भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.100

5.100.1

श्रीराजोवाच-
क्षीरोदजलतुल्याभिः शीतलामलदृष्टिभिः ।
तथ्याभिश्च विचित्राभिस्त्वया गीर्भिः प्रबोधितः

5.100.2

असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम् ।
त्वयाहं पायितः सौम्य भवरोगनिवारणम्

5.100.3

हर्षप्रदो नृणां पापहानिकृज्जीवनौषधम् ।
जरामृत्युहरो विप्र सद्भिः किल समागमः

5.100.4

यानि यानि दुरापानि वांछितानि महीतले ।
प्राप्यंते तानि तान्येव साधूनामेव संगमात्

5.100.5

यः स्नातः पापहरया साधुसंगम गंगया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः

5.100.6

निमज्ज्योन्मज्जतान्नॄणां भवाब्धौ परमायनम् ।
संतो धर्मविदः शांता नौर्दृढे वाप्सुमज्जताम्

5.100.7

यो मे भावःपुरा ह्यासीत्कामैकसुखलालसः ।
दर्शनाद्वचनात्तेऽद्य विपरीतोऽभवद्विभो

5.100.8

एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत् ।
प्राज्ञो जन्मसहस्राणि संचिनोत्येकजन्मना

5.100.9

हाहा कामरसास्वाद सुखलालसचेतसा ।
मया मूढेन न कृतं किंचिदात्महितं द्विज

5.100.10

अहो मे मनसो मोहो येनात्मा योषितां कृते ।
पातितो व्यसने घोरे दुःखोदर्के दुरत्यये

5.100.11

भगवन्परितुष्टोऽस्मि बोधितो वचनेन ते ।
उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि

5.100.12

पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत् ।
त्वत्पादरजसा वापि विशेषादपि पावितः

5.100.13

विधिं माधवमासस्य ब्रूहि मे वदतां वर ।
सर्वपापक्षयकरो यस्त्वया परिकीर्तितः

5.100.14

किं दानं तत्र किं स्नानं को देवो नियमास्तु के ।
एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे

5.100.15

यम उवाच-
इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः ।
प्रोवाच वचनं विप्र धर्म्यं विश्वहितं शुभम्

5.100.16

कश्यप उवाच-
पूर्वापरसमाधान क्षमबुद्ध्या च ते नृप ।
पृष्टं प्राज्ञे न वक्तव्यं नाधमे पापमानसे

5.100.17

पापप्रवृत्तस्य तथा दत्वा भूप शुभां मतिम् ।
विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः

5.100.18

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोकमाचरेत्

5.100.19

विदुषामपि शिष्याणां पुत्राणां च क्रियावताम् ।
अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम्

5.100.20

सांप्रतं शुद्धहृदयो जातस्त्वं वचनान्मम ।
पुराचरितपुण्येन केनापि च महीपते

5.100.21

पापावस्थं शरीरं तद्गतं तव ममाश्रयात् ।
श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु तेऽभवत्

5.100.22

पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम् ।
अपरं सद्व्रतं यद्धि विज्ञेयं तद्धि धार्मिकम्

5.100.23

धर्माधर्मोपभोगाय तत्तृतीयमतींद्रियम् ।
तत्त्रिभेदं शरीरं हि धर्म्मविद्भिरिहोच्यते

5.100.24

यावता धर्मभोगश्च मुक्तिश्चैतत्त्रिभेदकम् ।
पापावस्थं शरीरं तत्पापसंज्ञं तदुच्यते

5.100.25

इदानीं गुरुभक्तिं च कुर्वतश्च वचो मम ।
शृण्वतो धर्मरूपं तु शरीरं ते व्यवस्थितम्

5.100.26

तेनैव शुद्धिरमला जाता धर्मक्रियोचिता ।
दैवेन देहिनां नाम चेतांसि चरितानि च

5.100.27

शरीराणि च पुष्यंति कालेकाले विपर्ययम् ।
सांप्रतं भवतश्चेतो नूनं धर्मे प्रवर्तते

5.100.28

तेन त्वां कारयिष्यामि माधवस्नानमुत्तमम् ।
यम उवाच-।
ततस्तु कारितस्तेन कश्यपेन पुरोधसा

5.100.29

स नृपो माधवे मासि स्नानं दानं च पूजनम् ।
यथादृष्टं पुरा शास्त्रे वैशाखस्नानजं विधिम्

5.100.30

स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम् ।
श्रावितः स्तोत्रसारं च पाठितो हरिमेधसः

5.100.31

श्रुते यस्मिन्नधीते च स सम्यक्फलमाप्नुयात्

5.100.32

स कारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीम् ।
श्रीमाधवेमासि विधानमीड्यं ततो यथाकर्णितमादरेण

5.100.33

प्रातःस्नानं च पाद्यं च ह्यर्घं च हरिपूजनम् ।
नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः

5.100.34

दानं यथा नियमपालनमादरेण वैशाखमादिविदधाति विधानमेवम् ।
यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुराग्र्यः

5.100.35

अथेतरेषु मासेषु कामिनीकुचकेलिवान् ।
भोगैकलालसो भूयो भवत्येवं यथारुचि

5.100.36

न धर्मनियमं राजकार्येषु न विचारणम् ।
करोति कामवशगो हित्वा मासं स माधवम्

5.100.37

महतामपि विप्राग्र्य दुर्निवार्यो मनोभवः ।
शरीरसहजो नूनमनादिर्वासनाक्रमः

5.100.38

केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः ।
यस्मादग्निशिखा नार्यो दहंति तृणवन्नरम्

5.100.39

घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितम् ।
मोहधूममयः पापो न केषामंधकारितम्

5.100.100

इति श्रीपद्मपुराणेपातालखंडे वैशाखमासमाहात्म्ये शततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc