भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.14

5.14.1

शेष उवाच।
अथ स्वागतसंतुष्टं शत्रुघ्नं प्राह भूमिपः ।
रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः

5.14.2

सुमद उवाच।
कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः ।
भक्तरक्षावतारोऽयं ममानुग्रहकारकः

5.14.3

धन्या लोका इमे पुर्यां रघुनाथमुखांबुजम् ।
ये पिबंत्यनिशं चाक्षिपुटकैः परिमोदिताः

5.14.4

अर्थजातं मदीयं च नितरां पुरुषर्षभ ।
कृतार्थं कुलभूम्यादि वस्तुजातं महामते

5.14.5

कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया ।
रघुनाथमुखांभोजं द्रक्ष्येद्य सकुटुंबकः

5.14.6

इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे ।
सर्वं तत्कथयामास रघुनाथगुणोदयम्

5.14.7

त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम् ।
गंतुं चकार धिषणां राज्ञा सह महामतिः

5.14.8

तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत् ।
शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः

5.14.9

वासांसि बहुरत्नानि धनानि विविधानि च ।
शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः

5.14.10

ततो गमनमारेभे मंत्रिभिर्बहुवित्तमैः ।
पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः

5.14.11

शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता ।
जगाम मार्गे विहसन्रघुनाथप्रतापभृत्

5.14.12

पयोष्णीतीरमासाद्य जगाम स हयोत्तमः ।
पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः

5.14.13

आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम् ।
तत्रतत्र विशृण्वानो रघुनाथगुणोदयम्

5.14.14

एष धीमान्हरिर्याति हरिणा परिरक्षितः ।
हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः

5.14.15

इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः ।
तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान्

5.14.16

ददर्श चाश्रमं शुद्धं जनजंतुसमाकुलम् ।
वेदध्वनिहताशेषा मंगलं शृण्वतां नृणाम्

5.14.17

अग्निहोत्रहविर्धूम पवित्रितनभोखिलम् ।
मुनिवर्यकृतानेक यागयूपसुशोभितम्

5.14.18

यत्र गावस्तु हरिणा पाल्यंते पालनोचिताः ।
मूषका न खनंत्यस्मिन्बिडालस्य भयाद्बिलम्

5.14.19

मयूरैर्नकुलैः सार्द्धं क्रीडंति फणिनोनिशम् ।
गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः

5.14.20

एणास्तत्रत्य नीवारभक्षणेषु कृतादराः ।
न भयं कुर्वते कालाद्रक्षिता मुनिवृंदकैः

5.14.21

गावः कुंभसमोधस्का नंदिनी समविग्रहाः ।
कुर्वंति चरणोत्थेन रजसेलां पवित्रिताम्

5.14.22

मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम् ।
दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मंत्रिणम्

5.14.23

शत्रुघ्न उवाच।
सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम् ।
निर्वैरिजंतु संसेव्यं मुनिवृंदसमाकुलम्

5.14.24

श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम् ।
निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः

5.14.25

इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः ।
कथयामास सचिवो रघुनाथस्य धीमतः

5.14.26

सुमतिरुवाच।
च्यवनस्याश्रमं विद्धि महातापसशोभितम् ।
निर्वैरिजंतुसंकीर्णं मुनिपत्नीभिरावृतम्

5.14.27

योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात् ।
स्वायंभुवमहायज्ञे शक्रमानविभेदनः

5.14.28

महामुनेः प्रभावोऽयं न केनापि समाप्यते ।
तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह

5.14.29

श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः ।
सर्वं पप्रच्छ सुमतिं शक्रमानादिभंजनम्

5.14.30

शत्रुघ्न उवाच।
कदासौ दस्रयोर्भागं चकार सुरपंक्तिषु ।
किं कृतं देवराजेन स्वायंभुव महामखे

5.14.31

सुमतिरुवाच।
ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः ।
कदाचिद्गतवान्सायं समिदाहरणं प्रति

5.14.32

तदा मखविनाशाय दमनो राक्षसो बली ।
आगत्योच्चैर्जगादेदं महाभयकरं वचः

5.14.33

कुत्रास्ति मुनिबंधुः स कुत्र तन्महिलानघा ।
पुनः पुनरुवाचेदं वचो रोषसमाकुलः

5.14.34

तदाहुतवहो ज्ञात्वा राक्षसाद्भयमागतम् ।
दर्शयामास तज्जायामंतर्वत्नीमनिंदिताम्

5.14.35

जहार राक्षसस्तां तु रुदंतीं कुररीमिव ।
भृगो रक्षपते रक्ष रक्ष नाथ तपोनिधे

5.14.36

एवं वदंतीमार्तां तां गृहीत्वा निरगाद्बहिः ।
दुष्टो वाक्यप्रहारेण बोधयन्स भृगोः सतीम्

5.14.37

ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः ।
पपात प्रज्वलन्नेत्रो वैश्वानर इवांगजः

5.14.38

तेनोक्तं मा व्रजाशु त्वं भस्मी भव सुदुर्मते ।
न हि साध्वी परामर्शं कृत्वा श्रेयोऽधियास्यसि

5.14.39

इत्युक्तः स पपाताशु भस्मीभूतकलेवरः ।
माता तदार्भकं नीत्वा जगामाश्रममुन्मनाः

5.14.40

भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः ।
शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक

5.14.41

तदा शप्तोऽतिदुःखार्तो जग्राहांघ्र्याशुशुक्षणिः ।
कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते

5.14.42

मयानृतं वचोभीत्या कथितं न गुरुद्रुहा ।
तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे

5.14.43

तदानुग्रहमाधाच्च सर्वभक्षो भवाञ्छुचिः ।
इत्युक्तवान्हुतभुजं दयार्द्रो मुनितापसः

5.14.44

गर्भाच्च्युतस्य पुत्रस्य जातकर्मादिकं शुचिः ।
चकार विधिवद्विप्रो दर्भपाणिः सुमंगलः

5.14.45

च्यवनाच्च्यवनं प्राहुः पुत्रं सर्वे तपस्विनः ।
शनैःशनैः स ववृधे शुक्ले प्रतिपदिंदुवत्

5.14.46

स जगाम तपः कर्तुं रेवां लोकैकपावनीम् ।
शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः

5.14.47

गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान् ।
अंसयोः किंशुकौ जातौ वल्मीकोपरिशोभितौ

5.14.48

मृगा आगत्य तस्यांगे कंडूं विदधुरुत्सुकाः ।
न किंचित्स हि जानाति दुर्वारतपसावृतः

5.14.49

कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः ।
सकुटुंबो ययौ रेवां महाबलसमावृतः

5.14.50

तत्र स्नात्वा महानद्यां संतर्प्य पितृदेवताः ।
दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रतुष्टये

5.14.51

तत्कन्या विचरंती सा वनमध्ये इतस्ततः ।
सखीभिः सहिता रम्या तप्तहाटकभूषणा

5.14.52

तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम् ।
निमेषोन्मेषरहितं तेजः किंचिद्ददर्श सा

5.14.53

गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत् ।
दृष्ट्वा राज्ञांगजा खेदं प्राप्तवत्यतिदुःखिता

5.14.54

न जनन्यै तथा पित्रे शशंसाघेन विप्लुता ।
स्वयमेवात्मनात्मानं सा शुशोच भयातुरा

5.14.55

तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह ।
धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः

5.14.56

तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः ।
धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा

5.14.57

तदालोक्य नृपो भीतः किंचिदुद्विग्नमानसः ।
जनानपृच्छत्केनापि मुनये त्वपराधितम्

5.14.58

पारंपर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम् ।
ययौ सुदुःखितस्तत्र समृद्धबलवाहनः

5.14.59

तं वै तपोनिधिं वीक्ष्य महता तपसायुतम् ।
स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु

5.14.60

तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः ।
तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत्

5.14.61

तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम् ।
बहुसुस्राव रुधिरं जानती त्वामुवाच न

5.14.62

तस्मादियं महाभूप मह्यं देया यथाविधि ।
ततश्चोत्पातशमनं भविष्यति न संशयः

5.14.63

तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम् ।
ददौ कुलवयोरूप शीललक्षणसंयुताम्

5.14.64

दत्ता यदा नृपेणेयं कन्या कमललोचना ।
तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः

5.14.65

राजा दत्त्वात्मजां तस्मै मुनये तपसांनिधे ।
प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः

5.14.14

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे।
च्यवनोपाख्यानंनाम चतुर्दशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc