मं द्विधाछिन्नं क्षणादिह ।
लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां संप्रापयन्नृपम्

5.45.51

ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता ।
सर्वेपि मूर्च्छिता वीरा गणा रुद्रस्य ये पुनः

5.45.52

शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले ।
तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम्

5.45.53

शिवेन सहसा योद्धुं समायातो रणांगणे ।
शत्रुघ्नः सज्जमात्तज्यं धनुः कृत्वा व्ययुद्ध्यत

5.45.54

तयोः समभवद्युद्धं घोरं वैरिविदारणम् ।
शस्त्रास्त्रैर्बहुधामुक्तैरादीपित दिगंतरम्

5.45.55

अस्त्रप्रत्यस्त्रसंघातैस्ताडनप्रतिताडनैः ।
देवानामपि दैत्यानां नैतादृग्रणमंडलम्

5.45.56

तदा व्याकुलितोऽत्यंतं शत्रुघ्नः शिवसंगरे ।
सस्मार स्वामिनं तत्र पावनेरुपदेशतः

5.45.57

हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम् ।
करोति धनुरुद्यम्य त्रायस्व रणमंडले

5.45.58

अनेके दुःखपाथोधिं तीर्णा राम तवाख्यया ।
मामप्युद्धर दुःखस्थं रामराम कृपानिधे

5.45.59

इत्थं वक्ति यदा तावद्वीक्षितो रणमंडले ।
नीलोत्पलदलश्यामो रामो राजीवलोचनः

5.45.60

मृगशृंगं कटौ धृत्वा दीक्षितं वपुरुद्वहन् ।
तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समरांगणे

5.45.45

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रीरामसमागमोनाम पंचचत्वारिंशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc