भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.107

5.107.1

शुचिस्मितोवाच-
कश्यपं जमदग्निं च देवानां च पुरा कथम् ।
ररक्ष भस्म तद्ब्रह्मन्समाचक्ष्व मुने मम

5.107.2

दधीच उवाच-
कश्यपादियुता देवाः पूर्वमभ्यागमन्गिरिम् ।
शोकरं नाम विख्यातं गिरिमध्ये सुशोभनम्

5.107.3

नानाविहंगसंकीर्णं नानामुनिगणाश्रयम् ।
वासुदेवाश्रयं रम्यमप्सरोगणसेवितम्

5.107.4

विचित्रवृक्षसंवीतं सर्वर्तुकुसुमोज्ज्वलम् ।
तथाविधं प्रविश्यैते गिरिं वयमथापरे

5.107.5

स्तुवंतः केशवं तत्र गताः स्म गिरिशेश्वरम् ।
दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम्

5.107.6

मामेकं तु तिरस्कृत्य ह्यदहद्देवता मुनीन् ।
मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे

5.107.7

अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान् ।
केनापिकारणेनासौ गतवान्पर्वतं च तम्

5.107.8

भस्मोद्धूलितसर्वांगो मस्तकस्थशिवः शुचिः ।
एकाकी निःस्पृहः शान्तो हाहाशब्दमथाशृणोत्

5.107.9

अथ चिंतापरश्चासीन्म्रियमाण शवध्वनिः ।
शवानामिवगंधश्च दृश्यते तन्निरीक्षणे

5.107.10

इति निश्चित्य मनसा जगामाग्निमतिप्रभम् ।
स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ

5.107.11

तृणाग्निरिव शांतोऽभूदासाद्य सलिलं यथा ।
ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान्

5.107.12

खं गच्छंतीं महाकालो ज्वालां निपतितामपि ।
मनसा चिंतयच्चापि वीरभद्रः प्रतापवान्

5.107.13

सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः ।
तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम्

5.107.14

प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा ।
एतस्मिन्नंतरे वीरं वागाह चाशरीरिणी

5.107.15

भारत्युवाच-
वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः ।
तृषितानां जलेनार्थो विपरीतो वनाग्निना

5.107.16

निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः ।
शतयोजनवक्त्रश्च शतबाहुस्तथापरः

5.107.17

अगस्त्यश्च महाभागो निःशेषं पीतसागरः ।
एतानन्यानसंख्याताञ्ज्वालेयं तानमारयत्

5.107.18

वीरभद्र उवाच-
भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते ।
सरस्वति भवत्यां च ममरोषश्च जायते

5.107.19

सर्वदेवार्चितपदं वीरभद्रमवेहि माम् ।
भारत्युवाच-
मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने

5.107.20

कोपमुत्सृज वीर त्वमात्मनोहितमाचर ।
इत्युक्त्वांतर्दधे देवी भारती वीरभीतितः

5.107.21

अथ वीरो महाज्वालामपासील्लीलयैव तु ।
क्षणेन महती ज्वाला शतयोजनविस्तृता

5.107.22

एकेन वीरभद्रेण पीता परमदुःसहा ।
अथ चेंद्रमुखानां च मुनीनां भस्मराशयः

5.107.23

दृष्टा वै वीरभद्रेण आहूताश्च महात्मना ।
न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः

5.107.24

वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम् ।
दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः

5.107.25

ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम् ।
अथाचम्य मृतानां तु भस्मान्यथ च भस्मना

5.107.26

मृत्युंजयेन मंत्रेण मंत्रितेन ह्यमंत्रयत् ।
अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः

5.107.27

अथ ते गतवंतश्च गिरिपार्श्वं महाप्रभम् ।
तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा

5.107.28

अथ वीरो महासर्पसमीपमगमत्प्रभुः ।
वीरमागतमालोक्य भुजगो योद्धुमारभत्

5.107.29

युयुधे वर्षमेकं तु नानारूपधरः फणी ।
अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च

5.107.30

द्विधा चक्रे समस्तांगं देवांस्तत्र गतायुषः ।
दृष्ट्वाथ भस्मनैवैताञ्जीवयामास शंकरः

5.107.31

अथ देवाः समुनयो वीरभद्रं प्रणम्य तु ।
गतवंतो यथामार्गं ददृशू रक्ष आगतम्

5.107.32

पंचमेढ्रं महाकायं दोर्भिश्च दशभिर्युतम् ।
पंचपादसमोपेतं शिरोभिर्युतमष्टभिः

5.107.33

कांक्षमाणं महाहारं युध्यमानो हि वालिना ।
महावराहवपुषो वासुदेवस्य यद्बलम्

5.107.34

तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम् ।
तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः

5.107.35

मुष्टियुद्धे पंचपादैः सहसा हत्य वालिनम् ।
सुग्रीवं च कराभ्यां स हंतुमेव प्रचक्रमे

5.107.36

आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा ।
वालिसुग्रीवग्रसनं दृष्ट्वा चिंतामवाप ह

5.107.37

कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम् ।
एवं हि चिंतयानं तं वानरं राक्षसेश्वरः

5.107.38

अग्रसीदेकयत्नेन तथाभूतं च राक्षसम् ।
दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा

5.107.39

पलायमानांस्तान्दृष्ट्वा पंचमेढ्रः स राक्षसः ।
हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा

5.107.40

वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम् ।
पंचाशद्योजनशिलां करेणादाय तं रुषा

5.107.41

निजघान शिरोमध्ये मध्यमं पतितं शिरः ।
तत आदाय शैलस्य शृंगं तच्छतयोजनम्

5.107.42

स्थापयित्वा दृढतरं राक्षसेंद्रं तथाहरत् ।
राक्षसोऽथ बभाषे तं वीरभद्रं त्रिलोचनम्

5.107.43

मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया ।
असिद्वयं तैलधौतं पंचाशद्योजनोन्नतम्

5.107.44

एकयोजनविस्तारं सुदृढं लक्षणान्वितम् ।
एकं गृहाणाभिमतं विशिष्टं तन्ममप्रियम्

5.107.45

वीरभद्रस्तथेत्युक्त्वा गृहीत्वासिं महाबलः ।
करेणाचालयत्तीक्ष्णं क्ष्वेलीं चक्रे ततः क्रुधा

5.107.46

गृहीतासिस्तथा क्ष्वेलद्यं चक्रे राक्षसपुंगवः ।
वीरभद्रं समभ्येत्य कंठं प्रतिसमर्पयत्

5.107.47

तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु ।
राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः

5.107.48

वीरभद्रः कंठदेशे राक्षसं प्राहरद्रुषा ।
शिरोद्वयं तथाच्छिन्नं पतमानं ततोऽग्रहीत्

5.107.49

न्यभक्षयदमेयात्मा सिंहनादं चकार ह ।
तेन नादेन महता क्षुब्धमासीज्जगत्त्रयम्

5.107.50

अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ ।
किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ

5.107.51

वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा ।
अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः

5.107.52

असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः ।
पुनर्गृहीत्वासियुगं युयुधाते परस्परम्

5.107.53

शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः ।
सरोषरक्तनयनश्चालयित्वासिमग्रतः

5.107.54

तस्य कंठवनं सर्वं चिच्छेद कदलद्यं यथा ।
शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा

5.107.55

तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः ।
कपींद्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम्

5.107.56

एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात् ।
ब्रह्मणे वासुदेवाय शंकराय व्यजिज्ञपत्

5.107.57

मुनयो रक्षिता देवा वालिसुग्रीव वानरौ ।
एतौ संजीवयामास ब्रह्मविष्णुशिवात्मकः

5.107.58

रक्षसे शंभुना दत्तो वरः परमदारुणः ।
हिरण्यकशिपोराज्ये बलवानेक राक्षसः

5.107.59

देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम् ।
पलायिताश्च बहुधा मृताश्च शतशोसुराः

5.107.60

शुक्रेण रक्षितः सोऽथ गुरुणाचिंतयत्त्विदम् ।
मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि

5.107.61

अमृत्यवे त्वमेतस्मादुदरस्थमृताय च ।
अन्यथा मरणं मह्यं भविष्यति न संशयः

5.107.62

गुरो यमेन साकं मे युद्धमासीत्सुदारुणम् ।
मयासौ ग्रसितो युद्धे यमराजः प्रतापवान्

5.107.63

ममोदरं प्रविश्यासौ बिभेद च ननाद च ।
अहं मृतस्तदा चासं त्वया संजीवितः पुनः

5.107.64

तस्मादुदरसंस्थानां मरणाय तपे तपः ।
शुक्र उवाच-
एवमेतन्न संदेहो यथावत्त्वं समाचर

5.107.65

स्यमंतपंचकं तीर्थं तत्र त्वं तप्तुमर्हसि ।
राक्षस उवाच-
तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः

5.107.66

गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च ।
अयःस्तंभयुगं कृत्वा अयःपट्टिकयान्वितम्

5.107.67

पट्टिकायां पादबंधं कृत्वाधः शीर्षतां तथा ।
विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः

5.107.68

स्तंभोत्तरेण ज्वालायां चक्रिकायामितस्ततः ।
अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने

5.107.69

एवं तपश्चरिष्यामि वरदः कोपि मे भवेत् ।
ब्रह्मा वा वरदः सोऽस्तु शंकरो विष्णुरेव च

5.107.70

वरदे न तु मे भाव्यं यो वा कोवा वरप्रदः ।
इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः

5.107.71

तथातपच्च षण्मासं पुनरन्यच्चकार ह ।
नखाभ्यां स्वशिरश्छित्त्वा जुहावाग्नौ समंत्रकम्

5.107.72

नमो भद्राय मंत्रेण चत्वारि च शिरांसि सः ।
पंचमं तु शिरो हातुं यतमाने च राक्षसे

5.107.73

वह्निमध्यात्समुत्तस्थौ भगवानंबिकापतिः ।
शुद्धस्फटिकसंकाशो बालचन्द्र विभूषणः

5.107.74

अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः ।
मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु

5.107.75

राक्षस उवाच-
बहूनां च वराणां त्वं दाता नूनं महेश्वरः ।
हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिं तथा

5.107.76

वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा ।
मयि तेन हि रोषः स्यात्संनिधिस्तु सदा मम

5.107.77

त्वज्जटोत्पाटनेनैकः पुरुषः संभविष्यति ।
तेनैव मरणं नान्यैरिदमस्तु वृतं मम

5.107.78

भविष्यत्येवमेवैतदित्युक्त्वांतर्हितोहरः ।
एवंलब्धवरः पापी राक्षसो निहतस्त्वया

5.107.79

अथालिंग्य हरिर्वीरं शंकरश्च पितामहः ।
यथागतमथोजग्मुरथ देवादियोषितः

5.107.80

निपत्य दंडवद्भूमौ वीरभद्रमथाब्रुवन् ।
नमस्ते देवदेवेश नमस्ते करुणाकर

5.107.81

नमस्ते शाश्वतानंत नमस्ते वरदो भव ।
वीरभद्र उवाच-
भस्मना जीवयिष्यामि सुरान्समुनि वानरान्

5.107.82

भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना ।
इत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सतान्

5.107.83

उत्थिता मुनिदेवाश्च वानरौ चोत्थितौ ततः ।
इदमूचुर्वचो हृष्टाः शिरःस्थांजलयो नमन्

5.107.84

त्वयात्र जीवितास्तात पिता त्वं धर्मतो हि नः ।
अस्माकं शरणं नित्यं भव शंकरसंभव

5.107.85

शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान् ।
रक्षेः परकृता बाधा व्याधिभ्यश्च यथौरसान्

5.107.86

दक्षाध्वरे कृतागस्काः शिक्षिता भवतानघ ।
इदानीं रक्षितास्तात वयं शिशुवदेव ते

5.107.87

वीरभद्र उवाच-
सत्यमेतन्न संदेहो यत्र बाधा भवेत्तु वः ।
तत्र मां स्मरत क्षिप्रं बाधानाशं गमिष्यति

5.107.88

वीरभद्रं पदं येपि पठंत्यष्टशतं ततः ।
प्रणवादि नमोंऽतं च चतुर्थीसहितं तथा

5.107.89

तेषां राक्षसपीडानां नाशनं च भविष्यति ।
ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च

5.107.90

नामानुस्मरणात्सर्वबाधानां च विनाशनम्

5.107.91

विद्युत्प्रभालोचनमुग्रमीशं बालेंदुदंष्ट्रारुणशोभिताधरम् ।
सुनीलगात्रं च जटाकृतस्रजं दधानमंगे भसितत्रिपुंड्रकम्

5.107.92

ब्रह्मराक्षसमुक्त्यर्थं स्मरणं त्विदमीरितम् ।
मंत्रे च वीरभद्रस्य सर्वमेतदुदीरितम्

5.107.93

दधीच उवाच-
अथैवं विदधे वीरो मुनिदेवास्तथागताः ।
एतत्त्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम्

5.107.94

पठतः शृण्वतो वापि स्मरतोऽघविनाशनम् ।
शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्द्धनम्

5.107.95

शुचिस्मितोवाच-।
अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहम् ।
हतपापा तथा चास्मि नमस्ते मुनिपुंगव

5.107.107

इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे सप्तोत्तरशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc