भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.115

5.115.1

श्रीराम उवाच-
कथं पातकसंघात संक्रमे ब्राह्मणाधमे ।
पुराणज्ञः कथं व्याख्यां चकार द्विजसत्तम

5.115.2

शंभुरुवाच-
अध्यापने चाध्ययने जायते चाथ संगमः ।
संगतौ वत्सरं राम याति पातकि पातकम्

5.115.3

पुराणज्ञे तु काकुत्स्थ सर्वतत्वार्थवेदिनि ।
अपिपातकसंदोह चीर्णपापं प्रणश्यति

5.115.4

प्रभूतवह्निनाशे हि धूमराशिर्यथैव हि ।
शलभो दीपनाशाय वह्निनाशाय न प्रभुः

5.115.5

कृतं पापं तथान्येषां नाशनाय पुराणिकः ।
भूतादिग्रस्तमर्त्यानां भूतादि भयमोचकः

5.115.6

समंत्रवानपनयेद्यथा न स्वयमातुरः ।
पौराणिकस्तथा पापं न किंचित्प्राप्तुमर्हति

5.115.7

आत्मना च कृतं पापमन्यैरपि च यत्कृतम् ।
पुराणज्ञो नाशयति त्वतिदुष्टं स्वकर्म्म वा

5.115.8

भवानीशे हृषीकेशे समवृत्तिर्विवेकवान् ।
लोकवेदक्रियावेत्ता रुद्रजाप्यतिनिःस्पृहः

5.115.9

तुष्टः शांतः क्रियादक्षः प्रभूतो योगकृद्वशी ।
यथैव ते पुराणज्ञो वसिष्ठो भगवानृषिः

5.115.10

नियोगात्तव भूपाल अयोध्यायामतिष्ठत ।
अपालयद्भुवं कृत्स्नां त्वां च रक्षः समापतत्

5.115.11

स च शुक्रोपदेशेन राक्षसस्त्वामथाभ्यगात् ।
निद्रासक्तं हनिष्यामि नान्यथावसरस्त्विति

5.115.12

अथ विप्रो विदित्वैतद्वसिष्ठस्त्वद्धितप्रियः ।
सुप्तं प्रमत्तं काकुत्स्थं रक्षो हंति न संशयः

5.115.13

ब्रह्मावाप्तवरं तद्धि मया कार्यं निवारणम् ।
इति संचिंत्य विप्रर्षिः सेनामादाय निर्गतः

5.115.14

रक्षो हंतुमशक्तस्तु मृत्युहीनं ततो मुनिः ।
स्वयं च राक्षसो भूत्वा वाक्यमाह महामुनिः

5.115.15

किमर्थमागतोसीह वनं मुनिनिषेवितम् ।
स आह राजा रक्षोघ्नस्तमहं हंतुमागतः

5.115.16

मुनिरप्याह किं तेन जीवितेन मृतेन वा ।
भुक्त्वामिषं मदीयं तु युद्धं कृत्वा जयं व्रज

5.115.17

राक्षस उवाच-
कथं त्वं राक्षसो मह्यं भक्षणाय भविष्यसि ।
वसिष्ठोऽप्यथ मानुष्यमास्थाय वियति स्थितः

5.115.18

निष्ठीव्य मस्तके तस्य मुष्टिना तमताडयत् ।
ताडितो राक्षसस्तेन व्यद्रावयदृषिश्च तम्

5.115.19

पलायमानावन्योन्यं जलधिं तु गतावुभौ ।
तत्रस्थेन ग्रहेणासौ गृहीतो राक्षसस्तदा

5.115.20

मुनिः पुनरयोध्यायां पूर्ववत्समतिष्ठत ।
शंभुरुवाच-
तस्मात्स्वाभिमतं कुर्यात्पुराणज्ञो विमत्सरः

5.115.21

श्रवणस्य विधानं च कथयामि शुभं शृणु ।
शुक्लपक्षे दिने शुद्धे वारनक्षत्रयोगतः

5.115.22

करणे चापि लग्ने च ग्रहताराबलान्विते ।
अमूढेन ग्रहे बाले न च वृद्धौ गुरौस्थिते

5.115.23

न कृष्णपक्षे ग्रहणे न च नास्तिकसंनिधौ ।
पूर्वोक्तलक्षणोपेतं पुराणं शृणुयादिति

5.115.24

शुद्धगेहेऽथवा शुद्धवेदिकायां मठेथ वा ।
नदीतीरे देवगेहे सभामंडप एव च

5.115.25

रथ्या मठेथ वा रम्ये पुण्यशालासु राघव ।
स्वयं नमस्य विप्रेंद्रान्पुराणज्ञं विशेषतः

5.115.26

आसनं कल्पितं कुर्य्यादूर्ध्वं सर्वविशेषितम् ।
एहि धर्म्मासनमिति वक्तव्यं स्यादनिष्ठुरम्

5.115.27

पुराणप्रक्रमदिने यत्कार्यं तदुदीरयेत् ।
व्याख्यातारं पुराणस्य वस्त्राद्यैः परिपूजयेत्

5.115.28

शुभानि दत्वा वस्त्राणि सूक्ष्माणि च नवानि च ।
करकंठविभूषादि पात्रमासनमेव च

5.115.29

गंधपुष्पाक्षतैः पूज्य तांबूलं विनिवेद्य च ।
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्

5.115.30

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।
सभासदश्च संपूज्य गणेशं प्रार्थयेत्ततः

5.115.31

ॐनमेत्यादि मंत्रेण पूजनं भारती नुतिः ।
प्रातःकाले पुराणस्य प्रक्रमं प्रारभेदिति

5.115.32

उपक्रमदिने राम त्रिपंचदश वा शुभाः ।
श्लोका द्वितीये दिवसे ततो द्विगुणिताः शुभाः

5.115.33

तृतीये दिवसे राम ततश्चाधिकमिष्यते ।
दिनानामव्यवच्छेदाद्व्याख्यानं श्रवणं तथा

5.115.34

व्यवस्थितिर्यदा जाता तदा पौराणिकं गुरुम् ।
तांबूलादिप्रदायाथ परेद्युः शृणुयादपि

5.115.35

पुराणमेवं श्रोतव्यं दैनंदिनमिति श्रुतिः ।
व्रतरूपेण यः कश्चित्पुराणं शृणुयान्नरः

5.115.36

यदैवं तत्पुराणं तु तत्र याति न संशयः ।
पुराणं श्रोतुकामेन श्लोकश्चैकोपि चेच्छ्रुतः

5.115.37

तद्दिने तु कृतं पापं नाशयेत्तु न संशयः

5.115.38

एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबंधात् ।
सुरापीतिः स्वर्णहरश्च राम गुर्वंगनागश्च विमुक्तिमेति

5.115.39

पापानि चान्यानि कृतानि पुंभिः सर्वाणि नश्यंति पुराकृतानि ।
इहापि यान्यब्दशतार्जितानि श्रोतुर्विनश्यंति तथा च वक्तुः

5.115.40

कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते ।
विगुणापि ततो व्याख्या फलदा दानकर्मवत्

5.115.41

पुराणानामभिप्रायं व्यासो वेद न चापरः ।
अहं वेद्मि विशेषेण व्यासादपि विधेरपि

5.115.42

न स्वाध्यायस्तपो वापि न मंत्रो न जुहोतयः ।
फलंति न तथा तिष्ये पुराणश्रवणं यथा

5.115.43

एकैकश्रवणादेव पातकं महदेव तु ।
नाशमाप्नोत्यसंदेहः श्रीशैले वर्तनादिव

5.115.44

अतो गुरुः पुराणज्ञः श्रोतृवंद्योऽघनाशनः ।
न तस्मादधिकः कश्चिद्गुरुरस्ति गतिप्रदः

5.115.45

मंत्रेषु गुरवो ये च वेदशास्त्रेषु ये मताः ।
नेशते सर्वविज्ञानं दातुं तस्मान्न बोधकाः

5.115.46

पिशाचाः प्रायशो राम ब्रह्मराक्षसनामिनः ।
वेदमंत्रस्य वेत्तारो दृश्यंते न पुराणवित्

5.115.47

पुराणविमुखो नैव सर्वः सर्वं हि पश्यति ।
पुराणज्ञो हि तस्तस्मात्पापनाशकरः प्रभुः

5.115.48

तत्पूजा सर्वपूजा स्यात्सर्वद्रोहोऽस्य पीडनम् ।
यथा समस्तदानानां विद्यादानं प्रशस्यते

5.115.49

पौराणिकस्तथा धन्यस्तत्र दानं महत्फलम् ।
राम उवाच-।
किं वा पौराणिके देयं कियत्कीदृशमेव च

5.115.50

पुराणं कीदृशं वर्ज्यं वर्ज्यः कीदृक्पुराणवित् ।
शंभुरुवाच-
षड्रसानन्नपानानि स्नेहद्रव्याणि यानि च

5.115.51

गृहं सोपस्करं राम पुराणज्ञाय दापयेत् ।
पर्याप्तान्येव सर्वाणि अधिकानि फलाधिकात्

5.115.52

दद्याद्द्रव्यमतो भूयः सचैलं शोभितं मृदु ।
भूषणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत्

5.115.53

गंधपुष्पं प्रतिदिनं केवलं गंधमेव च ।
केवलं च तथा पुष्पं फलकाले फलान्यपि

5.115.54

तांबूलं च तथा दद्यान्नमस्कुर्याच्च भक्तितः ।
पुराणस्य समाप्तौ तु दद्याद्दानादिकं तथा

5.115.55

अधिकं तु तथा देयं भूहिरण्यादिकं नृप ।
न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन

5.115.56

सभासद्भिः कृता चैव या पूजैकेन वा कृता ।
देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते

5.115.57

तीर्थेपि च यथा राम पुण्येष्वायतनेषु च ।
स्वशक्त्या पूजनं कुर्यात्पुराणज्ञाय राघव

5.115.58

श्रोतुस्तु लक्षणं पूर्वं मयोक्तं तु भवेन्नृप ।
पौराणिकस्य सर्वस्य लक्षणं कथयामि ते

5.115.59

कुलहीनो महाव्याधिर्महापापी तिरस्कृतः ।
शौचाचारविहीनश्च वेदस्मृतिविवर्जितः

5.115.60

अन्यदेवः पूतिवचो व्यंगश्चाप्यधिकांगवान् ।
परपूर्वापतिः स्तेनः प्राणिहंता निराकृतिः

5.115.61

अथ वर्ज्यं पुराणं ते कथयामि नृपोत्तम ।
पूर्वज्ञैरुच्यमानं च यत्प्रोक्तं मुनिभिः परैः

5.115.62

व्यासादयो मुनिवरा यत्प्रोचुस्तदुदीरयेत् ।
पुराणस्थं पठेद्ग्रन्थं व्याख्यायेत विचारयन्

5.115.63

यया कयापि वा राम भाषयादेशभाषतः ।
न देशभाषा रचितं ग्रंथं श्रुत्वा फलं लभेत्

5.115.64

व्याख्या या कापि काकुत्स्थ पुराणस्य हिता हि सा ।
तस्मात्त्वं देवयाचस्व व्याख्यास्ये यत्पुराणकम्

5.115.65

शंभुरुवाच-
एवं पौराणिकेनोक्तं श्रुतवानपि गौतमः ।
स्वयं वस्त्रत्रयं प्रादाद्ब्राह्मणाय महात्मने

5.115.66

कौर्मं पुराणं प्रथमं श्रुतवानिति नः श्रुतम् ।
दत्तवान्स्वर्णमधिकं वस्त्राणि च शुभानि च

5.115.67

अथ लैंगं च शुश्राव वैष्णवं वामनं तथा ।
पाद्मं च गारुडं चैव सौरं ब्राह्ममथैव च

5.115.68

एवमष्ट स शुश्राव पुराणानि स गौतमः ।
अथ रामायणं चैव कौर्ममेव पुनश्च सः

5.115.69

शिवनारायणेत्येवं जपं चक्रे सदैव हि ।
अवाप निधनं चापि स गतो ब्रह्मणः पदम्

5.115.70

ब्रह्मा संपूज्य तं विप्रं विष्णुलोकमथागमत् ।
विष्णुना पूजितः सोऽथ जगाम शिवमंदिरम्

5.115.71

सर्वेषामेव वंद्योऽसौ गौतमो मुनिसत्तमः ।
भारतश्रवणे चापि नियमा ये मयेरिताः

5.115.72

पुरा व्यासेन मुनिना त्रिवर्षाद्यत्कृतं शुभम् ।
श्रवणात्तस्य कृत्स्नस्य व्याकर्ता भारतस्य यः

5.115.73

न किंचित्प्रणमेद्विप्रं मुक्त्वा योगिनमुत्तमम् ।
सर्वेषामेव वंद्योसौ भारतं व्याकरोति यः

5.115.74

यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा ।
स सर्वेभ्योधिको विप्रस्तारयेच्चैव मानवान्

5.115.75

व्याकरोति च पर्वैकं सर्वाणि कतिचित्तु वा ।
सर्वपापविनिर्मुक्तो हव्ये कव्ये विशिष्यते

5.115.76

तमेव प्रणमेद्विप्रं तमेवार्हं च पूजयेत् ।
तमेव भोजयेन्नित्यं सर्वं तस्मै निवेदयेत्

5.115.77

तस्य पूजाविधिः प्रोक्तो व्याख्यानसमये द्विजः ।
प्रतिपूज्योऽथ वस्त्राद्यैः पूजयेद्विधिमार्गतः

5.115.78

आदिपर्वसमाप्तौ च सूक्ष्मवस्त्रत्रयं ददेत् ।
सुवर्णं च यथाशक्ति सभापर्वणि वाससी

5.115.79

आनुशासनिकारण्यस्वर्गारोहेषु पर्वसु ।
आदिपर्वणि पूजा या सा पूजा नृपपुंगव

5.115.80

कर्णाश्वमेधवैराटशल्यद्रोणेषु पर्वसु ।
सूक्ष्मवस्त्रत्रयं शुद्धं निष्कद्वयमथापि वा

5.115.81

क्षुद्रपर्वस्वथान्येषु निष्कावथ समानयेत् ।
हरिवंशे सनिष्कं तु वस्त्रत्रितयमेव तु

5.115.82

भारतस्याखिलस्यैव समाप्तौ क्षेत्रदो भवेत् ।
रामायणस्य श्रवणे कांडेकांडे प्रपूजयेत्

5.115.83

क्षेत्रं पर्याप्तमथवा सुवर्णमपि दापयेत् ।
व्याख्यातुर्गुरुवाक्यस्य सर्वकल्मषनाशनः

5.115.84

अर्थोधर्म्मश्च कामश्च मोक्षश्च नृपसत्तम ।
व्याख्याश्रवणतः सर्वे सिद्धयंति च सुबुद्धयः

5.115.85

ब्रह्महत्यादिपापानां सर्वेषामपि नाशनम् ।
एकेन श्रवणेनास्य किं नरैर्न श्रुतं भुवि

5.115.86

यानवसुसुवर्णाद्यैर्नित्यमेनं प्रपूजयेत् ।
व्याख्यातारं यतः पापसंदोहस्य विनाशनम्

5.115.87

अन्यान्यपि पुराणानि मुनिप्रोक्तानि तान्यपि ।
श्रोतॄणां पापनाशाय वक्तुश्चापि विशेषतः

5.115.88

यश्च सर्वपुराणानि षट्त्रिंशत्तु प्रकीर्तयेत् ।
शृणोति वा न तस्यास्ति चित्तच्छेदः कदाचन

5.115.89

ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते ।
तृतीयं वैष्णवं चैव चतुर्थं शैवमुच्यते

5.115.90

अथ भागवतं प्रोक्तं पंचमं षष्ठमुच्यते ।
भविष्यं नारदीयं च सप्तमं परिकीर्तितम्

5.115.91

मार्कंडेयमिति प्रोक्तमष्टमं नवमं तथा ।
आग्नेयं ब्रह्मवैवर्तं दशमं परिकीर्तितम्

5.115.92

लैंगं च वामनं चैव स्कांदं मात्स्यमथैव च ।
कौर्मं वाराहमुदितं गारुडं वाथ कीर्तितम्

5.115.93

ब्रह्मांडमित्यष्टादशपुराणानि विदुर्बुधाः ।
तथा चोपपुराणानि कथयिष्याम्यतः परम्

5.115.94

आद्यं सनत्कुमाराख्यं नारसिंहमतः परम् ।
तृतीयमांडमुद्दिष्टं दौर्वाससमथैव च

5.115.95

नारदीयमथान्यं च कापिलं मानवं तथा ।
तद्वदौशनस प्रोक्तं ब्रह्मांडं च ततः परम्

5.115.96

वारुणं कालिकाह्वानं माहेशं सांबमेव च ।
सौरं पाराशरं चैव मारीचं भार्गवाह्वयम्

5.115.97

कौमारं च पुराणानि कीर्तितान्यष्ट वै दश ।
अष्टादशपुराणानां व्याकर्ता तु भवेन्मनुः

5.115.115

इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे पुराणमाहात्म्यकथनंनाम पंचदशोत्तरशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc