भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.17

5.17.1

शेष उवाच।
शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिंत्यं तपोबलम् ।
प्रशशंस तपो ब्राह्मं सर्वलोकैकवंदितम्

5.17.2

अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे ।
यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत्

5.17.3

क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम् ।
क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम्

5.17.4

इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे ।
क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान्

5.17.5

हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः ।
पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान्

5.17.6

योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा ।
हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः

5.17.7

शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः ।
पृष्ठतोऽनुजगामाशु रथेन हयशोभिना

5.17.8

गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः ।
रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम्

5.17.9

स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम् ।
पुरोंतिके हि संप्राप्तं सर्वयोधसमन्वितम्

5.17.10

तदा गजानां सप्तत्या चंद्रवर्णसमानया ।
अश्वानामयुतैः सार्धं रथानां कांचनत्विषाम्

5.17.11

सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान् ।
शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान्

5.17.12

वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च ।
किं करोमीति राजा तं जगाद पुरतः स्थितः

5.17.13

राजापि तं स्वीयपदे प्रणम्रं ।
दोर्भ्यां दृढं संपरिषस्वजे महान् ।
जगाम साकं तनये स्वराज्यं ।
निक्षिप्य सर्वं बहुधन्विभिर्वृतः

5.17.14

रामचंद्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम् ।
सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम्

5.17.15

राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा ।
सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा

5.17.16

एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह ।
स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः

5.17.17

जलनिर्झरसंह्रादं नानाधातुकभूतलम् ।
गैरिकादिकसद्धातु लाक्षारंगविराजितम्

5.17.18

यत्र सिद्धांगनाः सिद्धैः संक्रीडंत्यकुतोभयाः ।
गंधर्वाप्सरसो नागा यत्र क्रीडंति लीलया

5.17.19

गंगातरंगसंस्पर्श शीतवायुनिषेवितम् ।
वीणारणद्धंसशुकक्वणसुंदरशोभितम्

5.17.20

पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम् ।
तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः

5.17.21

कोऽयं महागिरिवरो विस्मापयति मे मनः ।
महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः

5.17.22

अत्र किं देवतावासो देवानां क्रीडनस्थलम् ।
यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः

5.17.23

इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा ।
वक्ष्यमाणगुणागार रामचंद्र पदाब्जधीः

5.17.24

नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप ।
मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समंततः

5.17.25

एनं पश्यंति नो पापाः परदाररता नराः ।
विष्णोर्गुणगणान्ये वै न मन्यंते नराधमाः

5.17.26

श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम् ।
न मन्यंते स्वबुद्धिस्थ हेतुवादविचारणाः

5.17.27

नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः ।
यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः

5.17.28

कन्यां रूपेण संपन्नां न दद्यात्कुलशीलिने ।
विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः

5.17.29

पत्नीं दूषयते यस्तु कुलशीलवतीं नरः ।
स्वयमेवात्ति मधुरं बंधुभ्यो न ददाति यः

5.17.30

भोजने ब्राह्मणार्थे च पाकभेदं करोति यः ।
कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः

5.17.31

अतिथीनवमन्यंते सूर्यतापादितापितान् ।
अंतरिक्षभुजो ये च ये च विश्वासघातकाः

5.17.32

न पश्यंति महाराज रघुनाथ पराङ्मुखाः ।
असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः

5.17.33

पवित्रयति सर्वान्नो दर्शनेन मनोहरः ।
अत्र तिष्ठति देवानां मुकुटैरर्चितांघ्रिकः

5.17.34

पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः ।
श्रुतयो नेतिनेतीति ब्रुवाणा न विदंति यम्

5.17.35

यत्पादरज इंद्रादिदेवैर्मृग्यं सुदुर्ल्लभम् ।
वेदांतादिभिरन्यूनैर्वाक्यैर्विदंति यं बुधाः

5.17.36

सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः ।
आरुह्य तं नमस्कृत्य संपूज्य सुकृतादिना

5.17.37

नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः ।
अत्राप्युदाहरंतीममितिहासं पुरातनम्

5.17.38

तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम् ।
रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुंबिनः

5.17.39

चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम् ।
आसीत्कांची महाराज पुरी लोकेषु विश्रुता

5.17.40

महाजनपरीवारसमृद्धबलवाहना ।
यस्यां वसंति विप्राग्र्याः षट्कर्मनिरता भृशम्

5.17.41

सर्वभूतहिते युक्ता रामभक्तिषु लालसाः ।
क्षत्रिया रणकर्तारः संग्रामेऽप्यपलायिनः

5.17.42

परदार परद्रव्य परद्रोहपराङ्मुखाः ।
वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः

5.17.43

कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा ।
शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः

5.17.44

कुर्वंति कथनं रामरामेति रसनाग्रतः ।
प्राकृताः केऽपि नो पापं कुर्वंति मनसात्र वै

5.17.45

दानं दया दमः सत्यं तत्र तिष्ठंति नित्यशः ।
वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः

5.17.46

न पारक्ये धने लोभं कुर्वंति न हि पातकम् ।
एवं प्रजा महाराज रत्नग्रीवेण पाल्यते

5.17.47

षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः ।
एवं पालयमानस्य प्रजाधर्मेण भूपतेः

5.17.48

गतानि बहुवर्षाणि सर्वभोगविलासिनः ।
विशालाक्षीं महाराज एकदा ह्यूचिवानिदम्

5.17.49

पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम् ।
पुत्रा जाता विशालाक्षि प्रजारक्षा धुरंधराः

5.17.50

परीवारो महान्मह्यं वर्तते विगतज्वरः ।
हस्तिनो मम शैलाभा वाजिनः पवनोपमाः

5.17.51

रथाश्च सुहयैर्युक्ता वर्तंते मम नित्यशः ।
महाविष्णुप्रसादेन किंचिन्न्यूनं ममास्ति न

5.17.52

एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम ।
परं तीर्थं मया नाद्य कृतं परमशोभने

5.17.53

गर्भवासविरामाय क्षमं गोविंदशोभितम् ।
वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान्

5.17.54

करिष्यामि मनोहारि तीर्थसेवनमादृतः ।
यो नरो जन्मपर्यंतं स्वोदरस्य प्रपूरकः

5.17.55

न करोति हरेः पूजां स नरो गोवृषः स्मृतः ।
तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये

5.17.56

सकुटुंबः सुते न्यस्य धुरं राज्यस्य निर्भृताम् ।
इति व्यवस्य संध्यायां हरिं ध्यायन्निशांतरे

5.17.57

अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम् ।
प्रातरुत्थाय राजासौ कृत्वा संध्यादिकाः क्रियाः

5.17.58

सभां मंत्रिजनैः सार्द्धं सुखमासेदिवान्महान् ।
तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम्

5.17.59

जटावल्कलकौपीनधारिणं दंडपाणिनम् ।
अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम्

5.17.60

राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः ।
अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः

5.17.61

सुखोपविष्टं विश्रांतं पप्रच्छ विदितं द्विजम् ।
स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम्

5.17.62

महांतः कृपणान्पातुं यांति तद्गेहमादरात् ।
तस्मात्कथय भो विप्र वृद्धस्य मम संप्रति

5.17.63

को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत् ।
यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः

5.17.64

सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः ।
यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात्

5.17.65

कथयस्व प्रसादेन सर्वतीर्थविचक्षण ।
ब्राह्मण उवाच।
शृणु राजेंद्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम्

5.17.66

कस्य देवस्य कृपया गर्भनिर्वारणं भवेत् ।
सेव्यः श्रीरामचंद्रोऽसौ संसारज्वरनाशकः

5.17.67

पूज्यः स एव भगवान्पुरुषोत्तमसंज्ञकः ।
नाना पुर्यो मया दृष्टाः सर्वपापक्षयंकराः

5.17.68

अयोध्या सरयूस्तापी तथा द्वारं हरेः परम् ।
अवंती विमला कांची रेवा सागरगामिनी

5.17.69

गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम् ।
मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम्

5.17.70

यत्रांगेषु नृणां तोयं श्यामं वा निर्मलं भवेत् ।
पातकस्यापहारीदं मया दृष्टं तु तीर्थकम्

5.17.71

मया द्वारवती दृष्टा सुरासुर निषेविता ।
गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा

5.17.72

यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः ।
यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित्

5.17.73

चक्रांका यत्र पाषाणा मानवा अपि चक्रिणः ।
पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः

5.17.74

त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः ।
सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता

5.17.75

कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम् ।
स्यमंतपंचकं यत्र महापातकनाशनम्

5.17.76

वाराणसी मया दृष्टा विश्वनाथकृतालया ।
यत्रोपदिशते मंत्रं तारकं ब्रह्मसंज्ञितम्

5.17.77

यस्यां मृताः कीटपतंगभृंगाः
पश्वादयो वा सुरयोनयो वा ।
स्वकर्मसंभोगसुखं विहाय
गच्छंति कैलासमतीतदुःखाः

5.17.78

मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी ।
करोति संसृतेर्बंधच्छेदं पापकृतामपि

5.17.79

कपर्दिनः कुंडलिनः सर्पभूषाधरावराः ।
गजचर्मपरीधाना वसंति गतदुःखकाः

5.17.80

कालभैरवनामात्र करोति यमशासनम् ।
न करोति नृणां वार्तां यमो दंडधरः प्रभुः

5.17.81

एतादृशी मया दृष्टा काशी विश्वेश्वरांकिता ।
अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप

5.17.82

परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते ।
पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम्

5.17.17

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणसमागमोनामसप्तदशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc