भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.101

5.101.1

यम उवाच-
अथ कालकटाक्षेण लक्षितो नृपतिस्तदा ।
मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः

5.101.2

नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः ।
क्रन्दमानो महारावान्स स्मरन्निजपातकम्

5.101.3

विष्णुदूतैः समागम्य ताडयित्वा ममानुगान् ।
धर्मवानयमित्युक्त्वा विमानमथ रोपितः

5.101.4

नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः ।
प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः

5.101.5

अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः ।
देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा ।
अदूरादेव निरयवर्त्मना स समाहितः

5.101.6

स गच्छन्नपि शुश्राव जीवानां क्रंदतां पुनः ।
निरये पच्यमानानामारावं विविधं तदा

5.101.7

पापिनां क्वथ्यमानानामाक्रंदमतिदारुणम् ।
श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः

5.101.8

प्रोवाच दूताः किमयमाक्रंदो दारुणः श्रुतः ।
पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ

5.101.9

दूता ऊचु-
जंतवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः ।
निरयेषु च घोरेषु तामिस्रादिषु पातिताः

5.101.10

कृतपातकिनस्त्वत्र प्राणत्यागादनंतरम् ।
याम्यं पंथानमाश्रित्य दुःखमश्नंति दारुणम्

5.101.11

यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः ।
अंधकारे निपतिता भक्ष्यंते ह्यतिदारुणैः

5.101.12

श्वभिः शृगालैः क्रव्यादैः काककंकबकादिभिः ।
अग्नितुंडैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः

5.101.13

अग्निना दाह्यमानाश्च तुद्यमानाश्च कंटकैः ।
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया

5.101.14

क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा ।
पूयशोणितगंधेन मूर्छ्यमानाः पदेपदे

5.101.15

क्वाथ्यंते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित् ।
आयसीषु प्रपच्यंते शिलासु क्वचिदेव च

5.101.16

क्वचिद्वांतमथाश्नंति क्वचित्पूयमसृक्क्वचित् ।
क्वचिद्विष्ठां क्वचिन्मांसं पूतिगंधिषु दारुणम्

5.101.17

कृमिभिर्भक्ष्यमाणाश्च वह्नितुंडैः क्वचित्क्वचित् ।
केशशोणितमांसासृग्वसास्थिनिकरेषु च

5.101.18

अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम् ।
काककंकमहागृध्रवदनैर्ध्वंसितेषु च

5.101.19

शिवदुर्गंधनीरंध्र संघट्टशतकोटिषु ।
करपत्रशिलापत्रतप्त निस्तैलकेषु च

5.101.20

लोहतैलवसास्तंभ कूटशाल्मलसद्मसु ।
क्षुरकंटककीलोग्र ज्वालास्तंभविभातिषु

5.101.21

तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक् ।
असिपत्रवनोत्कृत्त नरनारीस्तनेषु च

5.101.22

घोरांधकारग्रहणदारुणेषु मुहुर्मुहुः ।
पापच्यमानाः क्रंदंतो दारुणैर्विविधैर्वधैः

5.101.23

कंठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित् ।
पीड्यमानास्तथा यंत्रैः कृष्यमाणाश्च जानुभिः

5.101.24

भग्नपृष्ठशिरोग्रीवाः स्तब्धकंठाः सुदारुणाः ।
कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः

5.101.25

पीड्यंते पापिनो राजन्क्रंदमाना विकर्मिणः ।
सहितं विषयास्वादैः क्रंदनं तैर्विधीयते

5.101.26

भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जंतुभिः ।
परस्त्रीषु कृतः संगः प्रीतये दुःखदो हि सः

5.101.27

मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः ।
वपुषस्तव राजेंद्र प्रातःस्नानस्य माधवे

5.101.28

विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः ।
लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव

5.101.29

आक्रंदरहितास्तेन जातास्ते निरये स्थिताः ।
नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम्

5.101.30

जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः ।
यम उवाच-
इति दूतवचः श्रुत्वा स राजा करुणानिधिः

5.101.31

प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः ।
कोमलं हृदयं नूनं साधूनां नवनीतवत्

5.101.32

वह्निसंतापसंतप्तं तद्यथा द्रवति स्फुटम् ।
राजोवाच-
नार्तं जंतुमहं हित्वा पीडितुं गंतुमुत्सहे

5.101.33

तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हंति यः ।
मदंगसंगमोच्छिष्टवायुस्पर्शेन ते यदि

5.101.34

जंतवः सुखिनो जातास्तस्मात्तत्र नयंतु माम् ।
पवित्रयंति जननीमवनीमपि ते नराः

5.101.35

परतापच्छिदो ये तु चंदना इव चंदनम् ।
परोपकृतये ये तु पीड्यंते कृतिनो हि ते

5.101.36

संतस्त एव ये लोके परदुःखविदारणाः ।
आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः

5.101.37

तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः ।
मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः

5.101.38

तस्मात्परसुखेनैव सुखिनः साधवः सदा ।
वरं निरयपातोऽत्र वरं प्राणवियोजनम्

5.101.39

न पुनः क्षणमार्तानामार्तिनाशमृते सुखम् ।
दूता ऊचु-
जंतवो निरये घोरे पच्यंते तेत्र पापिनः

5.101.40

स्वकर्मैवोपजीवंति मोहस्थानं न विद्यते ।
यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम्

5.101.41

पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम् ।
नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप

5.101.42

परस्मिन्निह घोरेषु पच्यंते निरयेषु ते ।
दुःशीला ये दुराचारा विहाराहारनिंदिताः

5.101.43

परापकारिणः पापकारिणो दुर्विहारिणः ।
विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये

5.101.44

निरये ते विपच्यंते ये परस्त्रीविहारिणः ।
एहि नूनं महीपाल गच्छामो हरिमंदिरम्

5.101.45

न ते पुण्यवता युक्तमिहस्था तु मतः परम् ।
राजोवाच-
यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये

5.101.46

नारके पथि वा नीतः किं वा मे सुकृतं परम् ।
मयापि न कृतं तादृक्सुकृतं कामशालिना

5.101.47

कथं पुरि हरेर्गंता संशयानोऽहमस्मि वै ।
दूता ऊचु-
सुकृतं न कृतं सत्यं त्वया कामवशात्मना

5.101.48

नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम् ।
किंतु माधवमासे यद्विधिना वत्सरत्रयम्

5.101.49

प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया ।
भक्त्या संपूजितो विष्णुर्विश्वेशो मधुसूदनः

5.101.50

महापापातिपापौघ निहंता भक्तवत्सलः ।
सर्वधर्मैकसारेण तेनैकेन नरेश्वर

5.101.51

नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः ।
महतामपि पापानां निहंता माधवोऽर्चितः

5.101.52

तथैव माधवो मासो मर्त्यानां विधिनोदितः ।
यथैव विस्फुलिंगेन ज्वाल्यते तृणसंचयः

5.101.53

प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते ।
तावद्वपुषि पापानि प्रभवंति महान्त्यपि

5.101.54

यावन्न माधवे मासि तीर्थे मज्जति चोषसि ।
वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः

5.101.55

हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत् ।
आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम्

5.101.56

तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर ।
अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः

5.101.57

स्तूयमानो विमानेन गच्छ गोविंदमंदिरम्

5.101.101

इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये ।
एकोत्तरशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc