भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.112

5.112.1

शंभुरुवाच-
अथान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमम् ।
सुतया देवरातस्य यत्प्राप्तं नामकीर्तनात्

5.112.2

देवरातसुता बाला कला नामातिरूपिणी ।
धनंजयसुतस्यासीद्भार्या शोणस्य धीमतः

5.112.3

तावुभौ नियतौ नित्यं धर्म्मैकप्रवणौ शुभौ ।
लब्धवंतौ निधिमथो गंगास्नानाय तौ गतौ

5.112.4

प्रवाहपतिते कूले मृत्तिकानयनायतौ ।
कूलादादाय मृल्लोष्टं दृष्टवंतौ महाघटम्

5.112.5

राजतं चोर्द्ध्वपाषाणमथ शोणः प्रियां वचः ।
इदमाह कथं कार्यं किं कर्तव्यं हि नो हितम्

5.112.6

भार्योवाच-
न नारीमतमालंब्य किंचित्कार्यं समाचरेत् ।
न च नार्या चरेद्गुह्यमप्रियं वाथ किंचन

5.112.7

यदि नारीसमक्षं तु द्रविणं दृष्टिमापतेत् ।
वंचयीत तथा नारी ईदृशैर्वाक्यसंचयैः

5.112.8

अस्माभिर्न हि संप्रेक्ष्यं किं वा तत्र हि तिष्ठति ।
द्रविणं चेन्न संप्रेक्ष्यं बाधोदर्कं भविष्यति

5.112.9

अन्याज्ञातं तु यदि चेत्कुतो ज्ञानविनिश्चयः ।
अप्रदृष्टस्त्विदानीं चेन्निभृतः कोपि तिष्ठति

5.112.10

तिरोधानं न किंचिच्चेन्मायया कोपि तिष्ठति ।
न चेन्माया मनुष्याणां क्षेत्त्रपालस्तु तिष्ठति

5.112.11

न हि चेद्भैरवश्चेह तिष्ठति ब्रह्मराक्षसः ।
न सोपि चेन्महाविद्या राज्ञां तत्र भविष्यति

5.112.12

न च जानाति चेद्राजा व्यवहारादिसंभवः ।
स चेद्गूढप्रकारेण चोरबाधा भविष्यति

5.112.13

अप्रमत्तस्य भवतो महानर्थो भविष्यति ।
प्रायेणार्थवतां नॄणां भोगलिप्सा प्रजायते

5.112.14

भोगाद्भोगांतरेच्छा च सर्वानुष्ठाननाशिनी ।
जानाति यदि नारी स्वं भावयोगगतं तथा

5.112.15

नारी स्वतंत्रतामेति रोषाल्लब्धप्रकाशिनी ।
रोषे विश्वासतां याति तदा दोषः पुरोदितः

5.112.16

विश्वासिनि च विश्रंभः प्रवासो वान्यचित्तता ।
विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टिता

5.112.17

यं कंचित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत् ।
प्रीत्या संजायते योगो योगान्मैथुनसंगतिः

5.112.18

सततं मैथुने जाते विश्रंभांतरमापतेत् ।
भवता वा तथा पूर्वं भुक्तेदानीं च भुज्यते

5.112.19

का प्रतीच्छा तवेदानीं प्रीतिः कस्यामथापि वा ।
का विदग्धा सुसंस्निग्धा पुरुषादन्यतश्चरेत्

5.112.20

योब्रवीदथ वाक्यं तां यदि ब्रूयास्त्वमद्य मे ।
सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते

5.112.21

इत्थं च धृष्टतां याता तथा रूपांतरेण च ।
द्रव्यमादाय यत्किंचिदनुवर्तेत्स्वतंत्रतः

5.112.22

समारयित्वा तां द्रव्यं गृहीत्वा पातयिष्यति ।
अथ पूर्वं पति मृतौ प्रविशेन्नाशुशुक्षणिम्

5.112.23

वैधव्ये द्रविणं सर्वं धर्मार्थं मे भविष्यति ।
इति निश्चित्य मनसा वैधव्ये समुपस्थिते

5.112.24

योनिकुंडं समासाद्य दिवा वा यदि वा निशि ।
एकांतस्थानमभ्येत्य विवृत्य वसनं भगम्

5.112.25

इदमूचे वचो दुःखादुपस्थस्थकरा सती ।
किं त्वया वै कृतं योने किंवा पापमुपाश्रिता

5.112.26

शिश्नस्य वाथवा पापं यत्त्वदंतरवेशनात् ।
यच्च कर्तृकृतं पापं मादृक्सेवाविवर्जनात्

5.112.27

अतोपि कंडूसंभूतौ प्रवेशयेदथांगुलीम् ।
विचित्रचेष्टां कृत्वा तु कंडू बुद्धेरतः परम्

5.112.28

मर्दयित्वा कराभ्यां तत्संताड्य च विवृत्य तु ।
असकृद्धुन्वती पादौ विवृतास्यातिदुःखिता

5.112.29

खट्वा काष्ठमथालिंग्य स्तनपीडं यथाप्रियम् ।
अथो विचित्रचित्तत्वे ततः प्रद्युष्टती भवेत्

5.112.30

अथवाह्नि पुरे स्थित्वा शाकं व्यवहृतं च यत् ।
आलंब्य वेश्मनि निशि संध्यायां विशिखासु च

5.112.31

कृत्वान्यवेषमात्मानं यैः कैरप्युपभुज्यते ।
अथ वाच्यप्रभावेण शंकिता योग्यमाहरेत्

5.112.32

अज्ञातं च गृहं गत्वा रमयेदेव निश्चितम् ।
नारीसमक्षं लब्धे तु द्रविणे ह्येतदिष्यते

5.112.33

तस्मान्मयापि भवतो न विचारप्रयोजनम् ।
शोण उवाच-
एवमेतन्न संदेहो गच्छ त्वं तिष्ठ दूरतः

5.112.34

मलमूत्रविसर्गार्थं स्थित्वा गच्छाम्यतः परम् ।
तस्यां गतायां शोणोपि वस्त्रखंडं त्वकल्पयत्

5.112.35

एकैकस्मिंस्ततः खंडे त्वग्रहीद्द्रविणं बहु ।
सैकते त्ववरं जानुदघ्नं कृत्वा ततस्ततः

5.112.36

क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे ततोपरि ।
वस्त्राधारं घटं तं च प्रतिचिक्षेप कुत्रचित्

5.112.37

सर्वमज्ञातवत्कृत्वा स्नानाय प्रययौ मुनिः ।
तस्य भार्या ततः स्नानं कृत्वा संपूज्य पार्वतीम्

5.112.38

गच्छेति भर्त्रा सा प्रोक्ता स्ववेश्माभ्यागमत्सती ।
एतामेकाकिनीं ज्ञात्वा मारीचो नाम राक्षसः

5.112.39

भर्तृरूपमथास्थाय कलामेतदुवाच ह ।
मारीच उवाच-
सप्तगोदावरीतीरे पवित्रं पापनाशनम्

5.112.40

द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः ।
भुक्तिमुक्तिप्रदो नॄणां स्मरणात्पापनाशनः

5.112.41

तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुंदरि ।
कलोवाच-
इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान्

5.112.42

कथमेतादृशं त्वं हि पूर्वानुक्तं वदिष्यसि ।
प्रकृतेरन्यथाभावमुत्पातं विदुरुत्तमाः

5.112.43

मारीच उवाच-
भर्तुरप्रतिकूलत्वं नारीणां धर्म उच्यते ।
प्रतिकूलानुकूला वा मम शीघ्रं वदस्व तत्

5.112.44

तूष्णींभूत्वाथ सा साध्वी भर्तेत्येव विचार्य तम् ।
निर्ययौ तेन सा बाला वनमध्ये गता सती

5.112.45

अथ मध्याह्नकालोसौ क्रियतामाह्निकक्रियाः ।
राक्षसोथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह

5.112.46

यत्र तत्रास्ति गंतव्यमितो गच्छावहे ततः ।
किंचित्प्रदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा

5.112.47

इह स्थानं हि मे स्थातुं कार्यं स्नानमथ प्रिये ।
इत्युक्त्वा सरसि स्नात्वा फलाहारं प्रकल्प्य च

5.112.48

भोजनावसरे प्राप्ते कला दध्यावुमां शिवम् ।
अयं धवो मम न वा इति ध्यानपराभवत्

5.112.49

अथ ध्यानेन तं चोरं निश्चित्य च पतिव्रता ।
भीतातिनम्रवदना अश्रुपूर्णमुखी तदा

5.112.50

कष्टमापतितं पापमित्युक्त्वा निपापत च ।
रुदतीं तामथो दृष्ट्वा राक्षसः पापनिश्चयः

5.112.51

धर्षितुं तामथारेभे न चैतद्धर्षणं प्रति ।
बलात्कारमथो कर्तुं यतमाने तु राक्षसे

5.112.52

आजानुनाभिपर्यंतं शैलस्थानमकल्पयत् ।
शिला समभवद्वस्त्रं राक्षसो वीक्ष्य तामथ

5.112.53

इत्येवं तां हनिष्यामि खादयिष्याम्यतः परम् ।
इत्युक्त्वा भ्रामयित्वासिं शिरश्छेत्तुं प्रचक्रमे

5.112.54

कलाहं मत्पतिर्ज्ञात्वा शापं दास्यति मा हर ।
इत्युक्तमात्रे वचसि शिरश्चिच्छेद राक्षसः

5.112.55

प्राप्ता यां दुर्मृतिं तस्यामथ शैवाः समागताः ।
दूता विचित्राभरणाः सर्वायुधधराः शुभाः

5.112.56

एतां विमानमारोप्य शिवालोकमुपागमन् ।
तामागतां गिरिसुता हर्षेण प्रतिपूज्य च

5.112.57

स्वपादप्रणतां शुद्धामुमा वाक्यमभाषत ।
पातिव्रत्येन ते तुष्टा अभीष्टं प्रददामि ते

5.112.58

कलोवाच-
दासीभावं प्रयच्छ त्वं त्वत्पादाब्जं मम प्रियम् ।
प्रार्थ्यैःकिमन्यैर्बहुभिस्तथास्त्विति शिवाब्रवीत्

5.112.59

इंद्रादिवनिताभिः सा पूजिताथ कलानिधिः ।
एतस्मिन्नंतरे प्राप्तः शोणो मुनिरथो गृहम्

5.112.60

न तत्र दृष्ट्वा तां भार्यां ध्यानयोगपरोभवत् ।
रक्षोहृतां मृतां प्राप्तां शिवालोकमुमां प्रति

5.112.61

उमादत्तवरां चापि दृष्टवाञ्ज्ञानचक्षुषा ।
किंचिद्दुःखश्चिरं ध्यात्वा परावृत्य मुनिस्तदा

5.112.62

श्वशुरं गतवान्सोऽथ देवरातं मुनीश्वरः ।
निवेद्य सर्वं सहितो विश्वामित्रमगान्मुनिम्

5.112.63

निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याह तान्मुनीन् ।
गत्वा कैलासमादौ तु दृष्ट्वा देवं महेश्वरम्

5.112.64

अनुज्ञां शिवतो लब्ध्वा पार्वतीमंदिरे गताः ।
देव्यै विज्ञाप्य तत्सर्वं यथार्थं प्रवदामतत्

5.112.65

तथेत्युक्त्वा मुनिवराः कैलासं शंकरालयम् ।
गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः

5.112.66

विज्ञापयामासुरिदं शोणभार्य्याहृतेति च ।
शिवः प्राह मुनींद्रास्तांञ्ज्ञातमेव मया त्विदम्

5.112.67

अकालमरणं त्वस्या आयुर्वर्षशतं स्थितम् ।
अकालमृत्युयुक्तानां पुनर्ज्जीवनमस्ति च

5.112.68

दशपुत्रप्रसूर्वीरा रूपसौभाग्यवत्यपि ।
भवद्भिरिति निश्चित्य समागतमिह द्विजाः

5.112.69

यमलोकगतानां तु सर्वमेतद्विनिश्चितम् ।
ममलोकगतानां च गतिरन्या न विद्यते

5.112.70

अनया कीर्तितं नाम प्राणनिर्गमने पुरा ।
तया यमलिपिर्मृष्टा कथमायुष्यनिर्णयः

5.112.71

अथवा गिरिजायै च निवेदयत कृत्स्नशः ।
अथ ते पार्वतीपाददर्शनाय गता द्विजाः

5.112.72

प्रणम्य मातरं सर्वे विश्वामित्रोऽब्रवीदिदम् ।
दीनानाथाकृशा भार्या प्रणष्टपितृकाञ्छिशून्

5.112.73

रक्षयित्वा पुरा मातरिष्टदा त्वं सदा ह्यभूः ।
कला पौत्री ममैवेयं त्वामाराध्य पतिं त्वमुम्

5.112.74

शोणं लब्धवती मातस्त्वत्पूजायाः फलं त्विदम् ।
तपसा लभ्यते पर्णे दानेन यदि वापि च

5.112.75

व्रतोपवासैरथवा कला सा लभ्यते मया ।
एतया परिविष्टान्नं भोक्तुमिच्छामि तत्कथम्

5.112.76

पार्वत्युवाच-
यादृशी चेष्यते भार्य्या तादृशी दीयते मया ।
नैनां त्यक्तुमहं शक्ता किं वा त्वं मन्यसे मुने

5.112.77

विश्वामित्र उवाच-
माता त्वमित्येव मया अविशंकितमीरितम् ।
शोणो मुनिरयं मातस्तव विज्ञापयिष्यति

5.112.78

शोण उवाच-
तामेव भार्य्यां प्रतिमे प्रीतिरत्युक्तत्कटाति ।
सैव मे दीयतां भार्य्या चान्यथा मरणं भवेत्

5.112.79

पार्वत्युवाच-
भार्या पतीसमावेव विषमौ तु विगर्हितौ ।
तव चासदृशी चेयं सदृशीं प्रददाम्यहम्

5.112.80

न च मन्मंदिरे प्राप्तां त्यक्ष्ये देहविवर्ज्जिताम् ।
शोण उवाच-
यदि नो दीयते चेयं भार्य्यामन्यां मम प्रियाम्

5.112.81

राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमम् ।
भविष्यत्येव मे वैतदित्युक्त्वा चाब्रवीन्मुनीन्

5.112.82

भोक्तव्यमिह युष्माभिर्ममास्मिन्दिवसत्रयम् ।
प्रतींदुवारे देवस्य महेशस्यैव तुष्टये

5.112.83

भोजनीयाः सदा कालमष्टौ विप्रा मुनीश्वराः ।
इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत्

5.112.84

वत्सरे परिपूर्णे तु महाराज तमीश्वरम् ।
चतुर्निष्कप्रमाणेन तदर्द्धेनैव कारयेत्

5.112.85

श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा ।
पादुकोपानहं च्छत्रं सर्वं विप्रे नियोजयेत्

5.112.86

स्वशक्त्या दक्षिणां दत्वा ब्राह्मणांश्च विसर्जयेत् ।
एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः

5.112.87

दिनेदिने तथा पूजा सोमस्य परमात्मनः

5.112.88

तत्पुरुषस्य विद्महे महादेवस्य धीमहि ।
तन्नो रुद्र प्रःचोदयात्

5.112.89

इति पूजामंत्रः ।
स्थंडिले पूजयेद्देवं प्रतिमायामथापि वा ।
एकभक्तं स्वयं कुर्याद्ब्रह्मचर्यसमन्वितम्

5.112.90

एतत्सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभम् ।
य एवं कुरुते भक्त्या नारी वा पुरुषोपि वा

5.112.91

छायेव शंकरस्यासौ नित्यमेवानुवर्तते ।
अद्य सोमदिनं प्राप्तं मध्याह्नात्परतो भुजिः

5.112.92

यूयं च सर्वे मुनयः कृतपौर्वाह्णिकक्रियाः ।
माध्याह्निकीं क्रिंयां कृत्वा भोक्तुमर्हथ सत्तमाः

5.112.93

मातुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च ।
अनुष्ठानाय ते सर्वे गता भागीरथीं नदीम्

5.112.94

संगमे मध्यतो वृत्ते कृत्वा माध्याह्निकीं क्रियाम् ।
विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः

5.112.95

अथ ते पार्वतीगेहं गत्वा देवीं प्रणम्य च ।
लोकमातुर्नियोगेन शालंकायनकात्मजः

5.112.96

पादप्रक्षालनमुखानुपचारानकल्पयत् ।
पंचगंधकमादाय तान्मुनीनभ्यलेपयत्

5.112.97

राज्यं च महदाप्नोति यो दद्यात्पंचगंधकम् ।
पंचबाणसमो भूत्वा स्त्रीणां वल्लभतामियात्

5.112.98

विष्णवे यो हि दद्यात्तु सोपि मारसमो भवेत् ।
कामीत्वकामी यः कुर्यात्कैलासे पंचवत्सरान्

5.112.99

सर्वगंधसमोपेतो भोगी चेष्टार्थसंयुतः ।
यथेष्टवर्तनो भूत्वा ततो जायेत भूमिपः

5.112.100

कस्तूरीचंदनं चंद्रमगरुद्वितयं तथा ।
पंचगंधं समाख्यातं सर्वकार्येषु शोभनम्

5.112.101

विलिप्तपंचगंधेषु ब्राह्मणेषु महात्मसु ।
आसीनेषु तदाभ्यागाद्ब्राह्मणः स्थविरः कृशः

5.112.102

उन्मत्तवेषो दिग्वासा जराजर्ज्जरितस्त्वरी ।
खल्वाटः श्वासकासी च बहुहिक्की क्षुधान्वितः

5.112.103

लालास्नुतः श्मश्रुकूर्चश्लेष्मानम्रः स्खलत्पदः ।
द्व्यष्टवर्षा तथा नारी सर्वाभरणभूषिता

5.112.104

रूपलावण्यसंयुक्ता लोकोत्कृष्टस्वरूपिणी ।
पुरुषान्रूपसंयुक्तान्वीक्षंती च ततस्ततः

5.112.105

गायंती त्वथ नृत्यंती तं दृष्ट्वाह सती पतिम् ।
प्रबाधते वृद्धधवं शीघ्रमेहि कृशाधम

5.112.106

आलंब्य त्वत्करं वृद्ध दुःखिता नित्यमस्म्यहम् ।
भूषणं वसनं घ्राणं स्रग्विलेपनमेव च

5.112.107

हासो गीतिस्तथा पानं मंडनं शोभनं गृहम् ।
सर्वऋतुसमृद्धिश्च कामस्यैवाभिवृद्धये

5.112.108

सर्वेषामेव कामानां रतिरेका प्रयोजनम् ।
सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता

5.112.109

तुलया तुलितं सर्वं रतिः शतगुणाधिका ।
तन्मादृशी समासाद्य भवंतं किं करिष्यति

5.112.110

इति चान्यानि वाक्यानि ब्रुवाणा गृह्य वै करे ।
तदुत्तरमुवाचेदं किं कुर्म्मो भाग्यमीदृशम्

5.112.111

मा मारय दुरुक्त्या त्वं मां विज्ञायाथ चेदृशम् ।
एतादृशो द्विजः प्रायात्पार्वतीमंदिरं तदा

5.112.112

अविज्ञायैव गिरिजामिदं वचनमब्रवीत् ।
द्विज उवाच-
अन्नार्थिनमिह प्राप्तं विद्धि मामतिथिं मुने

5.112.113

भोजनावसरे प्राप्तं ब्राह्मणान्न हि भोजय ।
तद्भार्यावचनं प्राह क्व मुनिर्योषिदेव हि

5.112.114

अंधस्य वचनं सर्वमेवमेतादृशं दृढम् ।
पार्वत्युवाच-
प्रक्षाल्य चरणावेतमासने उपवेशय

5.112.115

जांबूनदकृतेतीव भोज्येनातर्पयद्द्विजम् ।
सुरत्नचषकोपेतममृतं ब्रह्मवादिनीम्

5.112.116

अरुंधतीमथाहूय पर्य्यवेषयदंबिका ।
कला चारुंधती चैव अनसूया पतिव्रता

5.112.117

परिवेषं पदार्थानां स्रग्गंधाक्षतभूषणाः ।
अकुर्वन्नंबिकावाक्यात्षड्रसानां पृथक्पृथक्

5.112.118

भुंजानेषु तु विप्रेषु दिग्वासा ब्राह्मणाकृतिः ।
क्षणेन बुभुजे सर्वं दातुं नो शेकुरंगनाः

5.112.119

अथ सा गिरिजा देवी स्वयं दातुं प्रचक्रमे ।
यथादत्तमशेषं तु क्षणेनाश्नाति स द्विजः

5.112.120

भांडस्थितमशेषं च भोक्तुमैच्छत्प्रिया सह ।
तथांबिका समादाय प्रादादक्षय्यमस्त्विति

5.112.121

अथ वामकरेणासौ भोक्तुमैच्छत्ततः सती ।
तत्राप्यक्षय्यमेवास्तु तवान्नमिति चार्पयत्

5.112.122

करांतरमथोत्पाद्य भोक्तुमैच्छद्द्विजोत्तमः ।
एवं करसहस्रं च कृत्वैच्छद्भोजनं द्विजः

5.112.123

दत्त्वा दत्त्वा पुनर्देवी संतुष्टा न च कोपना ।
न चित्तमन्यथाकर्तुं शक्यमस्या इति द्विजः

5.112.124

प्रक्षाल्य हस्तौ चरणौ हस्तार्पितसुगंधवान् ।
पार्वतीं वाक्यमाहेदं तोषितोहं वरं वृणु

5.112.125

पार्वत्युवाच-
मम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम ।
वरेण मम किं कार्य्यं शंकरो मे यतः पतिः

5.112.126

तदाह ब्राह्मणो देवीं शंकरः कीदृशस्त्विति ।
सदृशोऽसौ त्वया नो वा त्वद्योग्यो नान्यथा भवेत्

5.112.127

स्त्रीवल्लभत्वमप्येव रूपं दाक्ष्यं शुभांगना ।
नो चेदेतादृशी भार्य्या मदधीना कथं भवेत्

5.112.128

पार्वत्युवाच-
त्वद्भार्य्यावचनं श्रुत्वा तव वाक्यं तथा द्विज ।
अपलापस्त्वयं ब्रह्मञ्च्छ्रुतं किंवा तथाविषम्

5.112.129

ब्राह्मण उवाच-
धम्मिल्लं ते करिष्यामि ममांकं त्वं समारुह ।
प्रचलेद्यदि ते चित्तं पातिव्रत्यं कुतस्तव

5.112.130

पार्वत्युवाच-
मम व्रतं द्विजश्रेष्ठ शंकरांकैकरोहणम् ।
अथ तच्चित्तमाज्ञाय भवान्याः परमेश्वरः

5.112.131

द्व्यष्टवर्षवया भूत्वा सुस्निग्धकचबंधनः ।
सुस्निग्धचारुनयनो गोक्षीरसमविग्रहः

5.112.132

कोटिकंदर्पलावण्यः सर्वाभरणभूषितः ।
स्वपार्श्वस्थितनार्यंसे प्रसारितभुजद्वयः

5.112.133

गायन्मंदतया साकमुमया पटुता यथा ।
अथ तां पार्वतीं शंभुः करेणाकृष्य च स्मयन्

5.112.134

विन्यस्य हस्तौ वनिता द्वयांसे गायन्समस्ताभरणः प्रसन्नदृक् ।
ननर्त चानंदसमृद्धगात्रो मुनींद्र गीतश्च सकालवेलम्

5.112.135

एतादृशं शिवं ध्यात्वा जन्मकोटिशतेष्वपि ।
न दुःखं जायते तस्य सदा हर्षश्च जायते

5.112.136

अथ स्तुतो मुनिवरैर्नारीं कृत्वा हरिं ततः ।
अथ सा पार्वती तुष्टा देवं प्राह पिनाकिनम्

5.112.137

पार्वत्युवाच-
किमित्येतादृशं भावमास्थाय त्वमिहागतः ।
नारीं कृत्वा तथा विष्णुं किं प्रकृत्या न चागतौ

5.112.138

शिवः प्राह व्रते चात्र ह्यतिथेर्भोजनं शुभम् ।
जाने सिद्धिमथो येषां विषादो नाभिजायते

5.112.139

जाते विषादे तु व्रतमसम्यगिति निश्चयः ।
सोमवाराः समायांति यावंतोब्दशतानि तु

5.112.140

तावंति मत्पुरे देवि सर्वभोगसमन्वितः ।
सभार्य्यपुत्रबंधुश्च वेदोक्तायुष्यजीवितः

5.112.141

पश्चाद्वाराणसीं गत्वा मृतो मुक्तिमवाप्स्यति ।
शंभुरुवाच-
अथ देवे स्थिते तत्र मुनयस्त्रिः प्रदक्षिणम्

5.112.142

कृत्वा पंचनमस्कारान्पुनः कृत्वा प्रदक्षिणम् ।
पुनश्च दंडवद्भूत्वा विसृष्टा निर्ययुस्ततः

5.112.143

अथ शोणः शोभितांगीं भार्यामाप ह्यनिंदिताम् ।
राज्यं च भारते वर्षे धर्मेणापालयद्द्विजः

5.112.144

मानुषानखिलान्भोगान्बुभुजे शिवभक्तिमान् ।
नित्यं देवार्चनपरो नित्यं ब्राह्मणपूजकः

5.112.145

नित्यदाता नित्ययाजी नित्यश्रोता पुराणकम् ।
मृतः स गतवांल्लोकं शंकरस्य विभोः शुभम्

5.112.146

शंभुरुवाच-
नामकीर्तनमाहात्म्यं प्रसंगात्परिकीर्तितम् ।
शृण्वतां सर्वपापघ्नं भक्तानां च तथा नृप

5.112.147

सर्वकल्याणदं नित्यं सुभार्य्या राज्यदं शिवम् ।
शिवभक्तिप्रदं गोप्यं यस्य कस्यापि नेरयेत्

5.112.112

इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे शिवनाममाहात्म्ये द्वादशोत्तरशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc