भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.43

5.43.1

शेष उवाच
हनूमान्वीरसिंहं तु समागत्याब्रवीद्वचः ।
तिष्ठ यासि कुतो वीर जेष्यामि त्वां क्षणादिह

5.43.2

एवमुक्तं समाकर्ण्य प्लवगस्य वचो महत् ।
कोपपूरपरिप्लुष्टः कार्मुकं जलदस्वनम्

5.43.3

विनद्य घोरान्निशितान्बाणान्मुंचन्बभौ रणे ।
आषाढे जलदस्येव धारासारे मनोहरः

5.43.4

तान्दृष्ट्वा निशितान्बाणान्स्वदेहे सुविलग्नकान् ।
चुकोप हृदयेऽत्यतं हनूमानंजनी सुतः

5.43.5

मुष्टिना ताडयामास हृदये वज्रसारिणा ।
समुष्टिना हतो वीरः पपात धरणीतले

5.43.6

मूर्च्छितं तं समालोक्य पितृव्यं स शुभांगदः ।
रुक्मांगदोऽपि संमूर्च्छां त्यक्त्वागाद्रणमंडलम्

5.43.7

बाणान्समभिवर्षंतौ मेघाविव महास्वनौ ।
कुर्वंतौ कदनं घोरं प्लवंगं प्रति जग्मतुः

5.43.8

तौ दृष्ट्वा समरे वीरौ समायातौ कपीश्वरः ।
लांगूलेन च संवेष्ट्य सरथौ चापधारकौ

5.43.9

स्फोटयामास भूदेशे तत्क्षणान्मूर्च्छितावुभौ ।
निश्चेष्टौ समभूतां तौ रुधिरारक्तदेहकौ

5.43.10

बलमित्रश्चिरं युद्धं विधाय सुमदेन हि ।
मूर्च्छामप्रापयत्तं वै बाणैः सुशितपर्वभिः

5.43.11

पुष्कलेन क्षणान्नीतो मूर्च्छां चैतन्यवर्जिताम् ।
जयमाप्तं तु कटकं शत्रुघ्नस्य भटार्दनम्

5.43.12

एतस्मिन्समये सांबः स्यंदनं वरमास्थितः ।
विस्फारयन्धनुर्दिव्यमुपाधावद्भटानिमान्

5.43.13

जटाजूटांतरगतां चंद्ररेखां वहन्महान् ।
सर्पाभूषां मनःस्पर्शां दधदाजगवं धनुः

5.43.14

मूर्च्छितान्स्वजनान्दृष्ट्वा भक्तार्तिघ्नो महेश्वरः ।
योद्धुं प्रायान्महासैन्यैः शत्रुघ्नस्य भटानिमान्

5.43.15

सगणः सपरीवारः कंपयन्पृथिवीतलम् ।
भक्तरक्षार्थमागच्छंस्त्रिपुरं तु पुरा यथा

5.43.16

कोपाच्छोणतरे नेत्रे वहन्प्रलयकारकः ।
पश्यन्वीरान्बहुमतीन्पिनाकी देववंदितः

5.43.17

तमागतं महेशानं वीक्ष्य रामानुजो बली ।
जगाम समरे योद्धुं सर्वदेवशिरोमणिम्

5.43.18

अथागतं तु शत्रुघ्नं रुद्रो वीक्ष्य पिनाकधृक् ।
उवाच परमापन्नः कोपं सगुणचापधृक्

5.43.19

पुष्कलेन महत्कर्म कृतं रामांघ्रिसेविना ।
मद्भक्तं यो रणे हत्वा गतः समरमंडलम्

5.43.20

अद्य क्वास्ति परो वीरः पुष्कलः परमास्त्रवित् ।
तं हत्वा सुखमाप्स्यामि समरे भक्तपीडनम्

5.43.21

शेष उवाच
इत्युक्त्वा वीरभद्रं स प्रेषयामास पुष्कलम् ।
याहि त्वं समरे योद्धुं पुष्कलं सेवकार्दनम्

5.43.22

नंदिनं प्रेषयामास हनूमंतं महाबलम् ।
कुशध्वजं प्रचंडं तु भृंगिणं च सुबाहुकम्

5.43.23

सुमदं चंडनामानं गणं स्वीयं समादिशत् ।
पुष्कलस्तु समायांतं वीरभद्रं महागणम्

5.43.24

महारुद्रस्य संवीक्ष्य योद्धुं प्रायान्महामनाः ।
पुष्कलः पंचभिर्बाणैस्ताडयामास संयुगे

5.43.25

तैर्बाणैः क्षतगात्रस्तु त्रिशूलं स समादिशत् ।
स त्रिशूलं क्षणाच्छित्त्वा व्यगर्जत महाबलः

5.43.26

छिन्नं स्वीयं त्रिशूलं वै वीक्ष्य रुद्रानुगो बली ।
खट्वांगेन जघानाशु मस्तके भारतिं द्विज

5.43.27

खट्वांगाभिहतः सोऽथ मुमूर्च्छ क्षणमुद्भटः ।
विहाय मूर्च्छां सद्वीरः पुष्कलः परमास्त्रवित्

5.43.28

शरैश्चिच्छेद खट्वांगं करस्थं तस्य तत्क्षणात् ।
वीरभद्रः स्वकेच्छिन्ने खट्वांगे करसंस्थिते

5.43.29

परमक्रोधमापन्नो बभंज रथिनो रथम् ।
भंक्त्वा रथं तु वीरस्य पदातिं च विधाय सः

5.43.30

बाहुयुद्धेन युयुधे पुष्कलेन महात्मना ।
स पुष्कलो रथं त्यक्त्वा चूर्णितं तेन वेगतः

5.43.31

मुष्टिना ताडयामास वीरभद्रं महाबलः ।
अन्योन्यं मुष्टिभिर्घ्नंतावूरुभिर्जानुभिस्तथा

5.43.32

परस्परवधोद्युक्तौ परस्परजयैषिणौ ।
एवं चतुर्दिनमभूद्रात्रिं दिवमपीशयोः

5.43.33

न कोपि तत्र हीयेत न जीयेत महाबलः ।
पंचमे तु दिने वृत्ते वीरभद्रो महाबलः

5.43.34

गृहीत्वा नभ उड्डीनो महावीरं तु पुष्कलम् ।
तत्र युद्धं तयोरासीद्देवासुरविमोहनम्

5.43.35

मुष्टिना चरणाघातैर्बाहुभिः सुखुरैर्महत् ।
तदात्यंतं प्रकुपितः पुष्कलो वीरभद्रकम्

5.43.36

गृहीत्वा कंठदेशे तु ताडयामास भूतले ।
तत्प्रहारेण व्यथितो वीरभद्रो महाबलः

5.43.37

गृहीत्वा पुष्कलं पादे जघानास्फालयन्मुहुः ।
ताडयित्वा महीदेशे पुष्कलं सुमहाबलः

5.43.38

त्रिशूलेन चकर्ताशु शिरो ज्वलितकुंडलम् ।
जगर्ज पुष्कलं हत्वा वीरभद्रो महाबलः

5.43.39

गर्जता तेन शार्वेण प्रापितास्त्रा समुद्भटाः ।
हाहाकारो महानासीत्पुष्कले पतिते रणे

5.43.40

त्रासं प्रापुर्जनाः सर्वे रणमध्ये सुकोविदाः ।
ते शशंशुश्च शत्रुघ्नं पुष्कलं पतितं रणे

5.43.41

निहतं वीरभद्रेण महेश्वरगणेन वै ।
इत्याश्रुत्य महावीरः पुष्कलस्य वधं तदा

5.43.42

दुःखं प्राप्तो रणेऽत्यतं कंपमानः शुचा महान् ।
तं दुःखितं च शत्रुघ्नं ज्ञात्वा रुद्रो ऽब्रवीद्वचः

5.43.43

शत्रुघ्नं समरे वीरं शोचंतं पुष्कले हते ।
रे शत्रुघ्न रणे शोकं मा कृथाः सुमहाबल

5.43.44

वीराणां रणमध्ये तु पातनं कीर्तये स्मृतम् ।
धन्यो वीरः पुष्कलाख्यो यश्च वै दिनपंचकम्

5.43.45

युयुधे वीरभद्रेण महाप्रलयकारिणा ।
येन क्षणाद्विनिहतो दक्षो मदपमानकृत्

5.43.46

क्षणाद्विनिहता येन दैत्यास्त्रिपुरसैनिकाः ।
तस्माद्युद्ध्स्व राजेंद्र शोकं त्यक्त्वा महाबल

5.43.47

यत्नात्तिष्ठाद्य वीराग्र्य मयि योद्धरि संस्थिते ।
शोकं संत्यज्य शत्रुघ्नो वीरश्चुक्रोध शंकरम्

5.43.48

आत्तसज्जधनुर्बाणैः प्रचच्छाद महेश्वरम् ।
ते बाणाः सुरशीर्षण्य वपुषं क्षतविक्षतम्

5.43.49

अकुर्वत महच्चित्रं भक्तरक्षार्थमागतम् ।
ते बाणाः शंकरस्यापि बाणा नभसि संस्थिताः

5.43.50

व्याप्यैतत्सकलं विश्वं चित्रकारि मुनेरपि ।
तद्बाणयोर्युद्धबलं वीक्ष्य सर्वत्र मेनिरे

5.43.51

प्रलयं लोकसंहारकारकं सर्वमोहकम् ।
आकाशे तु विमानानि संश्रित्य स्वपुरस्थिताः

5.43.52

विलोकयितुमागत्य प्रशंसंति तयोर्भृशम् ।
अयं लोकत्रयस्यास्य प्रलयोत्पत्तिकारकः

5.43.53

असावपि महाराज रामचंद्रस्य चानुजः ।
किमिदं भविता को वा जेष्यति क्षितिमंडले

5.43.54

पराजयं वा को वीरः प्राप्स्यते रणमूर्धनि ।
एवमेकादशाहानि वृत्तं युद्धं परस्परम्

5.43.55

द्वादशे दिवसे प्राप्ते मुमोचास्त्रं नराधिपः ।
ब्रह्मसंज्ञं महादेवं हंतुं क्रोधसमन्वितः

5.43.56

सविज्ञाय महास्त्रं तन्मुक्तं शत्रुघ्नवैरिणा ।
हसन्नप्यपिबत्तेन मुक्तं ब्रह्मशिरो महत्

5.43.57

अत्यंतं विस्मयं प्राप्य किं कर्तव्यमतः परम् ।
एवं विचारयुक्तस्य हृदये ज्वलनोपमम्

5.43.58

शरं वै निचखानाशु देवदेव शिरोमणिः ।
तेन बाणेन शत्रुघ्नो मूर्च्छितो रणमंडले

5.43.59

हाहाभूतमभूत्सर्वं कटकं भटसेवितम् ।
वीराः सर्वे रुद्रगणैः पातिताः पृथिवीतले

5.43.60

सुबाहुसुमदोन्मुख्याः स्वबाहुबलदर्पिताः ।
पतितं मूर्च्छया वीक्ष्य शत्रुघ्नं शरपीडितम्

5.43.61

पुष्कलं तु रथे स्थाप्य सेवकैः परिरक्षितुम् ।
हनूमानागतो योद्धुं शिवं संहारकारकम्

5.43.62

श्रीरामस्मरणं योधान्स्वीयान्विप्र प्रहर्षितान् ।
प्रकुर्वन्रोषितस्तीव्रं लांगूलं च प्रकंपयन्

5.43.43

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलशत्रुघ्नपराजयोनाम त्रिचत्वारिंशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc