भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.41

5.41.1

शेष उवाच
युद्धाय ते सुसंनद्धाः शत्रुघ्नस्य महाबलाः ।
ययुर्वीरमणेः सैन्यमध्ये शौर्यसमन्विताः

5.41.2

शरान्विमुंचमानास्ते भिंदंतः सैनिकान्बहून् ।
व्यदृश्यंत रणांतःस्थाः शरासनधरा नराः

5.41.3

अनेके निहतास्तत्र गजा मणिमया रथाः ।
भग्ना वाहसमेताश्च दृश्यंते रणमंडले

5.41.4

विहितं कदनं तेषां श्रुत्वा रुक्मांगदो बली ।
रथे मणिमये तिष्ठन्ययौ योद्धुं ससैनिकान्

5.41.5

शरासने शरान्धास्यन्निषुधी अक्षयौ दधत् ।
शोणनेत्रांतरो भीमो महाकोपसमन्वितः

5.41.6

अनेकबाणसंविग्नान्कुर्वञ्छूरान्सहस्रशः ।
हाहाकारं कारयंस्तद्ययौ रुक्मांगदो बली

5.41.7

राजपुत्रः स्वसदृशं बलेन यशसा श्रिया ।
आह्वयामास शत्रुघ्नं भारतिं पुष्कलं बली

5.41.8

रुक्मांगद उवाच
आगच्छ वीरकर्मा त्वं महाबलपराक्रम ।
मया योद्धुं तु बलिना राजपुत्रेण भास्वता

5.41.9

किमन्यैस्त्रासितैर्वीर निहतैः कोटिभिर्नरैः ।
मया समं महायुद्धं विधाय जयमाप्नुहि

5.41.10

इत्युक्तवं तं तरसा प्रहसन्पुष्कलो बली ।
जघान विपुले मध्ये वक्षसस्तीक्ष्णपर्वभिः

5.41.11

तदमृष्यन्राजपुत्रो महाचापे दधच्छरान् ।
जघान दशभिर्वीरं पुष्कलं वक्षसोंऽतरे

5.41.12

उभौ समरसंरब्धावुभावपि जयैषिणौ ।
रेजाते समरे तौ हि कुमारतारकौ यथा

5.41.13

बाणान्धनुषि संधाय दशसंख्यान्महाशितान् ।
अकरोत्पुष्कलो वीरो विरथं राजपुत्रकम्

5.41.14

चतुर्भिश्चतुरोवाहान्द्वाभ्यां सूतमपातयत् ।
एकेन ध्वजमेतस्य द्वाभ्यां स्यंदनरक्षकौ

5.41.15

एकेन हृदि विव्याध राजपुत्रस्य वेगवान् ।
तदद्भुतं कर्म दृष्ट्वा सर्वे वीराः प्रतोषिताः

5.41.16

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अत्यंतं कोपमापन्नः स्यंदनं परमाविशत्

5.41.17

स स्थित्वा स्यंदनवरे हयरत्नेन भूषिते ।
शरासनं महद्धृत्वा सुदृढं गुणपूरितम्

5.41.18

उवाच पुष्कलं वीरं रुक्मांगद इदं वचः ।
महत्पराक्रमं कृत्वा क्व यास्यसि परंतप

5.41.19

पश्य मेऽद्यपराक्रांतिं यद्बलेन विनिर्मिताम् ।
यत्नात्तिष्ठस्व भो वीर नयामि त्वद्रथं नभः

5.41.20

इत्युक्त्वा शरमत्युग्रं दधार स्वशरासने ।
मंत्रयित्वा ततश्चास्त्रं भ्रामकं पौष्कले रथे

5.41.21

मुमोच निशितं बाणं स्वर्णपंखैकशोभितम् ।
तेन बाणेन नीतोऽस्य रथो योजनमात्रकम्

5.41.22

धृतः कृच्छ्रेण सूतेन रथो बभ्राम भूतले ।
कृच्छ्रेण प्राप्य स्वस्थानं पुष्कलः परमास्त्रवित्

5.41.23

जगाद वचनं तं वै बाणं बिभ्रच्छरासने ।
स्वर्गं प्राप्नुहि वीराग्र्य सर्वदेवैश्च सेवितम्

5.41.24

त्वादृशाः पृथिवीयोग्या न भवंति नृपोत्तम ।
शतक्रतुसभायोग्यास्तद्गच्छ त्वं सुरालयम्

5.41.25

इत्युक्त्वा स मुमोचास्त्रमाकाशप्रापकं महत् ।
तेन बाणेन सरथो ययौ खमनुलोमतः

5.41.26

सर्वांल्लोकानतिक्रामन्ययौ सूर्यस्य मंडलम् ।
तज्ज्वालया रथो दग्धो हयसूतसमन्वितः

5.41.27

तत्करैर्दग्धभूयिष्ठ कलेवरः सुदुःखितः ।
पपात चंद्रचूडं स धृत्वा हृद्यसुखार्दनम्

5.41.28

भूमौ निपतितस्तत्र करदग्धकलेवरः ।
अत्यंतं दुःखमापन्नो मुमूर्च्छ रणमंडले

5.41.29

तस्मिन्निपतिते भूमौ मूर्च्छिते राजपुत्रके ।
हाहाकारो महानासीत्तत्र संग्राममूर्धनि

5.41.30

वैरिणो जयलक्ष्मीं ते प्रापुः पुष्कलमुख्यकाः ।
पलायनपरा जाता वैरिणो हयरक्षकाः

5.41.31

तदा पुत्रस्य वै मूर्च्छां दृष्ट्वा वीरमणिर्नृपः ।
प्रायात्समरमध्यस्थं पुष्कलं कोपपूरितः

5.41.32

तदा भूमिश्चचालेयं सपर्वतवनोत्तमा ।
शूरा वै हर्षमापन्नाः कातरा भयपीडिताः

5.41.33

चापं महद्दधानः स इषुधी अक्षयावपि ।
रोषान्निःश्वासमामुंचन्नाह्वयामास वैरिणम्

5.41.41

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रुक्मांगदपराजय पुष्कलविजयोनाम एकचत्वारिंशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc