भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.36

5.36.1

शेषौवाच।
एतच्छ्रुत्वा तु विप्रेन्द्रो लोमशात्परमं महत् ॥
पुनः पप्रच्छ तमृषिं सर्वज्ञं योगिनां वरम्

5.36.2

आरण्यक उवाच।
मुनिश्रेष्ठ वदैतन्मे पृच्छामि त्वां महामते ॥
गुरवः कृपया युक्ता भाषंते सेवकेऽखिलम्

5.36.3

कोऽसौ रामो महाभाग यो नित्यं ध्यायते त्वया ॥
तस्य कानि चरित्राणि वदस्व त्वं द्विजर्षभ

5.36.4

किमर्थमवतीर्णोऽसौ कस्मान्मानुषतां गतः ॥
तत्सर्वं कथयाशु त्वं मम संशयनुत्तये

5.36.5

शेष उवाच।
इति वाक्यं समाकर्ण्य मुनेः परमशोभनम् ॥
लोमशः कथयामास रामचारित्रमद्भुतम्

5.36.6

लोकान्निरयसंमग्नाञ्ज्ञात्वा योगेश्वरेश्वरः ॥
कीर्तिं प्रथयितुं लोके यया घोरं तरिष्यति

5.36.7

एवं ज्ञात्वा दयावार्धिः परमेशो मनोहरः ॥
अवतारं चकारात्र चतुर्धा सश्रियान्वितः

5.36.8

पुरा त्रेतायुगे प्राप्ते पूर्णांशो रघुनन्दनः ॥
सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः

5.36.9

स रामो लक्ष्मणसखः काकपक्षधरो युवा ॥
तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ

5.36.10

यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ ॥
दांतौ धनुर्धरौ वीरौ विश्वामित्रमनुव्रतौ

5.36.11

पथि प्रव्रजतोस्तत्र ताटका नाम राक्षसी ॥
संगता च वने घोरे तयोर्वै विघ्नकारणात्

5.36.12

ऋषेरनुज्ञया रामस्ताटकां यमयातनाम् ॥
प्रावेशयद्धनुर्वेदविद्याभ्यासेन राघवः

5.36.13

यस्य पादतलस्पर्शाच्छिला वासवयोगजा ॥
अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी

5.36.14

विश्वामित्रस्य यज्ञे तु सुप्रवृत्ते रघूत्तमः ॥
मारीचं च सुबाहुं च जघान परमेषुभिः

5.36.15

ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम् ॥
रामः पंचदशे वर्षे षड्वर्षामथ मैथिलीम्

5.36.16

उपयेमे विवाहेन रम्यां सीतामयोनिजाम् ॥
कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः

5.36.17

ततो द्वादश वर्षाणि रेमे रामस्तया सह ॥
सप्तविंशतिमे वर्षे यौवराज्यमकल्पयत्

5.36.18

राजानमथ कैकेयी वरद्वयमयाचत ॥
तयोरेकेन रामस्तु ससीतः सह लक्ष्मणः

5.36.19

जटाधरः प्रव्रजतुवर्षाणीह चतुर्दश ॥
भरतस्तु द्वितीयेन यौवराज्याधिपोऽस्तु मे

5.36.20

जानकी लक्ष्मणसखं रामं प्राव्राजयन्नृपः ॥
त्रिरात्रमुदकाहारश्चतुर्थेऽह्नि फलाशनः

5.36.21

पंचमे चित्रकूटे तु रामस्थानमकल्पयत् ॥
अथ त्रयोदशे वर्षे पंचवट्यां महामुने

5.36.22

रामो विरूपयामास शूर्पणखां निशाचरीम् ॥
वने विचरतस्तस्य जानक्या सहितस्य च

5.36.23

आगतो राक्षसस्तां तु हर्तुं पापविपाकतः ॥
ततो माघासिताष्टम्यां मुहूर्ते वृंदसंज्ञिते

5.36.24

राघवाभ्यां विना सीतां जहार दशकंधरः ॥
तेनैवं ह्रियमाणा सा चक्रंद कुररी यथा

5.36.25

रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम् ॥
यथा श्येनः क्षुधाक्रांतः क्रंदंतीं वर्तिकां नयेत्

5.36.26

तथा कामवशं प्राप्तो रावणो जनकात्मजाम् ॥
नयत्येवं जनकजां जटायुः पक्षिराट्तदा

5.36.27

युयुधे राक्षसेंद्रेण स रावणहतोऽपतत् ॥
मार्गशुक्लनवम्यां तु वसंतीं रावणालये

5.36.28

संपातिर्दशमे मास आचख्यौ वानरेषु ताम् ॥
एकादश्यां महेंद्राद्रे पुःप्लुवे शतयोजनम्

5.36.29

हनूमान्निशि तस्यां तु लंकायां पर्यकालयत् ॥
तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः

5.36.30

द्वादश्यां शिंशपावृक्षे हनूमान्पर्यवस्थितः ॥
तस्यां निशायां जानक्या विश्वासाय च संकथा

5.36.31

अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत ॥
ब्रह्मास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः

5.36.32

वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम् ॥
पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः

5.36.33

मार्गासितप्रतिपदः पंचभिः पथिवासरैः ॥
पुनरागत्य षष्ठेऽह्नि ध्वस्तं मधुवनं किल

5.36.34

सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम् ॥
अष्टम्युत्तरफल्गुन्यां मुहूर्ते विजयाभिधे

5.36.35

मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च ॥
रामः कृत्वा प्रतिज्ञां तु प्रयातो दक्षिणां दिशम्

5.36.36

तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम् ॥
दक्षिणाशां प्रयातस्य सुग्रीवोऽप्यभवत्सखा

5.36.37

वासरैः सप्तभिः सिंधोः स्कंधावारनिवेशनम् ॥
पौषशुक्लप्रतिपदस्तृतीयायावदंबुधेः

5.36.38

उपस्थानं ससैन्यस्य राघवस्य बभूव ह ॥
बिभीषणश्चतुर्थ्यां तु रामेण सह संगतः

5.36.39

समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतः ॥
प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम्

5.36.40

समुद्रवरलाभश्च सहोपायप्रदर्शनम् ॥
ततो दशम्यामारंभस्त्रयोदश्यां समापनम्

5.36.41

चतुर्दश्यां सुवेलाद्रौ रामः सैन्यं न्यवेशयत् ॥
पौर्णमास्यां द्वितीयां तं त्रिदिनैः सैन्यतारणम्

5.36.42

तीर्त्वा तोयनिधिं रामो वानरेश्वरसैन्यवान् ॥
रुरोध च पुरीं लंकां सीतार्थं सह लक्ष्मणः

5.36.43

तृतीयादि दशम्यंतं निवेशश्च दिनाष्टकम् ॥
शुकसारणयोस्तत्र प्राप्तिरेकादशे दिने

5.36.44

पौषासिताख्यद्वादश्यां सैन्यसंख्यानमेव च ॥
शार्दूलेन कपींद्राणां सहसारोपवर्णनम्

5.36.45

त्रयोदश्या अमावास्यां लंकायां दिवसैस्त्रिभिः ॥
रावणः सैन्यसंख्यानं रणोत्साहं तदाकरोत्

5.36.46

प्रययावंगदो दौत्यं माघशुक्लाद्यवासरे ॥
सीतायाश्च ततो भर्तुर्मायामूर्द्धादिदर्शनम्

5.36.47

माघद्वितीयादि दिनैः सप्तभिर्यावदष्टमी ॥
रक्षसां वानराणां च युद्धमासीच्च संकुलम्

5.36.48

माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे ॥
रामलक्ष्मणयोर्नागपाशबंधः कृतः किल

5.36.49

आकुलेषु कपीशेषु निरुत्साहेषु सर्वशः ॥
नागपाशविमोक्षार्थं दशम्यां पवनोऽजपत्

5.36.50

कर्णे स्वरूपं रामस्य गरुडागमनं ततः ॥
एकादश्यां च द्वादश्यां धूम्राक्षस्य वधः कृतः

5.36.51

त्रयोदश्यां तु तेनैव निहतः कंपनो रणे ॥
माघशुक्लचतुर्दश्या यावत्कृष्णादिवासरम्

5.36.52

त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः ॥
माघकृष्णद्वितीयायाश्चतुर्थ्यं तं त्रिभिर्दिनैः

5.36.53

रामेण तुमुले युद्धे रावणो द्रावितो रणात् ॥
पंचम्या अष्टमीयावद्रावणेन प्रबोधितः

5.36.54

कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम् ॥
कुंभकर्णो दिनैः षड्भिर्नवम्यास्तु चतुर्दशीम्

5.36.55

रामेण निहतो युद्धे बहुवानरभक्षकः ॥
अमावास्यादिने शोकादवहारो बभूव ह

5.36.56

फाल्गुनादिप्रतिपदश्चतुर्थ्यंतं चतुर्दिनैः ॥
बिसतंतुप्रभृतयो निहताः पंचराक्षसाः

5.36.57

पंचम्याः सप्तमी यावदतिकायवधस्तथा ॥
अष्टम्याद्वादशी यावन्निहतौ दिनपंचकात्

5.36.58

निकुंभकुंभावूर्ध्वं तु मकराक्षस्त्रिभिर्दिनैः ॥
फाल्गुनासितद्वितीयायां दिने शक्रजिता जितम्

5.36.59

तृतीयादिसप्तम्यंतं दिनपंचकमेव च ॥
ओषध्यानयनव्यग्रादवहारो बभूव ह

5.36.60

ततस्त्रयोदशीयावद्दिनैः पंचभिरिंद्रजित् ॥
लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः

5.36.61

चतुर्दश्यां दशग्रीवो दीक्षां प्रापावहारतः ॥
अमावास्यादिने प्रायाद्युद्धाय दशकंधरः

5.36.62

चैत्रशुक्लप्रतिपदः पंचमीदिनपंचकैः ॥
रावणे युद्ध्यमाने तु प्रचुरो रक्षसां वधः

5.36.63

चैत्रषष्ठ्याष्टमी यावन्महापार्श्वादि मारणम् ॥
चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदनम्

5.36.64

कोपाविष्टेन रामेण द्रावितो दशकंधरः ॥
द्रोणाद्रिरांजनेयेन लक्ष्मणार्थमुपाहृतः

5.36.65

दशम्यामवहारोभूद्रात्रौ युद्धे तु रक्षसाम् ॥
एकादश्यां तु रामाय रथं मातलिसारथिः

5.36.66

प्रेरितो वासवेनाजावर्पयामास भक्तितः ॥
कोपवानथ द्वादश्या यावत्कृष्णचतुर्दशी

5.36.67

अष्टादशदिनै रामो रावणं द्वैरथेऽवधीत् ॥
संग्रामे तुमुले जाते रामो जयमवाप्तवान्

5.36.68

माघशुक्लद्वितीयायाश्चैत्रकृष्ण चतुर्दशीम् ॥
सप्ताशीतिदिनेष्वेव मध्यं पंचदशाहकम्

5.36.69

युद्धावहारः संग्रामो द्वासप्तति दिनान्यभूत् ॥
संस्कारो रावणादीनाममावस्या दिनेऽभवत्

5.36.70

वैशाखादि तिथौ राम उवास रणभूमिषु ॥
अभिषिक्तो द्वितीयायां लंकाराज्ये विभीषणः

5.36.71

सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् ॥
हत्वा चिरेण लंकेशं लक्ष्मणाग्रज एव सः

5.36.72

गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु ॥
आदाय परया प्रीत्या जानकीं स न्यवर्तत

5.36.73

वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमाश्रितः ॥
विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति

5.36.74

पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य तु ॥
भरद्वाजाश्रमे रामः सगणः समुपाविशत्

5.36.75

नंदिग्रामे तु षष्ठ्यां स भरतेन समागतः ॥
सप्तम्यामभिषिक्तोऽसावयोध्यायां रघूद्वहः

5.36.76

दशैकाधिकमासांस्तुचतुर्दशाहानि मैथिली ॥
उवास राम रहिता रावणस्य निवेशने

5.36.77

द्विचत्वारिंशक वर्षे रामो राज्यमकारयत् ॥
सीतायाश्च त्रयस्त्रिंशद्वत्सराश्च तदाभवन्

5.36.78

स चतुर्दशवर्षांते प्रविश्य च पुरीं प्रभुः ॥
अयोध्यां मुदितो रामो हत्वा रावणमाहवे

5.36.79

भ्रातृभिः सहितस्तत्र रामो राज्यमथाकरोत् ॥
राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः

5.36.80

अगस्त्यः कुंभसंभूतिस्तमागंता रघोः पतिम् ॥
तद्वाक्याद्रघुनाथोऽसौ करिष्यति हयक्रतुम्

5.36.81

तस्यागमिष्यति हयो ह्याश्रमे तव सुव्रत ॥
तस्य योधाः प्रमुदिता आयास्यंति तवाश्रमम्

5.36.82

तेषामग्रे रामकथाः करिष्यसि मनोहराः ॥
तैः साकं त्वमयोध्यायां गंतासि वै द्विजर्षभ

5.36.83

दृष्ट्वा राममयोध्यायां पद्मपत्रनिभेक्षणम् ॥
तत्क्षणादेव संसारवार्धिनिस्तारवान्भव

5.36.84

इत्युक्त्वा मां मुनिवरो लोमशः सर्वबुद्धिमान् ॥
उवाच ते किं प्रष्टव्यं तदाहमवदं हि तम्

5.36.85

ज्ञातं त्वत्कृपया सर्वं रामचारित्रमद्भुतम् ॥
त्वत्प्रसादादवाप्स्येऽहं रामस्य चरणांबुजम्

5.36.86

मया नमस्कृतः पश्चाज्जगाम स मुनीश्वरः ॥
तत्प्रसादान्मयावाप्तं रामस्य चरणार्चनम्

5.36.87

सोऽहं स्मरामि रामस्य चरणावन्वहं मुहुः ॥
गायामि तस्य चरितं मुहुर्मुहुरतंद्रितः

5.36.88

पावयामि जनानन्यान्गानेन स्वांतहारिणा ॥
हृष्यामि तन्मुनेर्वाक्यं स्मारंस्मारं तदीक्षया

5.36.89

धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं महीतले ॥
रामचंद्र पदांभोज दिदृक्षा मे भविष्यति

5.36.90

तस्मात्सर्वात्मना रामो भजनीयो मनोहरः ॥
वंदनीयो हि सर्वेषां संसाराब्धितितीर्षया

5.36.91

तस्माद्यूयं किमर्थं वै प्राप्ताः को वानराधिपः ॥
यागं करोति धर्मात्मा हयमेधं महाक्रतुम्

5.36.92

तत्सर्वं कथयंत्वत्र यां तु वाहस्य पालने ॥
स्मरंतु रघुनाथांघ्रिं स्मृत्वा स्मृत्वा पुनः पुनः

5.36.93

इति वाक्यं समाकर्ण्य मुनेर्विस्मयमागताः ॥
रघुनाथं स्मरंतस्ते प्रोचुरारण्यकं मुनिम्

5.36.36

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे लोमशारण्यकसंवादे रामचरित्रकथनंनाम षट्त्रिंशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc