भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.109

5.109.1

शंभुरुवाच-
अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम् ।
श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम्

5.109.2

इक्ष्वाकुर्नाम विप्रेंद्रो महाविद्यो महामतिः ।
बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः

5.109.3

न यष्टा न च दाता च न देवानां च पूजकः ।
न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च

5.109.4

न पुराणेतिहासानां श्रुतीनामागमस्य वा ।
यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः

5.109.5

तादृशस्य द्विजस्याथ समालक्ष्यायुरत्यगात् ।
लक्षांतरे तथैकस्मिन्वत्सरे मासि पंचमे

5.109.6

तृतीय दिवसे रात्र्यां पुराणं श्रुतवानिदम् ।
स्वसंपादितवित्तस्य येन दानं न वै कृतम्

5.109.7

दिनेदिने भुज्यमानं निःसारं स्यात्क्रमेण हि ।
वर्षाण्येव च तावंति नरके पच्यते ध्रुवम्

5.109.8

कृमियोनिसहस्रं च अनुभूय ततः परम् ।
दरिद्रो व्याधितोऽबंधुर्दुष्टभार्यो बहुप्रजः

5.109.9

दिनेदिने भिक्षितेन याचितेन च जीवनम् ।
यन्न क्वापि च बीजानां मग्नानामथ मार्गणात्

5.109.10

लब्धेनजीवनं कर्म भृत्यानामथ जीवनम् ।
मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः

5.109.11

एवं पुराणं श्रुत्वा साविक्ष्वाकुर्भृशदुःखितः ।
मनसा चिंतयच्चेदं स्मारं स्मारं द्विजाधमः

5.109.12

रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता ।
तथा पुराणरहिता विद्या नो गतिदर्शनी

5.109.13

बहुशास्त्रं समभ्यस्य बहुवेदान्सविस्तरान् ।
पुंसोश्रुतपुराणस्य सम्यग्याति न दर्शनम्

5.109.14

शंभुरुवाच-
एवं चिंतयतस्तस्य अकालमरणं त्वभूत् ।
यमलोकं गतश्चाथ यमेन परिभाषितः

5.109.15

यम उवाच-
अनेकपापयुक्तोसि पुण्यं नैव महत्तव ।
न वेदाध्यापनात्प्राप्तं पापं च विदितं तव

5.109.16

कोटिवर्षाणि नरके तवस्थितिरिति द्विज ।
आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुम्

5.109.17

कुरु पुण्यं हितं दानं देवतापूजनं जपम् ।
सांगमध्यापनं विप्र भोजनं भस्मधारणम्

5.109.18

भज विश्वेश्वरं देवं देवदेवमुमापतिम् ।
तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि

5.109.19

यत्किंचित्प्रत्यहं पापिन्पुराणं शृणु सादरम् ।
ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः

5.109.20

यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम् ।
अथेशपूजनकृते यत्नमास्थाय स द्विजः

5.109.21

अगमन्मुनिवर्यं तु जाबालिशिवपूजकम् ।
तपः स्वाध्यायसंपन्नं श्रुतिस्मृतिविवेचकम्

5.109.22

पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम् ।
जराशिथिलसर्वांगं वेदवेदांगपारगम्

5.109.23

द्रष्टुकामो ययौ शैलं मंदरं चारुकंदरम् ।
नानाविहंगसंपूर्णं नानापुष्पलतावृतम्

5.109.24

सर्वर्तुकुसुमोपेतं नानागंधोपशोभितम् ।
किन्नराणां च मिथुनैर्गीतपूर्णमहागुहम्

5.109.25

अनेकरूपलावण्य वनितोषितपादपम् ।
लंबमानविचित्राभिस्ताभिः शोभितपादपम्

5.109.26

रतिश्रमप्रसुप्तानां बोधनादितषट्पदम् ।
कूजंति च पिकाः कामं वियुक्तानां युजे किल

5.109.27

नानामुनिगणाकीर्णं प्रशांतमृगचारिणम् ।
अप्सरोगणसंकीर्णं गंधर्वगणसेवितम्

5.109.28

नानासिद्धमुखोद्भूतगीतपूर्णवनांतरम् ।
विचित्रफलसंपूर्णं नानादेवालयान्वितम्

5.109.29

प्रासादशतसंबाधं नानागृहसमन्वितम् ।
सिंहाननैर्गजमुखैरुलूकवदनैरथ

5.109.30

अमुखैर्विमुखैरुग्रैरर्द्धवक्त्रैर्मृगीमुखैः ।
रुरुजंतुकगोधाहि वानरर्क्षमुखैरपि

5.109.31

व्याघ्रवृश्चिकभल्लूष्ट्रश्वानगर्दभतुंडकैः ।
समस्तजीववदनसदृशास्यैर्गणेश्वरैः ।
वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः

5.109.32

शंखमुक्तादिजलजवदनैरुपशोभितम् ।
अधिकांगैरनंगैश्च जटिलैः शिखिमुंडितैः

5.109.33

पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि ।
घंटास्यैः शूर्पवदनकर्णपादमुखैरपि

5.109.34

घंटामुखैर्वेणुमुखैः किंकिणीवदनैरपि ।
यादृग्वस्तु जगत्यस्ति तादृशास्यैरयोमुखैः

5.109.35

कैश्चिन्निभृतकंदर्परूपलावण्यकोमलैः ।
कोटिसूर्यप्रतीकाशैश्चंद्र कोटिसमप्रभैः

5.109.36

नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः ।
द्विमुखैः पंचवक्त्रैश्च त्रिमुखैः षण्मुखैरपि

5.109.37

एकानेकमुखैः शांतैः सर्वदा सुखिभिर्युतम् ।
नानाभोगसमृद्धैश्च रतिकामसमैरपि

5.109.38

लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः ।
नानारूपधरैश्चान्यैः सेवितं मंदराचलम्

5.109.39

धेनवो यत्र वेदाश्च मीमांसावत्स संयुताः ।
धर्मादयः सवर्ष्माणः पुराणानि च कर्मणा

5.109.40

स्मृतीतिहासजातानि आगमाश्च शरीरिणः ।
स्थिताश्च मंदरे यत्र सशैलः पापनाशनः

5.109.41

तस्य मध्ये महापुण्यं पुरं परमशोभितम् ।
वापीतडागोपवनप्रासादशतशोभितम्

5.109.42

सप्तप्राकारपरिखं रत्नाट्टालकसंयुतम् ।
गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम्

5.109.43

यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितम् ।
तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा

5.109.44

तस्यां भद्रासनं मध्ये वेदपादविचित्रितम् ।
सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम्

5.109.45

पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः ।
तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः

5.109.46

मंदस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः ।
दधान उरसामालां मणिरुद्राक्षकल्पिताम्

5.109.47

बिभ्राण उपवीतं च कर्णिकारसमद्युतिः ।
सुरत्नकुंडलो देवः किरीटकनकांबरः

5.109.48

नानाभूषणसंयुक्तो नानागंधविलेपनः ।
वामांकन्यस्तगिरिजो वीक्षमाणस्तदाननम्

5.109.49

मुग्धां च सुमुखीं बालां नवयौवनशोभिताम् ।
भूषितां चारुसर्वांगीं बिभ्रतीं कनकांबुजम्

5.109.50

आलिंग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य ।
स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः

5.109.51

भक्तिर्वीजयते देवं प्रणव व्यजनेन च ।
पूजाकांतापि कुसुमैर्मालां देवाय बिभ्रती

5.109.52

ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे ।
समाधिः कार्यकर्तास्य धारणायोषिदस्य च

5.109.53

यमाश्चनियमाश्चैव किंकरास्तस्य कीर्तिताः ।
प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक्

5.109.54

ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा ।
ब्रह्मप्रभृतिकीटांताः पशवस्तत्पतिः शिवः

5.109.55

पशूनां पालको धर्मः स्यादधर्मश्च तस्करः ।
मायापाशेन ते बद्धा मोचनी काशिका मृतिः

5.109.56

नानाविधाश्च प्रमदा देवदेवमुमापतिम् ।
एतादृशमुमानाथं कोटिजंतुरनुस्मरेत्

5.109.57

इष्टान्भोगानवाप्याथ शिवलोके महीयते ।
ब्रह्मविष्णुमहेंद्राद्यास्तत्पुरद्वारपालकाः

5.109.58

लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्च्चनेक्षितेः ।
नियुक्ते देवदेवस्य देवाश्च सुरयोषितः

5.109.59

दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः ।
एतादृशमहाशैलमिक्ष्वाकुः संददर्श ह

5.109.60

मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा ।
गंतुकामो महाशैलं शक्तोस्यस्मिन्न वा मुने

5.109.61

ममायुरल्पं कथितं यमेन ज्ञानिना पुरा

5.109.62

नरकश्च बहुःप्रोक्तः कथं श्रेयो भविष्यति ।
जाबालिरुवाच-
मयापि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा

5.109.63

आयुर्दशदिनं ब्रह्मन्विद्वानपि न धर्मकृत् ।
न तपस्ते ह्यनभ्यासान्न च योगोऽल्पकालतः

5.109.64

न दानं द्रविणाभावादसामर्थ्यात्तथार्हणा ।
न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः

5.109.65

न चाध्यापनतीर्थादि सेवाकालविरोधतः ।
तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते

5.109.66

गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने ।
इक्ष्वाकुरुवाच-।
यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज

5.109.67

तेन पापपरीहारो भविष्यति सुनिश्चितम् ।
तं ब्रूहि येन धर्मेण मम पापं प्रणश्यति

5.109.68

केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति ।
शरणं भव विप्रर्षे नरकादतिबिभ्यतः

5.109.69

सर्वधर्मफलं प्राहुः शरणागतपालनम् ।
जाबालिरुवाच-
सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः

5.109.70

अमृतेत्वनृते शक्यं वक्तुं स्वप्नांतरेष्वपि ।
रहस्यमेकं किंचित्तु यस्य कस्यापि नोच्यते

5.109.71

इक्ष्वाकुरुवाच-
शरणं पालय मुने कालो मे निर्गमिष्यति ।
जाबालिरुवाच-
मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम्

5.109.72

शिवलिंगार्चनं नाम ब्रह्मादिभिरनुष्ठितम् ।
समस्तपापशमनं सर्वोपद्रवनाशनम्

5.109.73

भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर ।
नातिक्रामेद्यदि मुने शिवलिंगार्चनं शुभम्

5.109.74

यः शंभुपूजां विच्छिंद्यात्तेन च्छिन्नं हि मे शिरः ।
वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम्

5.109.75

वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः ।
वरं वह्निप्रपतनं वरं चाधःशिरः कृतम्

5.109.76

वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः ।
अपूजयित्वा चेशानं यो हि भुंक्ते नराधमः

5.109.77

पापानामन्नरूपाणां तस्य भोजनमुच्यते ।
अनुच्चार्य पदं शंभोर्भुङ्क्ते यदि च खादति

5.109.78

शिवेति मंगलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवंति तस्याशु महापातककोटयः

5.109.79

शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः ।
भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयात्

5.109.80

प्रदक्षिणत्रयं कृत्वा नमस्कारं च पंचधा ।
पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः

5.109.81

सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये ।
बलेन महता युक्तो वेदसेव्यत्र जायते

5.109.82

श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम् ।
सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती

5.109.83

तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा ।
एतत्संक्षेपतः प्रोक्तमीशपूजनमुत्तमम्

5.109.84

अल्पायुश्च भवान्विप्र शिवपूजनमाचर ।
त्रिकालं वा द्विकालं वा एककालमथापि वा

5.109.85

यामं यामार्धमथवा शिवपूजनमाचर ।
वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः

5.109.86

वानप्रस्थप्रसूनैश्च प्रातःपूजय शंकरम् ।
श्रीफलैः शतपत्रैश्च पद्मसौगंधिकैरपि

5.109.87

नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः ।
तुलस्याच रविदलैरपराजितया तथा

5.109.88

अपामार्गदलै रुद्र जटादमनकेन च ।
सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः

5.109.89

द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि ।
नंद्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः

5.109.90

अन्यैरपि यथाशक्ति प्रातः संपूजयेच्छिवम् ।
कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम्

5.109.91

मुकुलैर्नार्चयेद्देवं चंपकैर्जलजं विना ।
जलजानां च सर्वेषां पत्राणामक्षतस्य च

5.109.92

कुशपुष्पस्य रजतसुवर्णकृतयोरपि ।
अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप

5.109.93

न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति ।
उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः

5.109.94

जले तत्प्रोक्षितं मूलफलशाकादिकं नृप ।
न च पर्युषितं प्रोक्तं गंगातोयं च सागरम्

5.109.95

महानदीजलं सर्वं केदारजलमेव च ।
ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव

5.109.96

तडागवापीसरसां कूपेनापां च यद्भवेत् ।
तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत्

5.109.97

न रात्रौ जलमाहार्यं दिवा संपादयेज्जलम् ।
ससैकतं तथा धार्यं न च पर्युषितं हि तत्

5.109.98

एवं विदित्वा पूजां त्वं शिवलिंगे समाचर ।
शंभुरुवाच-
एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः

5.109.99

शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत ।
नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः

5.109.100

मरणावसरे प्राप्ते शिवपूजां विधाय सः ।
स्वान्प्राणानुपहाराय तत्याजैव महेशितुः

5.109.101

मृतं तमथ विज्ञाय यमदूताः समागताः ।
यमलोकप्रापका ये यतमास्थाय तस्थिरे

5.109.102

शैवाश्चापि समायाता दूता वह्निमुखादयः ।
तेषामन्योन्यवादोभून्मामको मामकस्त्विति

5.109.103

अथ यामः पाशपाणिः शिवदूतमथार्दयत् ।
अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः

5.109.104

महाकायस्तथा भूत्वा गृहीत्वा च करेण तत् ।
शिरांसि च तथैकेनापीड्य चिच्छेद शष्पवत्

5.109.105

मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात् ।
निवेदयामास च तं वीरभद्राय धीमते

5.109.106

स चापि शंकरायाथ तं प्राह च महेश्वरः ।
त्वयाष्टदिनपूजैव कृता कृष्णा दिने दिने

5.109.107

त्वमनिंदः पुरा मां च लिंगं शिश्नाग्रमित्युत ।
तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि

5.109.108

शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः ।
पूर्वं मन्नामवक्तृत्वाद्वक्ता चापि भविष्यसि

5.109.109

अथेशवचनात्सोपि तथाभूतोभवत्क्षणात् ।
शंभुरुवाच-
य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम्

5.109.110

विमुक्तपापबंधश्च शिवभक्तो भविष्यति ।
स याति च शिवस्थाने वक्ता चापि तथा भवेत्

5.109.111

यश्च वक्ति कथामेनां हरेण सदृशो भवेत् ।
उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः

5.109.112

स्वर्गं स गतवान्राजा कृतपापोथ भार्यया

5.109.109

इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्येन।
नवोत्तरशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc